Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 02 नवंबरमासः (हि.स.)।
धन्वन्तरिजयन्तीसमारोहे आयुर्वेदचिकित्सकाः पत्रकाराश्च सम्मानिताः।
नवदेहल्याः कनॉटप्लेस्-स्थिते एनडीएमसी-सभागारे सोमवासरे इण्टीग्रेटेड् मेडिकल् एसोसिएशन (आईएमए-आयुष) इत्यनया संस्थया स्वस्य चत्वारिंशत्तमे वार्षिकोत्सवे भगवान् धन्वन्तरिजयन्तीसमारोहे च आयुर्वेदचिकित्साक्षेत्रे उत्कृष्टं कार्यं कुर्वद्भ्यः देशस्य विभिन्नभागेभ्यः समागतेभ्यः चिकित्सकेभ्यः पत्रकारेभ्यश्च सम्मानानि प्रदत्तानि। अस्मिन्नवसरे विविधासु श्रेणीषु प्रतिष्ठितानि पुरस्काराणि वितीर्णानि।
एतेषु आयुर्वेदचिकित्साक्षेत्रे उल्लेखनीययोगदानार्थं प्रदत्तेषु विशिष्टपुरस्कारेषु धन्वन्तरिपुरस्कारः तिब्बियामहाविद्यालयस्य पूर्वप्राचार्याय डॉ. के.के. सिजोरियाय तथा डाबर इण्डिया लिमिटेड् इत्यस्य विपणननिदेशकाय डॉ. दुर्गाप्रसादाय च प्रदत्तः। सुश्रुत-चरकपुरस्कारयोः अन्तर्गतं झज्जरनगरस्य डॉ. शुभमसैनी सुश्रुतपुरस्कारेण तथा सोनीपतनगरस्य एमएसएम आयुर्वेदसंस्थानस्य विभागाध्यक्षया डॉ. वीनाहिमांशुशर्मा चरकपुरस्कारेण सम्मानिता।
संस्थायाः हिताय प्रशंसनीयकार्यस्य कृते डॉ. चन्द्रशेखरभारद्वाजाय आजीवनोपलब्धिपुरस्कारः प्रदत्तः। स्मृतिपुरस्कार-प्रशंसापुरस्कारयोः अन्तर्गतं स्मृतिपुरस्कारः डॉ. जे.एस. पंवाराय, डॉ. मुनीशगुलाटी (दिल्ली) इत्यस्मै, डॉ. हरिशंकरदेवशर्मणे तथा डॉ. विजेन्द्रपालसिंघला (फरीदाबाद) इत्यस्मै च प्रदत्तः। स्वजीवने ८६ वारं रक्तदानं कृतवद्भ्यः डॉ. पुरुषोत्तमपालीवालाय, डॉ. फमीदाकौशराय तथा डॉ. आयशापरवीनाय प्रशंसापुरस्कारः प्रदत्तः। कार्यक्रमे हरियाणा, हिमाचलप्रदेश, राजस्थान तथा उत्तरप्रदेशेभ्यः समागतेभ्यः चिकित्सकेभ्यः अपि सम्मानानि प्रदत्तानि।
आयुर्वेदस्य जनसामान्यं प्रति प्रसारे महत्त्वपूर्णां भूमिकां निर्वहद्भ्यः सञ्चारमाध्यमप्रतिनिधिभ्यः अपि सम्मानः प्रदत्तः। एतेषु सर्जनाशर्मा, आयुषमन्त्रालयस्य माध्यमप्रभारी गौरवशर्मा, अशोककिंकरः, कृष्णकुमारतिवारी, मीनाकुमारीजांगिड़ (आईसीएआर), प्रह्लादराजपूतः, अजीतसिंहः, अक्षीवठाकुरः, हिमांशुपाण्डेयः, वीरेन्द्रकुमारगुप्तः, विशालमिश्रः, सुभाषचन्द्रः, अभिसिंघलः तथा गुरविन्दरसिंहः स्मृतिचिह्नैः सम्मानिताः।
अस्मिन्नवसरे संस्थायाः राष्ट्रियमहासचिवः डॉ. रमनखन्ना वार्षिकप्रतिवेदनं प्रस्तुतवान्। ‘सुरझंकारसमूहेन’ श्रीगणेशवन्दनायाः तथा ‘समुद्रमन्थनम्’ इति नाटकस्य प्रस्तुतीकरणं कृतम्। महिला-चिकित्सिकाभिः भगवान् धन्वन्तरेः वन्दना प्रस्तुताः। कार्यक्रमस्य अन्ते संस्थायाः वार्षिकस्मारिकायाः विमोचनम् अभवत्। अस्याः स्मारिकायाः निर्माणे मुख्यसम्पादकः डॉ. लवकुमारः, डॉ. राजीवमल्होत्रा, डॉ. मोहम्मद् अशदः, डॉ. शैलेशद्विवेदी, डॉ. के.के. सिंघलः तथा डॉ. जितेन्द्रगौडः इत्येतेषां महत्त्वपूर्णं योगदानम् आसीत्।
अस्मिन् कार्यक्रमे अखिलभारतीयायुर्वेदसंस्थानस्य (एआईआईए) निदेशकः डॉ. पी.के. प्रजापतिः, आईएमए-आयुषस्य माध्यमप्रभारी विधिसेवासमितेः अध्यक्षः च डॉ. रामफलपञ्चालः, एनसीआईएसएम-संस्थायाः आचारनीतिनों पञ्जीकरणमण्डलस्य अध्यक्षः डॉ. सुश्रुतकन्नौजिया, लालबहादुरशास्त्रीसंस्कृतमहाविद्यालयस्य उपकुलपतिः मुरलीमनोहरपाठकः, संस्थायाः संरक्षकः डॉ. आर.एस. चौहानः, राष्ट्रियपत्रकारसङ्घस्य अध्यक्षः राकेशथपलियालः तथा दिल्लीप्रदेशाध्यक्षः डॉ. अरुणकटारिया च उपस्थिताः आसन्।
-------------
Hindusthan Samachar / Dheeraj Maithani