कार्तिगैमासे मुरुगनस्य षण्णां पवित्रतीर्थधाम्नां दर्शनं जीवने सुखसमृद्धिं सौभाग्यं च प्रददाति।
चेन्नई, 19 नवंबरमासः (हि.स.)। तमिलमासेषु अत्यन्तं पवित्रः प्रकाशमयश्च मन्यमानः कार्तिगैमासः भगवान् मुरुगनस्य आराधनायै विशेषरूपेण शुभः मन्यते। अस्मिन् मासे मुरुगनस्य षण्णां पवित्रधाम्नां दर्शनं जीवने सुखसमृद्धिं सौभाग्यं च प्रददाति। भगवतः मुरुगनस
मुरुगन के छह पवित्र मंदिर


चेन्नई, 19 नवंबरमासः (हि.स.)।

तमिलमासेषु अत्यन्तं पवित्रः प्रकाशमयश्च मन्यमानः कार्तिगैमासः भगवान् मुरुगनस्य आराधनायै विशेषरूपेण शुभः मन्यते। अस्मिन् मासे मुरुगनस्य षण्णां पवित्रधाम्नां दर्शनं जीवने सुखसमृद्धिं सौभाग्यं च प्रददाति।

भगवतः मुरुगनस्य षट् पवित्रधामानि पलनी, पझमुदिरचोलै, तिरुत्तणि, तिरुप्परंकुंद्रम्, स्वामिमलै, तिरुचेंदूर् च सन्ति। एतेषां सर्वेषां तीर्थस्थलानां स्वकीयाः विशिष्टताः आध्यात्मिकफलानि च सन्ति। आगच्छन्तु, एतेषां षण्णां पवित्रधाम्नां पौराणिककथां तैः प्राप्तव्यानि शुभफलानि च जानीमः।

अस्मिन्नेव पवित्रमासे भगवान् शिवस्य तृतीयनेत्रात् निर्गताः षट् अग्निस्फुलिङ्गाः सरवणपोइगैसरोवरे षड्भिः शिशुभिः रूपान्तरिताः अभवन् तथा च कार्तिगैकन्याभिः तेषां पालनपोषणं कृतम्। अत एव कार्तिगैमासः कार्तिगैनक्षत्रं च भगवान् मुरुगनस्य विशेषपूजार्चनायै महत्त्वपूर्णं मन्येते।

तमिलजनानाम् आराध्यदेवः, स्वपितुः भगवान् शिवस्यैव ज्ञानोपदेशं कृतवान् पुत्रः, प्रथमपूजनीयः भगवान् मुरुगनः इत्यस्य तमिलनाडुराज्ये एव न, अपितु मलेशियादेशे अपि अनेकानि मन्दिराणि सन्ति। तथापि भगवतः मुरुगनस्य पूर्णानुग्रहं प्राप्तुं तस्य षण्णां प्रमुखपवित्रधाम्नाम् (अरुपडै वीडु) दर्शनं बहूनि शुभफलानि प्रददाति।

भक्तानाम् अखण्डा श्रद्धा अस्ति यत् अस्मिन् मासे भगवतः मुरुगनस्य षण्णां पवित्रधाम्नां दर्शनं कृत्वा जीवने षोडशविधानि ऐश्वर्याणि सुखसमृद्धिश्च प्राप्यन्ते। तथैव जीवनस्य विघ्नाः दूरीभवन्ति, मानसिकशान्तिश्च लभ्यते।

तिरुप्परंकुंद्रमे वैवाहिकसुखं दीपोत्सवस्य च विशेषता

भगवतः मुरुगनस्य षण्णां पवित्रधाम्नां प्रथमधामत्वेन प्रसिद्धं मदुरैनगरस्य तिरुप्परंकुंद्रम् इति तत् पवित्रस्थलं वर्तते, यत्र भगवान् मुरुगनः देवयानीदेव्या सह विवाहम् अकरोत्। अत्र कार्तिगैमासे दशदिनानि यावत् आयोज्यमानः कार्तिगैदीपोत्सवः अत्यन्तं प्रसिद्धः अस्ति।

पर्वतं छित्त्वा निर्मिते अस्मिन् गुहामन्दिरे भगवान् शिवः, भगवान् विष्णुः, देवी दुर्गा तथा भगवान् मुरुगनः इत्येतेषां दर्शनं भवति, इति अस्य विशेषता अस्ति। आध्यात्मिकविदुषां मते कार्तिगैमासे तिरुप्परंकुंद्रम् गत्वा पूजार्चनां कृत्वा विवाहसम्बद्धाः बाधाः दूरीभवन्ति तथा वैवाहिकजीवनं सुखमयं भवति। अत्र दीपस्तम्भे प्रज्वालितस्य महादीपस्य दर्शनं कृत्वा जीवनस्य अन्धकारः दूरीभवति, ज्ञानस्य प्रकाशश्च वर्धते।

पलनीपर्वते ज्ञानप्राप्तिः सर्वदोषेभ्यश्च मुक्तिः

डिण्डिगुलजनपदे स्थितं पलनी दण्डायुधपाणिस्वामिमन्दिरं भगवतः मुरुगनस्य तृतीयं पवित्रधाम अस्ति। अत्र भगवान् मुरुगनः ज्ञानफलप्राप्त्यर्थं साधुवेषेण स्थित्वा भक्तेभ्यः आशीर्वादं ददाति।

सिद्धर् भोगर् इत्यनेन नवपाषाणैः निर्मितस्य अत्रत्यस्य मुख्यविग्रहस्य दर्शनं कार्तिगैमासस्य शीतले ऋतौ कृत्वा शारीरिकस्वास्थ्यं मानसिकदृढता च प्राप्येते।

कार्तिगैदीपोत्सवस्य अवसरे अत्र आयोज्यमानाः काप्पु कट्टुतल् (रक्षासूत्रबन्धनसंस्कारः), षण्मुखार्चना तथा पर्वतीयमन्दिरस्य चतुर्दिक्षु प्रज्वाल्यमानाः कार्तिगैदीपाः, सोक्कप्पनै इत्यादयः कार्यक्रमाः भक्तान् भक्तिभावेन भावविभोरान् कुर्वन्ति।

मान्यता अस्ति यत् अस्मिन् मासे पलनीपर्वते आरोहणं कृत्वा भगवान् दण्डायुधपाणिं सम्पूज्य ग्रहदोषाः दूरीभवन्ति तथा आरब्धेषु कार्येषु सफलता प्राप्यते।

तिरुचेंदूरे विजयप्राप्तिः समुद्रस्नानस्य च पुण्यम्

भगवतः मुरुगनस्य षण्णां पवित्रधाम्नां मध्ये समुद्रतटे स्थितम् एकमात्रं तीर्थस्थलं तिरुचेंदूर् सुब्रह्मण्यस्वामिमन्दिरम् अस्ति। एतत् द्वितीयं पवित्रधाम अस्ति, यत्र भगवान् मुरुगनः सूरपद्मनं हत्वा विजयम् अवाप्तवान्।

कार्तिगैमासे तिरुचेंदूरस्य समुद्रे तत्रस्थिते पवित्रे नाझिक्किणरु (कूपे) च स्नानं कृत्वा भगवान् सेन्तिलाण्डवरस्य दर्शनं करणेन पापानां नाशः भवति पुण्यप्राप्तिश्च जायते।

मान्यता अस्ति यत् शत्रुभिः उत्पद्यमानानां कष्टानां निवारणाय तथा व्यापारक्षेत्रे जीवने च समागतानां चुनौतीनां विजयनिमित्तं कार्तिगैमासे तिरुचेंदूरस्य तीर्थयात्रा विशेषरूपेण फलप्रदा भवति।

एवं कार्तिगैमासे भगवतः मुरुगनस्य एतेषां त्रयाणां पवित्रधाम्नां दर्शनम् अस्मिन् लोके परलोके च आवश्यकानि सर्वविधानि सुखानि, सौभाग्यं, समृद्धिं च प्रदातुं समर्थः अत्यन्तं पुण्यप्रदः अवसरः मन्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani