ओडिशाकेन्द्रीयविश्वविद्यालये विकसितभारत-युवासंसदस्य आयोजनम्
भुवनेश्वरम्, १९ नवम्बरमासः (हि.स.)। ओडिशाकेन्द्रीयविश्वविद्यालये, कोरापुटे गुरुवासरे विकसितभारत-युवासंसदस्य २०२६-२७ कार्यक्रमस्य अन्तर्गतं ‘विकसितभारत-युवासंवादः’ आयोजितः। युवा-कार्यक्रम-क्रीडामन्त्रालयस्य अन्तर्गतस्य कोरापुट-जिलायुवा-कार्यालयस्य ‘
केंद्रीय विश्वविद्यालय ओडिशा में विकसित भारत युवा संसद का आयोजन


भुवनेश्वरम्, १९ नवम्बरमासः (हि.स.)। ओडिशाकेन्द्रीयविश्वविद्यालये, कोरापुटे गुरुवासरे विकसितभारत-युवासंसदस्य २०२६-२७ कार्यक्रमस्य अन्तर्गतं ‘विकसितभारत-युवासंवादः’ आयोजितः। युवा-कार्यक्रम-क्रीडामन्त्रालयस्य अन्तर्गतस्य कोरापुट-जिलायुवा-कार्यालयस्य ‘माय भारत’-संस्थायाः सहयोगेन आयोजितस्य अस्य कार्यक्रमस्य उद्देश्यं यून: व्यसनमुक्तेः, स्वस्थजीवन-शैल्याः, उत्तरदायिनागरिकत्वस्य च विषये जागरूकान् करणम् तथा विकसित-भारतस्य २०४७ इति लक्ष्यस्य प्राप्तौ तेषां सहभागितां प्रोत्साहयितुं च आसीत्।

कार्यक्रमे सम्बोधयन् विश्वविद्यालयस्य कुलपतिः प्रो. अजीतकुमारशासनी राष्ट्रियमहत्त्वपूर्णेषु विषयेषु युवानां सक्रियसहभागितायाः तथा लोकतान्त्रिक-मूल्यानां सुदृढीकरणस्य च महत्त्वम् अवदत्। सः छात्रान् जागरूकाः, उत्तर-दायिनः, सक्रियाः नागरिकाः भूत्वा देशस्य विकासे योगदानं दातुं आह्वयत्।

जनपदयुवाधिकारी टी. मनेश्विनी कार्यक्रमस्य उद्देश्यानां महत्त्वस्य च विषये सूचनां दत्त्वा व्यसनमुक्तस्य विकसित-भारतस्य निर्माणे युवानां भूमिकां महत्त्वपूर्णाम् अवदत्। छात्रकल्याणा-धिष्ठाता डॉ. रामेन्द्रकुमारपाढी स्वागत-भाषणे यूनां सहभागितायाः, नेतृत्वस्य तथा सामूहिकउत्तरदायित्वस्य च विषये प्रकाशं पातितवान्।

प्रतियोगितायां अर्थशास्त्रविभागस्य रेणुस्मिता मेहर प्रथमस्थानं प्राप्तवती तथा ‘व्यसनमुक्तयुवदूतपुरस्कारम्’ प्राप्तवती। समाजशास्त्रविभागस्य अन्वेषा अनमोल द्वितीयस्थानं प्राप्तवती, तस्यै ‘श्रेष्ठयुव-नेतृत्वविचारपुरस्कारः’ प्रदत्तः। वानिकी-विभागस्य अश्रीत आयुष्मानप्रधानः तृतीयस्थानं प्राप्तवान् तथा ‘श्रेष्ठ-जागरूकताप्रचारकपुरस्कारम्’ प्राप्तवान्। कार्यक्रमस्य अन्ते राष्ट्रियसेवायोजनायाः कार्यक्रमाधिकारी डॉ. अञ्जनयुलु-थोटापल्ली धन्यवादज्ञापनं कृतवान्।

Hindusthan Samachar / Divya Ranjan