Enter your Email Address to subscribe to our newsletters

पटना, 19 नवंबरमासः (हि.स.)।केन्द्रीयसञ्चारमन्त्री तथा पूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्यसिन्धिया गुरुवासरे लोकसेवकावासस्थिते ‘सङ्कल्प’ सभागारे मुख्यमन्त्रिणा सम्राट् चौधरिणा सह मिलितवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा केन्द्रीयमन्त्रिणा च बिहारप्रदेशे दूरसञ्चारक्षेत्रस्य विकासः, आधुनिकसञ्चारसुविधानां विस्तारः तथा अस्मिन् क्षेत्रे राज्यस्य सम्भावनाः इत्यादीन् विषयान् अधिकृत्य विस्तृतः विचारविमर्शः कृतः।
तथैव बिहारप्रदेशे दूरसञ्चारसम्बद्धमूलसंरचनायाः अधिकसुदृढीकरणम्, सञ्चारसेवानां विस्तारमाध्यमेन विकासस्य नवीनसम्भावनानां गतिवर्धनम् इत्यादीन् विविधविषयान् अधिकृत्य अपि चर्चा अभवत्।
अस्मिन् अवसरे मुख्यमन्त्री सम्राट् चौधरी केन्द्रीयमन्त्रिणे ज्योतिरादित्यसिन्धियाय पुष्पगुच्छम्, उत्तरीयम् एवं स्मृतिचिह्नं समर्प्य तस्य स्वागतं अभिनन्दनं च कृतवान्। अस्यां भेंटवार्तायां भाजपायाः प्रदेशाध्यक्षः सञ्जयसरावगी अपि उपस्थितः आसीत्।
---------------
Hindusthan Samachar / Dheeraj Maithani