अमेरिकी प्रतिनिधिसभायाः अध्यक्षपदाय हकीम जेफ्रीजः नामाङ्कितः
वाशिंगटनम्, 19 नवंबरमासः (हि.स.)।अमेरिकी प्रतिनिधिसभायां डेमोक्रेटिकदलेन हकीम जेफ्रीजः आगामीसभाध्यक्षपदाय स्वकीयः प्रत्याशी नामाङ्कितः। जनवरीमासे नूतनस्य कांग्रेससत्रस्य प्रारम्भानन्तरं यदि जेफ्रीजः अस्मिन् पदे निर्वाचितः भवति, तर्हि सः अमेरिकीप्रत
अमेरिकी प्रतिनिधि सभा के स्पीकर पद के लिए हकीम जेफ्रीज नामित


वाशिंगटनम्, 19 नवंबरमासः (हि.स.)।अमेरिकी प्रतिनिधिसभायां डेमोक्रेटिकदलेन हकीम जेफ्रीजः आगामीसभाध्यक्षपदाय स्वकीयः प्रत्याशी नामाङ्कितः। जनवरीमासे नूतनस्य कांग्रेससत्रस्य प्रारम्भानन्तरं यदि जेफ्रीजः अस्मिन् पदे निर्वाचितः भवति, तर्हि सः अमेरिकीप्रतिनिधिसभायाः प्रथमः कृष्णवर्णीयः सभाध्यक्षः भूत्वा इतिहासं रचयिष्यति।

दलस्य गोपनीयकक्षे सम्पन्नायां मतदानप्रक्रियायां जेफ्रीजः २५१ मतानि प्राप्तवान्, जबकि ११ सदस्याः तस्य विरोधे मतदानं कृतवन्तः। अस्मिन् पदाय तस्य कापि प्रत्यक्षप्रतिस्पर्धा नासीत्, तथापि दलस्य केचन प्रगतिशीलनेतारः नीतिसम्बद्धेषु विषयेषु असहमतिं प्रकटितवन्तः। एतेषु फिलिस्तीनसम्बद्धः विषयः अपि अन्तर्भूतः अस्ति।

नवम्बरमासे सम्पन्नेषु मध्यावधिनिर्वाचनेषु डेमोक्रेटिकदलेन प्रतिनिधिसभायां बहुमतं प्राप्तम्। दलाय अधुना न्यूनातिन्यूनं २५७ आसनानि प्राप्तानि इति अनुमानम् अस्ति, यद्यपि कतिपयानाम् आसनानां निर्वाचनपरिणामाः अद्यापि प्रतीक्षायाम् सन्ति। अतः जनवरीमासे सदनस्य सभापटलस्य उपरि भविष्यमाणे मतदानप्रक्रियायां जेफ्रीजस्य विजयस्य सम्भावना प्रबला मन्यते। सः वर्तमानस्य रिपब्लिकनदलस्य सभाध्यक्षस्य माइक जॉनसनस्य स्थानं ग्रहीतुं शक्नोति। निर्वाचनस्य अनन्तरं स्वदलस्य पराजयात् अल्पमतपक्षस्य नेतृत्वस्य दायित्वं न स्वीकर्तुं जॉनसनेन निर्णयः कृतः अस्ति।

अमेरिकायां कृष्णवर्णीयसमुदायात् बराक ओबामा राष्ट्रपतिपदं तथा कमला हैरिसः उपराष्ट्रपतिपदं च प्राप्तवत्यौ, किन्तु प्रतिनिधिसभायाः सभाध्यक्षपदं यावत् अद्यावधि कोऽपि कृष्णवर्णीयनेता न प्राप्तवान्। एतत् पदं राष्ट्रपतिपदस्य उत्तराधिकारक्रमे उपराष्ट्रपतिपदानन्तरं द्वितीयस्थाने भवति।

----------------------

Hindusthan Samachar / Dheeraj Maithani