Enter your Email Address to subscribe to our newsletters

उज्जयिनी, १९ नवम्बरमासः (हि.स.)। मध्यप्रदेशशासनस्य संस्कृतिविभागस्य तत्त्वावधाने कालिदाससंस्कृत-अकादम्या तथा सम्राट् विक्रमादित्यविश्वविद्यालयेन च अखिलभारतीयकालिदाससमारोहः नवम्बरमासस्य २१ तः २७ दिनाङ्कपर्यन्तं आयोजयिष्यते। समारोहस्य शुभारम्भः नवम्बरमासस्य २१ दिनाङ्के सायं षड्वादने कालिदाससंस्कृत-अकादम्याः पण्डितसूर्यनारायणव्याससंकुलस्य सभागारे मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मुख्यातिथ्ये भविष्यति।
समारोहस्य विशिष्टातिथिः भारत-सर्वकारस्य केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः भविष्यति। संस्कृति-पर्यटनधार्मिकन्यासधर्मस्वविभागस्य राज्यमन्त्री धर्मेन्द्रभावसिंहलोधी समारोहस्य अध्यक्षतां करिष्यति। सांसदौ अनिलफिरोजिया तथा उमेशनाथमहाराजः, प्रभारीमन्त्री गौतमटेटवालः, विधायकाः अनिलजैनकालूहेडा, डॉ. तेजबहादुर-सिंहचौहानः, दिनेशजैन:, सतीशमालवीयः, महेशपरमारः तथा जितेन्द्रसिंहपण्ड्या च उपस्थिताः भविष्यन्ति।
उद्घाटनानन्तरं नान्दीकार्यक्रमस्य अन्तर्गतं उज्जैनस्य वेणुनादनिनाद-नृत्यसंस्थया शिप्रास्तुतिः, कर्नाटकस्य डॉ. केरमाने शिवानन्दहेगडेन यक्षगानस्य प्रस्तुति तथा ग्वालियरस्य राजामान-सिंहतोमर-सङ्गीतकलाविश्वविद्यालयेन वाद्यवृन्दस्य प्रस्तुति: च भविष्यति।
एतत् विवरणं कालिदाससंस्कृत-अकादम्याः निदेशकः डॉ. गोविन्दगन्धे प्रदत्तवान्।
Hindusthan Samachar / Divya Ranjan