Enter your Email Address to subscribe to our newsletters

- त्रिदशकाधिके सेवाकाले ३२०० होराधिकं युद्धविमानचालनस्य अनुभवः।
नवदिल्ली, ०२ नवम्बरमासः (हि.स.)। नूतनस्य वायुसेनाप्रमुखस्य एयरचीफमार्शल् आशुतोषदीक्षितस्य कार्यभारग्रहणानन्तरम् एयरमार्शल् इन्द्रपालसिंहवालिया वायुसेनायाः ५२तमस्य उपप्रमुखस्य पदस्य दायित्वं स्वीकृतवान्। युद्धविमानचालकशाखायां नियुक्तः एयरमार्शल् स्वस्य त्रिदशकाधिके सेवाकाले मिग्-२१, मिग्-२३, मिग्-२७, जगुआर् तथा सुखोई-३० एमकेआई इत्यादिषु युद्धविमानेषु ३२०० होराधिकं विमानचालनस्य अनुभवम् अर्जितवान्। सः राष्ट्राय सर्वोच्चं बलिदानं समर्पितवतां वीराणां सम्मानार्थं राष्ट्रिययुद्धस्मारके श्रद्धाञ्जलिम् अर्पितवान्। ततः तस्मै औपचारिकं सम्मानरक्षकदलंं प्रदत्तम्।
वायुसेनायां १९८८ तमस्य वर्षस्य जूनमासस्य ११ दिनाङ्के युद्धविमानचालकशाखायां नियुक्तः एयरमार्शल् इन्द्रपालसिंहवालिया राष्ट्रीयरक्षाप्रबन्धनसंस्थानस्य खडकवासलायाः तथा वायुसेनाप्रशिक्षणसंस्थानस्य डुण्डिगुलस्य च पूर्वछात्रः अस्ति। सः यूनाइटेड् किङ्ग्डम्-देशस्य उन्नतकमाण्ड्-स्टाफ्-पाठ्यक्रमस्य तथा बाङ्ग्लादेशस्य राष्ट्रियप्रतिरक्षामहाविद्यालयस्य च पूर्वछात्रः अपि अस्ति। तस्य रक्षाविषये सामरिकाध्ययनविषये च स्नातकोत्तरस्य त्रयः उपाधयः सन्ति। त्रिदशकाधिके सेवाकाले तेन भारतीयवायुसेनायाः विविधप्रकारकाणि युद्धविमानानि चालितानि। तेषु मिग्-२१, मिग्-२३, मिग्-२७, जगुआर् तथा एसयू-३० एमकेआई इत्येतेषां विभिन्नप्रकाराः समाविष्टाः सन्ति। तस्य विविधेषु युद्धविमानेषु ३२०० होराधिकं विमानचालनस्य अनुभवः अस्ति। तेन अनेकानि कमाण्ड्-सम्बद्धानि तथा प्रशासनिकदायित्वानि निर्व्यूढानि।
रक्षामन्त्रालयस्य अनुसारं सः अत्यन्तम् अनुभवी युद्धविमानचालकः अस्ति। सः यन्त्राधारितविमानचालनस्य प्रशिक्षकः परीक्षकश्च अस्ति। स्वस्य सैन्यसेवाकाले सः क्रमाङ्क २२२ युद्धविमानदलस्य सेनानायकत्वेन तथा युद्धकौशलविकाससंस्थानस्य निदेशकत्वेन च कार्यम् अकरोत्। तेन अग्रपङ्क्तिस्थस्य युद्धविमानदलस्य तथा बरेलीवायुसैन्यस्थानकस्य वायुसेनाधिकारीप्रमुखत्वेन च दायित्वं निर्व्यूढम्। २०१८ तमे वर्षे तस्मै अतिविशिष्टसेवापदकं तथा २००८ तमे वर्षे वायुसेनापदकं प्रदत्तम्।
एयरकमोडोर्-पदे कार्यरतः सः पूर्ववायुकमाण्डे एयर-१ इति पदे तथा अनन्तरं नवदेहल्यां वायुमुख्यालये वायुसेनापरीक्षणविभागस्य एयरकमोडोर्-पदे कार्यम् अकरोत्। सः जापानदेशे दक्षिणकोरियादेशे च रक्षासम्बद्धः राजनयिकप्रतिनिधिः (डिफेन्स् अटैशी) आसीत्। ततः पूर्वं सः पूर्ववायुकमाण्डे वायुसेनाधिकारीप्रमुखस्य दायित्वे आसीत्।
एयरमार्शल्-पदे पदोन्नतिम् अवाप्य २०२४ तमस्य वर्षस्य सितम्बरमासस्य ९ दिनाङ्के सः शिलाङ्गनगरे पूर्ववायुकमाण्डस्य वरिष्ठवायुसेनाधिकारी-स्टाफ्-पदे कार्यभारम् अगृह्णात्। ततः २०२६ तमस्य वर्षस्य फरवरीमासस्य १ दिनाङ्के एयरमार्शल् इन्द्रपालसिंहवालिया पूर्ववायुकमाण्डस्य वायुसेनाधिकारीप्रमुखस्य (एयर ऑफिसर कमाण्डिङ्ग्-इन-चीफ) पदस्य दायित्वं स्वीकृतवान्। तेन जनवरीमासस्य ३१ दिनाङ्के सेवाविरतिं प्राप्तस्य एयरमार्शल् सूरतसिंहस्य स्थानं गृहीतम्। अधुना एयरचीफमार्शल् आशुतोषदीक्षितस्य वायुसेनाप्रमुखपदस्य कार्यभारग्रहणानन्तरं सः वायुसेनायाः ५२तमः उपप्रमुखः (वाइस चीफ ऑफ एयर स्टाफ) अभवत्।
Hindusthan Samachar / Dheeraj Maithani