छत्तीसगढराज्योत्सवः अद्य कलायाः संस्कृतेः सङ्गीतस्य च विविधाः छटाः विकीर्यन्ते, राज्यपालः रमेन डेका मुख्यातिथिरूपेण समुपस्थास्यति।
रायपुरम् 02 नवंबरमासः (हि.स.)। छत्तीसगढराज्योत्सवस्य २०२६ तमस्य वर्षस्य द्वितीयदिने अद्य सोमवासरे नवारायपुरे अटलनगरे स्थिते राज्योत्सवप्राङ्गणे कलायाः संस्कृतेः सङ्गीतस्य लोकपरम्पराणां च अद्भुतः सङ्गमः द्रष्टुं लभ्यते। त्रिदिवसीयराज्योत्सवस्य अन्
छत्तीसगढ़ राज्योत्सव 


रायपुरम् 02 नवंबरमासः (हि.स.)।

छत्तीसगढराज्योत्सवस्य २०२६ तमस्य वर्षस्य द्वितीयदिने अद्य सोमवासरे नवारायपुरे अटलनगरे स्थिते राज्योत्सवप्राङ्गणे कलायाः संस्कृतेः सङ्गीतस्य लोकपरम्पराणां च अद्भुतः सङ्गमः द्रष्टुं लभ्यते। त्रिदिवसीयराज्योत्सवस्य अन्तर्गतं अद्य आयोज्यमाने विशेषसांस्कृतिकसमारोहे छत्तीसगढस्य गौरवशालिन्याः सांस्कृतिकपरम्परायाः सह भारतीयकलायाः सङ्गीतस्य च मनोहराणि प्रस्तुतिकरणानि दर्शकान् आकर्षयिष्यन्ति। राज्योत्सवस्य मुख्यवेदिकायां यत्र भव्यं नाट्याभिनयं प्रसिद्धकलाकाराणां सङ्गीतमयप्रस्तुतयश्च भविष्यन्ति, तत्रैव शिल्पग्रामे प्रदेशस्य विभिन्नक्षेत्रेभ्यः समागताः कलाकाराः स्वकीयाः लोककलाः सांस्कृतिकप्रतिभाश्च प्रदर्शयिष्यन्ति।

राज्योत्सवस्य द्वितीयदिने आयोज्यमाने विशेषसमारोहे राज्यपालः रमेन डेका मुख्यातिथिः भविष्यति। पर्यटनसंस्कृतिमन्त्री राजेश अग्रवालः कार्यक्रमस्य अध्यक्षतां करिष्यति। अस्मिन् अवसरे विधायकाः राजेश मूणतः, पुरन्दर मिश्रः, मोतीलाल साहूः, सुनील सोनी, अनुज शर्मा तथा इन्द्रकुमार साहू च विशिष्टातिथिरूपेण समुपस्थास्यन्ति। समारोहे जनप्रतिनिधीनां, कलासंस्कृतिक्षेत्रे सम्बद्धानां गणमान्यनागरिकाणां, कलाकाराणां तथा प्रदेशस्य बहुसंख्यकजनानां सहभागिता अपेक्ष्यते।

‘अहम् अयोध्या अस्मि’ इति नाट्याभिनयेन भारतीयसंस्कृतेः आध्यात्मिकपरम्परायाश्च सजीवाभिव्यक्तिः

राज्योत्सवस्य मुख्यवेदिकायां अद्य सायं षड्वादनतः सांस्कृतिककार्यक्रमाणाम् आरम्भः भविष्यति। सायं षड्वादनतः सप्तवादनपर्यन्तं ‘अहम् अयोध्या अस्मि’ इति विशेषनाट्यप्रस्तुतेः मञ्चनं भविष्यति। अस्याः नाट्यप्रस्तुतेः माध्यमेन अयोध्यायाः ऐतिहासिकं धार्मिकम् आध्यात्मिकं च वैभवं कलात्मकशैल्या प्रस्तुतं करिष्यते। भारतीयसंस्कृतेः, श्रद्धायाः, परम्परायाः गौरवशालिनः इतिहासस्य च दर्शनं कारयन्ती एषा नाट्यप्रस्तुतिः दर्शकाणां विशेषाकर्षणस्य केन्द्रं भविष्यति।

एषा प्रस्तुति भारतीयसांस्कृतिकचेतनायाः आध्यात्मिकमूल्यानां च अभिव्यक्तिं कुर्वती दर्शकान् देशस्य समृद्धपरम्पराभिः परिचाययिष्यति। नाट्यकलायाः माध्यमेन इतिहासस्य, श्रद्धायाः संस्कृतेश्च सङ्गमः राज्योत्सवस्य सांस्कृतिकायोजनाय विशेषगौरवं प्रदास्यति।

सुनील सोनी इत्यस्य गीतैः स्वास्ति मेहुल इत्यस्याः मधुरस्वरेण च राज्योत्सवस्य वेदिका निनदिष्यति

राज्योत्सवस्य द्वितीयदिने सङ्गीतप्रेमिभ्यः अपि विशेषाकर्षणं भविष्यति। सायं सप्तवादनतः अष्टवादनपर्यन्तं छत्तीसगढस्य लोकप्रियगायकः सुनील सोनी स्वकीयां सङ्गीतप्रस्तुतिं प्रदास्यति। तस्य प्रस्तुत्या छत्तीसगढीसङ्गीतस्य माधुर्यं प्रदेशस्य सांस्कृतिकपरिचयश्च राज्योत्सवस्य वेदिकायां प्रस्फुटितौ भविष्यतः।

तदनन्तरं रात्रौ अष्टवादनतः प्रसिद्धा पार्श्वगायिका सुश्री स्वास्ति मेहुल स्वकीयां सङ्गीतप्रस्तुतिं प्रदास्यति। तस्याः गीतैः राज्योत्सवस्य सायंकालः सङ्गीतमयः भविष्यति। लोकसंस्कृतेः, नाट्यकलायाः आधुनिकसङ्गीतस्य च अयं सङ्गमः दर्शकेभ्यः विविधसांस्कृतिकानुभूतीः प्रदास्यति।

शिल्पग्रामे एकादश सांस्कृतिकप्रस्तुतयः

राज्योत्सवस्य मुख्यवेदिकया सह शिल्पग्रामे अपि नवम्बरमासस्य द्वितीयदिनाङ्के छत्तीसगढस्य समृद्धलोकसंस्कृतेः भारतीयशास्त्रीयकलानां च अनुपमं वैभवं द्रष्टुं लभ्यते। शिल्पग्रामस्य वेदिकायां मध्याह्ने त्रिवादनतः सांस्कृतिककार्यक्रमाणाम् आरम्भः भविष्यति। द्वितीयदिने समग्रतया एकादश सांस्कृतिकप्रस्तुतयः आयोजयिष्यन्ते। तासु लोकसङ्गीतं, पण्डवानी, सुआनृत्यम्, ओडिसीनृत्यम्, कथकनृत्यम्, सूफीसङ्गीतं, गजल् तथा लोकमञ्चः इत्यादीनां विविधकलानां समावेशः कृतः अस्ति।

कार्यक्रमे प्रसन्ना अवस्थी लोकसङ्गीतस्य नृत्यस्य च प्रस्तुतिं करिष्यति। सुष्मिता दास ओडिसीनृत्यस्य माध्यमेन भारतीयशास्त्रीयनृत्यपरम्परायाः सुन्दराम् अभिव्यक्तिं प्रस्तोष्यति। दुर्गनगरस्य समप्रिया पूजा निषाद छत्तीसगढस्य प्रसिद्धां पण्डवानीगायनपरम्परां वेदिकायां सजीवां करिष्यति। बिलासपुरस्य अङ्कित निर्मलकरः सूफीसङ्गीतस्य, गजलस्य सुगमगायनस्य च प्रस्तुतिं करिष्यति। गरियाबन्दस्य सुश्री मिलवन्तीनबाई पारम्परिकसुआनृत्यस्य माध्यमेन छत्तीसगढस्य लोकसंस्कृतेः मनोहरं दर्शनं कारयिष्यति। रायपुरस्य सुश्री मेघा बोस ताम्रकारा पारम्परिकलोकसङ्गीतेन दर्शकान् परिचाययिष्यति।

एतस्मिन्नेव क्रमे आञ्चल पाण्डेय कथकनृत्यस्य प्रस्तुतिं करिष्यति। धमतरीनगरस्य रुखमनी दीवान लोकमञ्चस्य माध्यमेन छत्तीसगढीयलोकजीवनस्य परम्पराणां च अभिव्यक्तिं करिष्यति। आदित्य मिश्रा सङ्गीतसमूहस्य प्रस्तुतिं करिष्यति। विनीता त्रिपाठी कथकनृत्येन तथा तेजराम साहू लोकमञ्चस्य प्रस्तुत्या सांस्कृतिककार्यक्रमाणां विशेषाकर्षणं वर्धयिष्यतः।

शिल्पग्रामे आयोज्यमानेषु सांस्कृतिककार्यक्रमेषु छत्तीसगढस्य पारम्परिकलोककलाभ्यः विशेषं महत्त्वं प्रदत्तम् अस्ति। पण्डवानी छत्तीसगढस्य विश्वप्रसिद्धा लोकगाथागायनपरम्परा अस्ति। अस्यां महाभारतस्य कथाः गायनस्य अभिनयस्य च विशिष्टया शैल्या प्रस्तुताः भवन्ति। सुआनृत्यं तु छत्तीसगढस्य लोकसंस्कृतेः, सामूहिकजीवनस्य पारम्परिकोत्सवानां च महत्त्वपूर्णम् अङ्गम् अस्ति।

एताभिः प्रस्तुतिभिः दर्शकाः प्रदेशस्य सांस्कृतिकवैविध्येन, लोकश्रद्धया सामाजिकपरम्पराभिश्च परिचिताः भविष्यन्ति। अपि च ओडिसी कथकनृत्ययोः प्रस्तुतिभिः भारतीयकलापरम्पराणां समृद्धिः प्रदर्शिता भविष्यति। सूफीसङ्गीतस्य, गजलस्य सुगमगायनस्य च प्रस्तुतयः आयोजने सङ्गीतस्य विविधरङ्गान् संयोजयिष्यन्ति।

स्थानीयकलाकाराणां कृते विशालं मञ्चम्, नवपीढ्यां सांस्कृतिकपरम्परायाः प्रसारः

राज्योत्सवस्य द्वितीयदिने आयोज्यमानाः सांस्कृतिककार्यक्रमाः स्थानीयकलाकाराणां कृते स्वप्रतिभाप्रदर्शनस्य महत्त्वपूर्णम् अवसरं प्रदास्यन्ति। प्रदेशस्य विभिन्नजनपदेभ्यः आगम्यमानानां कलाकाराणां कृते राज्यस्तरीये आयोजने स्वकलाप्रदर्शनस्य मञ्चः प्राप्स्यते। अनेन पारम्परिकलोककलानां संरक्षणाय, संवर्धनाय प्रचारप्रसाराय च प्रोत्साहनं प्राप्स्यते।

छत्तीसगढस्य लोककलाः केवलं मनोरञ्जनस्य साधनानि न सन्ति, अपितु प्रदेशस्य इतिहासस्य, सामाजिकजीवनस्य, जनजातीयपरम्पराणां, लोकश्रद्धायाः सांस्कृतिकपरिचयस्य च सजीवाभिव्यक्तयः सन्ति। राज्योत्सवादृशाः आयोजनाः एताः परम्पराः नवपीढ्या सह संयोजयितुं कलाकाराणां प्रोत्साहनाय च महत्त्वपूर्णां भूमिकां निर्वहन्ति।

पर्यटनसंस्कृतिमन्त्री राजेश अग्रवालः अवदत् यत् छत्तीसगढस्य समृद्धाः कलाः, संस्कृतिः लोकपरम्पराश्च प्रदेशस्य अमूल्याः निधयः सन्ति। राज्योत्सवः एतासां गौरवशालिनीपरम्पराणां व्यापकपरिचयं कारयितुं स्थानीयकलाकाराणां प्रतिभायाः प्रोत्साहनाय च महत्त्वपूर्णः अवसरः अस्ति। प्रदेशस्य विभिन्नक्षेत्रेषु लोककलानां सांस्कृतिकपरम्पराणां च अद्वितीया निधिः विद्यते, तासां संरक्षणं संवर्धनं च अस्माकं प्राथमिकता अस्ति।

तेन उक्तं यत् राज्योत्सवस्य माध्यमेन छत्तीसगढस्य सांस्कृतिकवैविध्याय, जनजातीयपरम्पराभ्यः लोककलाभ्यश्च व्यापकः मञ्चः प्रदीयते। एतादृशैः आयोजनैः एकतः कलाकाराणाम् उत्साहवर्धनं भवति, अपरतः नवपीढिः स्वकीयाभिः सांस्कृतिकमूलपरम्पराभिः सह सम्बद्धा भवितुं प्रेरणां प्राप्नोति।

अद्य राज्योत्सवप्राङ्गणं भारतीयसांस्कृतिकवैभवस्य, छत्तीसगढीयलोककलानां, शास्त्रीयनृत्यानां आधुनिकसङ्गीतस्य च अद्भुतसङ्गमस्य साक्षी भविष्यति। ‘अहम् अयोध्या अस्मि’ इत्यस्य विशेषनाट्याभिनयेन, सुनील सोनी तथा स्वास्ति मेहुल इत्यनयोः सङ्गीतमयप्रस्तुतिभिः शिल्पग्रामे आयोज्यमानाभिः एकादशभिः सांस्कृतिकप्रस्तुतिभिश्च दर्शकाः कलायाः संस्कृतेः च विविधैरनुभवैः परिपूर्णाः भविष्यन्ति। अयम् आयोजनः प्रदेशवासिभ्यः स्वकीयायाः समृद्धसांस्कृतिकपरम्परायाः गौरवमनुभवितुं छत्तीसगढस्य गौरवशालिनीभिः परम्पराभिः सह सम्बद्धाः भवितुं च अवसरं प्रदास्यति।

Hindusthan Samachar / Dheeraj Maithani