Enter your Email Address to subscribe to our newsletters



लखनऊम्, ०२ नवम्बर (हि.स.)। भारतीयजनतायुवमोर्चायाः राष्ट्रियमहा-मन्त्रिपदस्य दायित्वं स्वीकृत्य हर्षवर्धनसिंहः सोमवासरे लखनऊ-महानगरस्य युवमोर्चाकार्यकर्तृभिः १०९० चतुष्पथे भव्यतया स्वागतम् अलभत।
पत्रकारैः सह वार्तालापं कुर्वन् हर्षवर्धनसिंहः अवदत् यत् सङ्घटनेन प्रदत्तं राष्ट्रियमहामन्त्रिपदस्य दायित्वं तस्य कृते केवलं पदं नास्ति, अपितु युवानाम् आकाङ्क्षाः, सङ्घटनस्य अपेक्षाः तथा समाजस्य प्रति उत्तरदायित्वं च अधिकव्यापकस्तरे निर्वोढुम् एकः अवसरः अस्ति। सः पूर्णनिष्ठया समर्पणभावेन च सङ्घटनं सुदृढं कर्तुं, युवभ्यः सकारात्मकां दिशां प्रदातुं तथा राष्ट्रस्य समाजस्य च निर्माणे तेषां सक्रियसहभागितां सुनिश्चितां कर्तुं प्रतिबद्धः अस्ति।
तदनन्तरं मटियारीहनुमानमन्दिरस्य समीपे अश्वनीसिंहः ‘लिटिल’, छात्रनेता राजशेखरसिंहः, आशुतोषशुक्लः, आशुतोष-ठाकुरः तथा विभूमतिवारी च तस्य स्वागतं कृतवन्तः। अग्रे सुनीलसिंहः ‘सूरज’ तथा अमितसिंहः अपि तस्य स्वागतं कृतवन्तौ। ततः हर्षवर्धनसिंहस्य वाहनसमूहः अयोध्यां प्रति प्रस्थितः। लखनऊतः अयोध्यापर्यन्तं विभिन्नस्थानेषु भाजपानेतृभिः कार्यकर्तृभिः च हर्षवर्धनसिंहस्य स्वागतं कृतम्।
राष्ट्रियमहामन्त्रिपदं प्राप्तेः अनन्तरं तस्य अस्मिन् प्रथमागमने युवमोर्चाकार्यकर्तृषु विशेषोत्साहः आसीत्। लखनऊतः अयोध्यापर्यन्तं विभिन्नस्थानेषु आयोजितेषु स्वागतकार्यक्रमेषु बहु-संख्यकाः कार्यकर्तारः स्थानीयजन-प्रतिनिधयः च भागं गृहीतवन्तः।
बाराबङ्कीजनपदस्य सफेदाबादे भाज-पायाः बाराबङ्कीजनपदमन्त्री रूपेश-प्रतापसिंहः ‘लकी’ तथा युवमोर्चायाः जनपदाध्यक्षः रोहितसिंहः तस्य अभिनन्दनं कृतवन्तौ। सागरमहाविद्यालयस्य समीपे बॉक्सपार्क इत्यत्र खुर्रमबेगेन तस्य स्वागतं कृतम्।
भेलसरं प्राप्ते सति अग्निशमनकेन्द्रस्य समीपे युवमोर्चायाः आशीषशर्मा, आलोकयादवः, तेजतिवारी तथा शुभमतिवारी च तस्य स्वागतं कृतवन्तः। ततः खण्डविकासकार्यालयस्य पुरतः आकाशशर्मा तथा अतुलपाण्डेयः तस्य अभिनन्दनं कृतवन्तौ। रौनाहीशुल्क-मार्गकेन्द्रे आशीषतिवारी, रणधीरसिंहः ‘लल्ला’, विश्वनाथसिंहः इत्यादिभिः कार्यकर्तृभिः तस्य स्वागतं कृतम्।
अयोध्यामहानगरे प्रवेशानन्तरं स्वागतस्य उत्साहः अधिकव्यापकरूपेण दृश्यते स्म। सहादतगञ्जे अयोध्यामहानगरभाजपायाः सर्वैः पदाधिकारिभिः, करियप्पामण्डलस्य कार्यकर्तृभिः तथा प्रदीपसिंहेन तस्य भव्यं स्वागतं कृतम्। नियावायां युवमोर्चा-सहकारिभिः तस्य अभिनन्दनं कृतम्। टेढ़ीबाजार इत्यत्र अयोध्यामण्डलस्य पदाधिकारिभिः पूज्यसन्तैः च तस्य स्वागतं कृतम्।
चूडामणिचतुष्पथे पार्षदेन अङ्कित-त्रिपाठिना तथा मिण्टूप्रधानेन तस्य अभिनन्दनं कृतम्। भवदीयचतुष्पथे शुभमसिंहठाकुरः स्वसहकारिभिः सह तस्य स्वागतं कृतवान्।
कार्यक्रमस्य अन्तिमचरणे पदयात्रां कुर्वन् हर्षवर्धनसिंहः गोकुलभोजनालयं प्राप्त-वान्। अत्र दलस्य वरिष्ठपदा-धिकारिणः कार्यकर्तारश्च सहभागितां कृतवन्तः। हर्षवर्धनसिंहः सर्वेभ्यः जनप्रतिनिधिभ्यः, पदाधिकारिभ्यः कार्यकर्तृभ्यश्च कृतज्ञतां प्रकटितवान्।
/ अंशु गुप्ता