पूर्वमन्त्री महेशगागडा भोपालपट्टनम्नगरे भाजपा-निर्वाचनकार्यालयस्य उद्घाटनं कृतवान्
बीजापुरम्, १९ नवम्बरमासः (हि.स.)। भोपालपट्टनम्नगरपञ्चायतनिर्वाचनं प्रति भारतीयजनतापक्षेण निर्वाचनसम्बद्धाः सज्जताः तीव्राः कृताः। अस्यैव क्रमस्य अन्तर्गतं गुरुवासरे भोपालपट्टनममण्डले भाजपा-निर्वाचनकार्यालयस्य उद्घाटनं पूर्वमन्त्री महेशगागडा कृतवान्
पूर्व मंत्री महेश गागड़ा ने किया भोपालपटनम में भाजपा चुनाव कार्यालय का शुभारंभ


बीजापुरम्, १९ नवम्बरमासः (हि.स.)। भोपालपट्टनम्नगरपञ्चायतनिर्वाचनं प्रति भारतीयजनतापक्षेण निर्वाचनसम्बद्धाः सज्जताः तीव्राः कृताः। अस्यैव क्रमस्य अन्तर्गतं गुरुवासरे भोपालपट्टनममण्डले भाजपा-निर्वाचनकार्यालयस्य उद्घाटनं पूर्वमन्त्री महेशगागडा कृतवान्।

अस्मिन् अवसरे मण्डलपदाधिकारिणां कार्यकर्तॄणां च महत्त्वपूर्णा सभा आयोजिता। सभायां नगरपञ्चायत-निर्वाचनस्य रणनीतिः, सङ्घटनस्य सुदृढीकरणम् तथा भाजपासर्वकारस्य जनकल्याणकारीयोजनानां जनजनपर्यन्तं प्रसारणम् इत्यादिषु विषयेषु विस्तृतचर्चा अभवत्।

सभायां नेतारः निर्वाचनक्षेत्रे पूर्णैक्येन कार्यं कृत्वा भाजपायाः विजयः सुनिश्चितं कर्तुं सङ्कल्पं कृतवन्तः। अस्मिन् अवसरे भाजपा-जनपदमहामन्त्री फूलचन्दगागडा, जनपदपञ्चायताध्यक्षः तथा भोपाल-पट्टनमनगरपञ्चायतस्य सहप्रभारी श्रीमती जानकीकोरसा, जनपदपञ्चायत-सदस्यः शकरैयामाण्डवी, महिलामोर्चानेत्री माया-झाडी, भाजयुमो-जनपदाध्यक्षः हरिहरः साहनी, मण्डलाध्यक्षः नरसिंह रेड्डी, मण्डलमहामन्त्रिणौ अरुणभगतः गिरिजा-शङ्करतामडी च तथा बहवः भाजपा-पदाधिकारिणः कार्यकर्तारः च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan