Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, १९ नवम्बरमासः (हि.स.)। योगिराजस्य श्रीहंसजीमहाराजस्य पावन-जयन्त्यवसरे हंसज्योतिः इत्यनेन हरिद्वारस्य कनखलस्थे वैरागीकैम्पे नवम्बरमासस्य २१ तथा २२ दिनाङ्कयोः द्विदिवसीयः विशालः जनकल्याणसमारोहः आयोजयिष्यते। कार्यक्रमः प्रतिदिनं सायं ५ वादनतः ८ वादनपर्यन्तं प्रचलिष्यति।
मीडियाप्रभारी बी.के.त्यागी अवदत् यत् नवम्बरमासस्य २१ दिनाङ्के श्रीभोले-महाराजः, माताश्रीमङ्गला तथा श्वेता अध्यात्मज्ञानस्य माध्यमेन जनानां मनसि सद्भावस्य, राष्ट्रप्रेम्णः, मानवसेवायाः, विश्वशान्तेः, जनकल्याणस्य च भावनाः जागरयिष्यन्ति। समारोहे भारतीयसंस्कृतेः सुदृढीकरणाय तथा युवानः अध्यात्मेन सह संयोजयितुं विशेषं बलं प्रदास्यते।
द्वितीयदिने, नवम्बरमासस्य २२ दिनाङ्के सुप्रसिद्धः भजनगायकः हंसराजरघुवंशी भजनसन्ध्यायाः आयोजनं करिष्यति। सः शिवस्य, गणेशस्य, मातुः जगदम्बायाः, गङ्गामातुः तथा श्रीहंसमहाराजस्य महिम्नः वर्णनयुक्तानि भजनानि प्रस्तुतं करिष्यति।
अस्मिन् अवसरे विशालभण्डारस्य तथा निःशुल्कचिकित्साशिबिरस्य आयोजनमपि भविष्यति। देशविदेशेभ्यः बहुसङ्ख्यकाः श्रद्धालवः समारोहे सम्मिलिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan