Enter your Email Address to subscribe to our newsletters

भ्रष्टाचारस्य विषये शून्य-सहिष्णुतानीतिः, भ्रष्टाचारी कोऽपि भवतु, न क्षम्यते
रायपुरम्, १९ नवम्बरमास: (हि.स.)। छत्तीसगढस्य उपमुख्यमन्त्री अरुणसावः अवदत् यत् विपक्षनेता राहुलगान्धी निरन्तरं देशस्य प्रतिष्ठां क्षतिग्रस्तां कर्तुं प्रयतन्ते। ते देशं दुर्बलं कर्तुं अराजकतां च प्रसारयितुं प्रेरकाणि वक्तव्यानि ददति। निर्वाचनस्य अनियमिततायाः सूचनां कर्तुं न्यायालयं गमनं संवैधानिकः मार्गः अस्ति। किन्तु राहुलगान्धी न्यायालयं गन्तुं स्थाने निर्वाचनपरिणामेषु निराधारान् प्रश्नान् उत्थापयन्ति। तेषां न संविधानस्य विश्वासः अस्ति, न च देशस्य न्यायव्यवस्थायाम्।
सावः गुरुवासरे अवदत् यत् कांग्रेसदलस्य इतिहासः निर्वाचनसम्बद्धानाम् अनियमि-ततानां इतिहासेन सह सम्बद्धः अस्ति। एकदा न्यायालयेन कांग्रेसदलस्य प्रधानमन्त्रिणः निर्वाचनं अनैतिकाचरणस्य आधारतः अमान्यं घोषितम् आसीत्। तथापि अद्य कांग्रेसदलम् अन्येषां विषये प्रश्नान् उत्थापयति। यद्यपि २०२४ तमवर्षस्य लोकसभानिर्वाचने कांग्रेसदलस्य आसनसंख्या वर्धिता आसीत्। २०१८ तमवर्षस्य तुलनया तस्य अधिकानि आसनानि प्राप्तानि। तथापि राहुलगान्धी निरन्तरं मिथ्याव्याख्यानैः भ्रामक आरोपैश्च देशस्य प्रतिष्ठां मलिनां कर्तुं प्रयतन्ते।
उपमुख्यमन्त्री अवदत् यत् देशस्य जनाः सर्वं पश्यन्ति, अवगच्छन्ति च। देशस्य प्रतिष्ठायाः अवमाननं कुर्वन्तः, लोक-तान्त्रिकसंस्थासु प्रश्नान् उत्थापयन्तः, विकासमार्गे बाधां च जनयन्तः जनाः जनतया उचितं प्रत्युत्तरं प्राप्स्यन्ति। देशं दुर्बलं कर्तुम् अराजकतां च प्रसारयितुं प्रवर्तिता राजनीतिः अधिककालं न चलिष्यति।
सावः अवदत् यत् छत्तीसगढे मुख्यमन्त्री विष्णुदेवसायस्य नेतृत्वे सुशासनस्य सरकार भ्रष्टाचारस्य विरुद्धं कठोर-कार्यवाहीं करोति। यत्र कुत्रापि भ्रष्टाचारस्य शिकायतां प्राप्यते, तत्र दृढकार्यवाही क्रियते। सरकार शून्य-सहिष्णुतानीत्या कार्यं करोति। एतत् विष्णोः सुशासनम् अस्ति। भ्रष्टाचारे संलग्नः व्यक्ति कियत् प्रभावशाली भवतु, सः न क्षम्यते। भ्रष्टाचारिणां विरुद्धं कार्यवाही निरन्तरं प्रचलिष्यति।
Hindusthan Samachar / Divya Ranjan