छावनीपरिषद: सदस्यस्य सरदार-अनमोल-सिंह-महोदयस्य भव्यं स्वागतं सम्माननं च
रामगढ़म्, १९ नवम्बरमास: (हि.स.)। रामगढ़च्छावनीपरिषदः नामितसदस्यत्वेन पूर्वोपाध्यक्षस्य सरदार-अनमोल-सिंह-महोदयस्य मनोनयनात् नगरे हर्षोल्लासस्य वातावरणम् अस्ति। तस्य शपथग्रहणानन्तरं गुरुवासरे सायंकाले झण्डाचौकस्थिते मातृवैष्णोदेवीमन्दिर-परिसरे पञ्जाब
अनमोल सिंह का हुआ स्वागत


रामगढ़म्, १९ नवम्बरमास: (हि.स.)। रामगढ़च्छावनीपरिषदः नामितसदस्यत्वेन पूर्वोपाध्यक्षस्य सरदार-अनमोल-सिंह-महोदयस्य मनोनयनात् नगरे हर्षोल्लासस्य वातावरणम् अस्ति। तस्य शपथग्रहणानन्तरं गुरुवासरे सायंकाले झण्डाचौकस्थिते मातृवैष्णोदेवीमन्दिर-परिसरे पञ्जाबीहिन्दुबिरादरी-प्रबन्ध-समित्याः तत्वावधाने स्वागत-सम्मानसमारोहः आयोजितः। समारोहस्य मुख्यातिथिरूपेण हजारीबागस्य सांसदः मनीष-जायसवाल-महोदयः उपस्थितः आसीत्।

समारोहं सम्बोधयन् सांसदः मनीष-जायसवालः सरदार-अनमोल-सिंह-महोदयस्य मनोनयनाय अभिनन्दनम् अकरोत्। सः अवदत् यत् श्रवणेन दर्शनने च छावनीपरिषदः नामितसदस्यत्वं लघुदायित्वमिव भाति, किन्तु वस्तुतः एतत् महत्त्वपूर्णं दायित्वम् अस्ति। सः आशां प्रकटितवान् यत् सरदार-अनमोल-सिंहः स्वबुद्धिमत्ता-अनुभव-कार्यकुशलताभिः रामगढ़स्य विकासे महत्त्वपूर्णं योगदानं प्रदास्यति।

सम्मानेन अभिभूतः सरदार-अनमोल-सिंहः पञ्जाबीहिन्दुबिरादरी-प्रबन्धसमितेः प्रति कृतज्ञतां प्रकटितवान्। सः अवदत् यत् एतत् सम्मानं तस्य प्रेरणास्रोतः अस्ति। सः स्वदायित्वं पूर्णनिष्ठया निर्वहिष्यति तथा जनानाम् अपेक्षाः पूरयितुं प्रयतिष्यते।

बिरादरीस्य महासचिवः महेश-मरवाहा सांसदस्य मनीष-जायसवाल-महोदयस्य स्वागतं कुर्वन् अवदत् यत् सांसदः जनानां सुखदुःखेषु सदैव तेषां मध्ये उपस्थितः भवति तथा जनसमस्याः गम्भीरतया अवगच्छति।

समारोहस्य अवसरे बिरादरीस्य अध्यक्षः एस.सी. वासुदेवः सांसदस्य मनीष-जायसवाल-महोदयाय मातुः चुनरीं समर्पितवान्। महासचिवः महेश-मरवाहा प्रतीकचिह्नं समर्पितवान्। उपाध्यक्षः मनजीत-साहनी, सहसचिवः नरेशचन्द्र-मरवाहा तथा संस्थापकसदस्यः रमण-मेहरा च पुष्पगुच्छैः स्वागतं कृतवन्तः।

अस्मिन् अवसरे बिरादरीस्य अध्यक्षः एस.सी. वासुदेवः, उपाध्यक्षः मनजीत-साहनी, महासचिवः महेश-मरवाहा, सहसचिवः नरेशचन्द्र-मरवाहा, सुभाष-चन्द्र-मरवाहा, सुरेन्द्र-सोबती, रमण-मेहरा, जे.के. शर्मा, प्रवीण-शर्मा, बल-वन्तराय-मरवाहा इत्यादयः अन्ये च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan