Enter your Email Address to subscribe to our newsletters

- चतुर्थवारं विजेतृपदं प्राप्तुं वर्तमानविजेतुः भारतस्य लक्ष्यम्
भोपालम्, १९ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरे नाथू बरखेड़ा इत्यत्र स्थिते अन्ताराष्ट्रियक्रीडासङ्कुलस्थले अद्य गुरुवासरे महिलानाम् एशियाई हॉकी चेम्पियन्स् ट्रॉफी-२०२६ इति प्रतियोगितायाः शुभारम्भः भविष्यति। प्रतियोगितायाः प्रथमदिने आयोजकं भारतीयमहिलाहॉकीदलं मलेशियादलेन सह स्वीयम् अभियानम् आरभिष्यति। भारतमलेशिययोः मध्ये स्पर्धा सायं ४:३५ वादने भविष्यति। प्रतियोगितायां भारतसहितं चीनदेशः, जापानदेशः, दक्षिणकोरियादेशः, मलेशियादेशः, थाईलैण्डदेशश्च इति षट् दलानि भागं ग्रहीष्यन्ति।
मध्यप्रदेशस्य क्रीडायुवकल्याणमन्त्री विश्वास सारङ्गः अवदत् यत् मध्यप्रदेशस्य क्रीडेतिहासे प्रथमवारम् एतादृश्याः स्तरस्य अन्तरराष्ट्रीयमहिलाहॉकीप्रतियोगितायाः आयोजनं भवति। सः अवदत् यत् भोपालनगरे एशियाईचेम्पियन्स् ट्रॉफी इत्यस्य आयोजनं प्रदेशस्य गौरवस्य विषयः अस्ति। अनेन मध्यप्रदेशस्य अन्तरराष्ट्रीयक्रीडाक्षेत्रे नूतना परिचितिः भविष्यति तथा च प्रदेशस्य युवाक्रीडकानां विश्वस्तरीयां हॉकीक्रीडां द्रष्टुं तया प्रेरणां प्राप्तुं च अवसरः प्राप्स्यते।
उत्कृष्टोपलब्धिभिः सह क्रीडाङ्गणे अवतरिष्यति भारतीयदलं, चतुर्थविजयलक्ष्यम्
भारतीयमहिलाहॉकीदलं प्रतियोगितायाम् वर्तमानविजेतृरूपेण अवतरिष्यति। भारतं अद्यावधि त्रिवारं महिलानाम् एशियाईचेम्पियन्स् ट्रॉफी इति प्रतियोगितायाः विजेतृपदं प्राप्तवान् अस्ति। विगतयोः संस्करणयोः अपि भारतीयदलं निरन्तरं विजेतृत्वं प्राप्तवत् अस्ति। दक्षिणकोरियादेशस्य नाम्नि अपि त्रीणि विजेतृपदानि सन्ति। अतः भारतीयदलस्य पुरतः चतुर्थवारं विजेतृपदं प्राप्य प्रतियोगितायाः इतिहासे सर्वाधिकसफलदलं भवितुम् अवसरः अस्ति।
भारतीयमहिलाहॉकीदलस्य कृते वर्षम् २०२६ उपलब्धिभिः परिपूर्णम् अभवत्। दलेन हैदराबादनगरे आयोजितायां एफआईएच् महिलाहॉकीविश्वचषकपात्रतास्पर्धायां उत्कृष्टं प्रदर्शनं कृत्वा विश्वचषके स्वस्थानं सुनिश्चितम्। ततः न्यूजीलैण्डदेशस्य ऑकलैण्डनगरे आयोजितायां एफआईएच् महिला नेशन्स् कप प्रतियोगितायां भारतेन स्वस्य सर्वाणि पञ्च प्रतिस्पर्धाः विजित्य विजेतृपदं प्राप्तम् तथा च एफआईएच् प्रोलीग् प्रतियोगितायां पदोन्नतिः प्राप्ता।
बेल्जियमदेशे आयोजितायां महिलाहॉकीविश्वचषकप्रतियोगितायां भारतीयदलेन पञ्चमं स्थानं प्राप्तम्, यत् १९७४ तः परं विश्वचषके भारतीयमहिलाहॉकीदलस्य सर्वोत्तमं प्रदर्शनम् आसीत्। अपरत्र जापानदेशे आयोजितेषु एशियाईक्रीडास्पर्धासु भारतीयमहिलादलेन ४४ वर्षाणां प्रतीक्षां समाप्तां कुर्वता स्वर्णपदकं विजित्य इतिहासः रचितः।
प्रथमदिने तिस्रः स्पर्धाः, सायं ४:३५ वादने भारतमलेशिययोः प्रतिस्पर्धा
प्रतियोगितायाः प्रथमदिने तिस्रः स्पर्धाः भविष्यन्ति। मध्याह्ने १ वादने चीनथाईलैण्डयोः मध्ये प्रथमा स्पर्धा भविष्यति। ततः मध्याह्ने ३:१५ वादने जापानदक्षिणकोरियादले परस्परं सम्मुखीभविष्यतः। दिवसस्य सर्वाधिकप्रतीक्षिता स्पर्धा सायं ४:३५ वादने भारतमलेशिययोः मध्ये भविष्यति।
भारतीयदलं लीगचरणे पञ्च स्पर्धाः खेलिष्यति। मलेशियादेशस्य अनन्तरं २१ नवम्बरदिनाङ्के भारतस्य स्पर्धा दक्षिणकोरियादलेन सह, २२ नवम्बरदिनाङ्के थाईलैण्डदेशेन सह, २४ नवम्बरदिनाङ्के चीनदेशेन सह तथा २५ नवम्बरदिनाङ्के जापानदेशेन सह भविष्यति।
प्रतियोगितायाः आयोजनं राउण्ड् रॉबिन् प्रारूपेण भविष्यति। सर्वाणि दलानि परस्परं विरुद्धं स्पर्धां करिष्यन्ति तथा च लीगचरणस्य अनन्तरं शीर्षस्थानं प्राप्तानि चत्वारि दलानि सेमीफाइनल् चरणे प्रवेशं करिष्यन्ति। २७ नवम्बरदिनाङ्के सेमीफाइनल् स्पर्धाः तथा २८ नवम्बरदिनाङ्के कांस्यपदकाय स्वर्णपदकाय च स्पर्धाः भविष्यन्ति। अन्तिमस्पर्धा २८ नवम्बरदिनाङ्के सायं ७ वादने भविष्यति।
प्रतियोगितायाः पूर्वं भारतीयदलेन जापानदेशस्य विरुद्धं अभ्यासस्पर्धायां ४-१ इति अङ्कान्तरैः उत्कृष्टा विजयः प्राप्तः। मुख्यप्रशिक्षकस्य स्वोर्ड मारिन इत्यस्य मार्गदर्शने दलं स्वकीयां रणनीतिं क्रीडाशैलीं च विविधतापूर्णां कर्तुं प्रयतते।
Hindusthan Samachar / Dheeraj Maithani