Enter your Email Address to subscribe to our newsletters

राँची, १९ नवम्बरमासः (हि.स.)। झारखण्डप्रदेशकाङ्ग्रेससमित्याः तत्त्वावधाने गुरुवासरे राँचीस्थे प्रदेश-काङ्ग्रेस-मुख्यालये पूर्वप्रधानमन्त्रिणः इन्दिरागान्धिनः तथा दलस्य पूर्वराष्ट्रियाध्यक्षस्य सीताराम-केसरिणः जयन्ती आयोजिता। अस्मिन् अवसरे उपस्थितैः काङ्ग्रेसजनैः उभयोः नेतृयोः चित्रेषु माल्यार्पणं पुष्पार्पणं च कृत्वा श्रद्धापूर्वकं नमनं कृतम्।
अस्मिन् अवसरे वक्तारः अवदन् यत् सम्पूर्णं विश्वं इन्दिरागान्धिं नारीशक्तेः सशक्तनेतृत्वस्य च प्रतीकरूपेण जानाति। धनागाराणां राष्ट्रियकरणं, देशस्य एकतायाः अखण्डतायाश्च सुदृढीकरणेन सह तया कृतानां अनेकानां ऐतिहासिक-निर्णयानां कृते सा सदैव स्मरिष्यते। सर्वधर्मसमभावस्य धर्मनिर-पेक्षतायाश्च सिद्धान्तान् सुदृढीकृतवती इन्दिरागान्धिः सामाजिके राजनीतिके च क्षेत्रे काङ्ग्रेसस्य योगदानाय नूतनं परिचयं प्रदत्तवती।
वक्तारः अवदन् यत् भुवनेश्वरस्य सभायां इन्दिरागान्धिनः उक्तं वचनम्—“अहं भवामि अथवा न भवामि, मम प्रत्येकं रक्तबिन्दुः देशस्य सेवायां समर्पितः भविष्यति”—अद्यापि देशवासिनः राष्ट्रसेवायां समर्पणे च प्रेरयति। अस्मिन् अवसरे काङ्ग्रेसस्य पूर्वराष्ट्रियाध्यक्षस्य सीतारामकेसरिणः जीवनस्य राजनैतिकयोगदानस्य च विषये अपि प्रकाशः पातितः।
वक्तारः अवदन् यत् सीतारामकेसरिणः सामान्यकाङ्ग्रेसकार्यकर्तारूपेण राजनैतिकयात्रायाः आरम्भः अभवत्। स्वस्य संघर्षस्य, सङ्गठनात्मकक्षमतायाः, निष्ठायाः समर्पणस्य च बलात् सः भारतीय राष्ट्रियकाङ्ग्रेसस्य राष्ट्रियाध्यक्षपदं प्राप्तवान्। तस्य जीवनं काङ्ग्रेसस्य समर्पितकार्यकर्तृणां कृते प्रेरणास्रोतः अस्ति।
श्रद्धासुमनानि अर्पयितृषु राकेशसिन्हा, कुमारगौरवः, के.के. गिरिः, राजनवर्मा, ज्योतिसिंहमथारू, उमेशचौधरी, मनोज-सहायपिङ्कू, नेलीनाथन, जगदीशसाहू, सुरेनरामः, जितेन्द्रत्रिवेदी, कमलठाकुरः इत्यादयः अन्ये च काङ्ग्रेसजनाः सम्मिलिताः आसन्।
Hindusthan Samachar / Divya Ranjan