Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 19 नवंबरमासः (हि.स.)।
दिल्लीस्थेषु विद्यालयेषु उच्चशिक्षणसंस्थानेषु च ‘एहसास २०२६’ इति मानसिकस्वास्थ्यस्य भावनात्मककल्याणस्य च नीत्याः शुभारम्भः।
दिल्लीप्रदेशस्य उपराज्यपालः तरनजीतसिंहसन्धुः मुख्यमन्त्री च रेखागुप्ता गुरुवासरे इन्दिरागान्धी इन्डोर् क्रीडाङ्गणे आयोजिते कार्यक्रमे विद्यालयानां उच्चशिक्षणसंस्थानां च कृते ‘एहसास २०२६’ इति मानसिकस्वास्थ्यस्य भावनात्मककल्याणस्य च नीतिं प्रारब्धवन्तौ। अस्याः नीत्याः उद्देश्यं मानसिकस्वास्थ्यविषये जागरूकतायाः संवर्धनम्, विद्यार्थिनः, शिक्षकाः, अभिभावकाश्च अस्मिन् विषये मुक्तरूपेण संवादं कर्तुं प्रेरणम् तथा मानसिकं भावनात्मकं च स्वास्थ्यं शिक्षायाः महत्त्वपूर्णम् अङ्गं कर्तुम् अस्ति।
अस्मिन् अवसरे दिल्लीप्रदेशस्य शिक्षामन्त्री आशीषसूदः, पर्यावरणमन्त्री मनजिन्दरसिंहसिरसा, आर्ट् ऑफ् लिविङ्ग् संस्थायाः संस्थापकः आध्यात्मिकगुरुः श्रीश्रीरविशङ्करः सहस्रशश्च जनाः उपस्थिताः आसन्।
उपराज्यपालः तरनजीतसिंहसन्धुः अवदत् यत् मानसिकस्वास्थ्यस्य भावनात्मकसुखस्य च शिक्षायाः अभिन्नम् अङ्गत्वेन समावेशः अद्यतनकाले अत्यावश्यकः अस्ति। युवसु वर्धमानस्य तनावस्य परिप्रेक्ष्ये दिल्लीसर्वकारस्य एषा पहलः सामयिकी प्रशंसनीया च अस्ति। प्रत्येकस्य बालकस्य भावना, आकाङ्क्षा, आवश्यकता च महत्त्वपूर्णा अस्ति। तस्य पृष्ठभूमेः, क्षमतायाः अथवा परिस्थितेः आधारेण भेदभावः न करणीयः। दिव्याङ्गानां वञ्चितसमुदायानां च बालकेभ्यः समानावसराः, स्वीकृतिः, सहकारिता च प्रदातव्या।
सः अवदत् यत् मानसिकस्वास्थ्यस्य दायित्वं केवलं विद्यार्थिनां न, अपितु शिक्षकाणाम्, अभिभावकानां, विद्यालयप्रबन्धनस्य च अस्ति। बालकानां भावनाः अवगन्तुं, संवेदनशीलतया तेषां वचनं श्रोतुं तथा आवश्यकतायां साहाय्यं प्राप्तुं तान् प्रेरयितुं च आवश्यकम्। ‘वसुधैव कुटुम्बकम्’ इत्यस्य भावनायाः उल्लेखं कुर्वन् सः अवदत् यत् करुणया, परस्परसम्मानेन, आत्मीयभावेन च बालकेषु आत्मविश्वासः मानसिकस्वास्थ्यं च विकसितं भवति।
अस्मिन् अवसरे मुख्यमन्त्री अवदत् यत् दिल्लीसर्वकारः विद्यार्थिनां मानसिकस्वास्थ्यं समग्रकल्याणं च ध्याने निधाय ‘एहसास’ इति मानसिकस्वास्थ्यस्य भावनात्मककल्याणस्य च नीतिं प्रस्तुतवान्। एषा नीतिः दिल्लीप्रदेशस्य विद्यालयेषु उच्चशिक्षणसंस्थानेषु च कार्यान्विता भविष्यति। विद्यार्थिनां जीवनस्य विभिन्नेषु चरणेषु मानसिकावस्थासु च तेषां निरन्तरसाहाय्यं सम्बलं च प्रदातुम् अस्याः नीत्याः उद्देश्यम् अस्ति।
मुख्यमन्त्री अवदत् यत् ‘एहसास’ इत्यस्य माध्यमेन दिल्लीप्रदेशस्य विद्यालयेषु महाविद्यालयेषु च अध्ययनरताः लक्षशः विद्यार्थिनः मानसिकया भावनात्मकया च दृढतया अग्रे गन्तुं अवसरं प्राप्स्यन्ति। प्रदेशस्य प्रत्येकः बालकः प्रसन्नतया, सकारात्मकतया, आत्मविश्वासेन च जीवने अग्रे वर्धेत् तथा तस्य प्रत्येकस्यां चुनौतीपूर्णायां परिस्थितौ सर्वकारः, शिक्षकाः, अभिभावकाश्च तस्य पार्श्वे तिष्ठेयुः इति दिल्लीसर्वकारस्य प्रयासः अस्ति।
अस्याः महत्त्वपूर्णायाः पहलायाः क्रियान्वयने शिक्षाविभागस्य योगदानस्य प्रशंसां कुर्वन् मुख्यमन्त्री सर्वेभ्यः अधिकारिभ्यः, शिक्षकेभ्यः, सहयोगिभ्यश्च कृतज्ञतां प्रकटितवान्। दिल्लीप्रदेशस्य शिक्षाव्यवस्थायाः नूतनदिशां निर्धारणे विद्यार्थिनां सर्वाङ्गीणविकासस्य च अस्मिन् प्रयासे शिक्षाविभागेन महत्त्वपूर्णा भूमिका निर्व्यूढा इति सः अवदत्।
शिक्षामन्त्री आशीषसूदः अवदत् यत् ‘एहसास २०२६’ नीतिः बालकानां भावनात्मकावश्यकतानाम् अवगमने, तेषां वचनश्रवणे, समुचितसाहाय्यप्रदाने च महत्त्वपूर्णा पहलः अस्ति। नीतिनिर्माणे गुरुदेवस्य श्रीश्रीरविशङ्करस्य, आर्ट् ऑफ् लिविङ्ग् संस्थायाः, यूनेस्को संस्थायाः, इहबास् संस्थायाः तथा विशेषज्ञसंस्थानां च योगदानाय सः कृतज्ञतां ज्ञापितवान्। नीत्याः अन्तर्गतं शिक्षकाणाम्, अभिभावकानाम्, प्रधानाचार्याणाम्, ईवीजीसी इत्याख्यानां परामर्शकानाम्, अधिकारिणाम्, वाहनचालकानाम्, परिचारिकाणाम् अन्येषां च सहायककर्मचारिणां प्रशिक्षणं प्रदास्यते, येन बालकानां व्यवहारे जायमानानां परिवर्तनानां समये एव परिचयः कृत्वा तेभ्यः संवेदनशीलतया साहाय्यं प्रदातुं शक्यते।
श्रीश्रीरविशङ्करः अवदत् यत् भारतस्य आध्यात्मिकपरम्परा मानसिकस्वास्थ्यस्य भावनात्मकदृढतायाश्च आधारभूता अस्ति। ‘एहसास’ नीत्याः कृते दिल्लीसर्वकारं अभिनन्दयन् सः अवदत् यत् एषा नीतिः विद्यार्थिनां समाजस्य च मध्ये मानसिकस्वास्थ्यविषये महत्त्वपूर्णं संवादं स्थापयिष्यति।
दिल्लीसर्वकारस्य ‘एहसास’ नीत्याः अन्तर्गतं शिक्षणसंस्थानानि केवलं पुस्तकीयज्ञानस्य, परीक्षायाः, अङ्कानां च सीमायां न स्थापयित्वा सुरक्षितानि, संवेदनशीलानि, सहकारितापूर्णानि च वातावरणानि निर्मीयन्ते। तत्र विद्यार्थिनः स्वभावनाः व्यक्तीकर्तुं, चुनौतीनां सामना कर्तुं शिक्षितुं, आत्मविश्वासेन च अग्रे वर्धितुं शक्नुवन्ति।
‘एहसास’ नीतिः चतुर्षु प्रमुखस्तम्भेषु आधृता अस्ति। प्रथमः स्तम्भः ‘होल् इन्स्टिट्यूशन् अप्रोच्’ इति सम्पूर्णसंस्थानाधारितः दृष्टिकोणः अस्ति। अस्य अन्तर्गतं मानसिकस्वास्थ्यं सम्पूर्णस्य संस्थानस्य कार्यसंस्कृतेः अङ्गं कृत्वा विद्यार्थिनां, शिक्षकाणां, अध्यापकवर्गस्य, संस्थानप्रमुखाणां, छात्रावासकर्मचारिणाम्, अभिभावकानां च सहभागिता सुनिश्चितं क्रियते।
द्वितीयः स्तम्भः सक्रियपूर्वनिवारकपरिचर्यायाः अस्ति। अस्य माध्यमेन मानसिकसमस्यानां प्रारम्भिकसंकेतानां परिचयः, सामाजिकभावनात्मककौशलानां, जीवनकौशलानां, मानसिकदृढतायाश्च विकासे विशेषं ध्यानं दीयते।
तृतीयः स्तम्भः व्यवस्थास्तरीयदायित्वस्य प्रशासनस्य च अस्ति। अस्य अन्तर्गतं संस्थानेषु दायित्वनिर्धारणम्, कर्मचारिणां प्रशिक्षणम्, क्षमतासंवर्धनम्, संस्थागतनेतृत्वस्य उत्तरदायित्वनिर्धारणं च सुनिश्चितं क्रियते।
चतुर्थः स्तम्भः नैतिकसुरक्षायाः अधिकाराधारितसाहाय्यस्य च अस्ति। अस्य अन्तर्गतं विद्यार्थिनां गरिमायाः, निजतायाः, गोपनीयतायाश्च रक्षणं विधास्यते। अवयस्कविद्यार्थिनां कृते आयुनुरूपसम्मतेः तथा वयस्कविद्यार्थिनां स्वायत्ततायाः सम्मानः अपि सुनिश्चितः भविष्यति।
‘एहसास’ नीत्याः अन्तर्गतं विद्यालयेषु प्रशिक्षितपरामर्शव्यवस्थायाः सुदृढीकरणं कृत्वा प्रत्येकस्मिन् विद्यालये परामर्शकस्य नियुक्तेः तथा १५०० विद्यार्थिनां कृते एकः परामर्शकः इति अनुपातस्य सुनिश्चिततायाः प्रावधानम् अस्ति। बृहद्विद्यालयेषु विभिन्नशैक्षणिकस्तराणां कृते अतिरिक्तपरामर्शकाः अपि नियुक्तुं शक्यन्ते। परामर्शकाः विद्यार्थिनां भावनात्मकानां मनोसामाजिकानां च समस्याणां परिचये, प्रारम्भिकसाहाय्ये, परामर्शप्रदाने तथा आवश्यकतायां विशेषज्ञसाहाय्यस्य व्यवस्थायां च भूमिकां निर्वक्ष्यन्ति। ते प्रशासनिककार्येभ्यः अनुशासनसम्बद्धकार्येभ्यश्च पृथक् स्थापयिष्यन्ते।
विद्यालयकल्याणसमितिः विद्यालयकल्याणदलानि च मानसिकस्वास्थ्यसम्बद्धानां गतिविधीनां समन्वयं करिष्यन्ति। शिक्षकानां कर्मचारिणां च तनावस्य तथा व्यवहारे जायमानानां परिवर्तनानां प्रारम्भिकसंकेतानां परिचयार्थं प्रशिक्षणं प्रदास्यते। दिल्लीसर्वकारस्य विद्यालयेषु सम्प्रति ५४० शैक्षिकव्यावसायिकमार्गदर्शनपरामर्शकाः सन्ति। तेषु ३४८ नियमिताः, १९२ अतिथिपरामर्शकाश्च सन्ति। ते विद्यार्थिभ्यः मनोवैज्ञानिकं, भावनात्मकं, व्यक्तिगतं, शैक्षणिकं तथा वृत्तिसम्बद्धं मार्गदर्शनं प्रददति। एतदतिरिक्तं ५०० अधिकाः शिक्षकपरामर्शकाः अपि विद्यार्थिनां मार्गदर्शने जागरूकतासम्बद्धासु गतिविधिषु च योगदानं कुर्वन्ति।
‘एहसास’ नीत्याः अन्तर्गतं परीक्षासम्बद्धः दबावः, शैक्षणिकतनावः, चिन्ता, अवसादः, पारस्परिकसम्बन्धानां तथा अङ्कीयव्यवहारसम्बद्धाः चुनौतीश्च विशेषतया विचार्यन्ते। माध्यमिकशिक्षामण्डलस्य प्रवेशपरीक्षाणां च दबावेन पीडितेभ्यः विद्यार्थिभ्यः मार्गदर्शनं साहाय्यं च प्रदास्यते। उत्पीडनस्य, परिचयाधारितभेदभावस्य, साइबर् उत्पीडनस्य च शिकायतां कृते गोपनीया व्यवस्था, समयबद्धा कार्यवाही तथा परिवादतकर्तॄणां प्रताड़नायाः संरक्षणं सुनिश्चितं कर्तुम् अपि विशेषेण बलं दीयते।
---------------
Hindusthan Samachar / Dheeraj Maithani