नोएडानगरे हरितकौशलस्य अनुप्रयुक्तकृत्रिमबुद्धेः च उत्कृष्टताकेन्द्रस्य उद्घाटनम्, यूनां कौशलविकासं करिष्यति तथा संसाधनदक्षतां वर्धयिष्यति
नोएडा, नवम्बरमासः ०२ दिनाङ्कः (हि.स.)। उत्तरप्रदेशसर्वकारस्य सूचनाप्रौद्योगिकी-इलेक्ट्रॉनिक्सविभागस्य मन्त्री सुनीलकुमारशर्मा सोमवासरे नोएडास्थिते गौतमबुद्धविश्वविद्यालये ‘हरितकौशलम् एवं अनुप्रयुक्तकृत्रिमबुद्धिः उत्कृष्टताकेन्द्रम्’ इत्यस्य उद्घा
ग्रीन स्किल्स एवं एप्लायड एआई सेंटर का उद्घाटन करते हुए कैबिनेट मंत्री सुनील शर्मा


नोएडा, नवम्बरमासः ०२ दिनाङ्कः (हि.स.)। उत्तरप्रदेशसर्वकारस्य सूचनाप्रौद्योगिकी-इलेक्ट्रॉनिक्सविभागस्य मन्त्री सुनीलकुमारशर्मा सोमवासरे नोएडास्थिते गौतमबुद्धविश्वविद्यालये ‘हरितकौशलम् एवं अनुप्रयुक्तकृत्रिमबुद्धिः उत्कृष्टताकेन्द्रम्’ इत्यस्य उद्घाटनम् अकरोत्। एतत् केन्द्रं वन एम वन बी फाउण्डेशन, मेटी स्टार्टअप हब तथा माइक्रोसॉफ्ट इत्येतेषां सहयोगेन स्थापितम् अस्ति। अस्य प्रमुखम् उद्देश्यम् यूनः हरितनिर्माणस्य, औद्योगिकस्थायित्वस्य, अनुप्रयुक्तकृत्रिमबुद्धेः च क्षेत्रेषु व्यावहारिककौशलेन सम्पन्नान् कर्तुम् अस्ति, येन ते राज्यस्य तीव्रगत्या वर्धमाने औद्योगिके प्रौद्योगिकीपारिस्थितिकीतन्त्रे च योगदानं दातुं शक्नुयुः।

सूचनाप्रौद्योगिकी-इलेक्ट्रॉनिक्सविभागस्य मार्गदर्शनेन प्रारब्धम् इदं केन्द्रं यूनः ऊर्जादक्षतां संसाधनदक्षतां च वर्धयितुं, औद्योगिकप्रक्रियाः अनुकूलयितुम्, अपशिष्टं न्यूनीकर्तुम्, गुणवत्तानियन्त्रणं सुदृढं कर्तुम्, दत्तांशाधारितनिर्णयान् स्वीकर्तुं च कृत्रिमबुद्धेः प्रयोगैः सह सम्बद्धं करिष्यति। तत्सह नवीकरणीय-ऊर्जायाः, विद्युत्-वाहनगतिशीलतायाः, संसाधनदक्षोत्पादनस्य च सम्बद्धानां हरितकौशलानां प्रशिक्षणम् अपि प्रदास्यते। अस्य केन्द्रस्य मुख्यं ध्यानं सैद्धान्तिकज्ञानात् अग्रे गत्वा व्यावहारिकपरियोजनासु, मार्गदर्शनकार्यक्रमेषु, प्रशिक्षणकार्येषु, उद्यमितायाः अवसरषु च भविष्यति।

उत्तरप्रदेशस्य सूचनाविभागस्य अधिकारी अभिषेकसक्सेनः अवदत् यत् मन्त्री सुनीलकुमारशर्मा अस्मिन् अवसरे उक्तवान्, “वयं हरितकौशलस्य अनुप्रयुक्तकृत्रिमबुद्धेः च उत्कृष्टताकेन्द्रस्य माध्यमेन युवान् भविष्यस्य आवश्यकतानुसारं सज्जान् कर्तुम् इच्छामः।

अद्य भारतं प्रौद्योगिक्याः कृत्रिमबुद्धेः च क्षेत्रे तीव्रगत्या अग्रे गच्छति। अतः अस्माकं युवानः अस्य मञ्चस्य पूर्णलाभं स्वीकुर्युः, नवीनविचारान् आधारीकृत्य कार्यं कुर्युः, उपयोगिनः उत्पादान् निर्मान्तु तथा उद्योगस्य आवश्यकतानुसारं स्वकौशलस्य विकासं कुर्युः। अस्माकं लक्ष्यं केवलं युवान् रोजगारप्राप्तये योग्याः कर्तुं नास्ति, अपितु तान् अन्येभ्यः रोजगारप्रदातारः स्वव्यवसायस्य संस्थापकाः च कर्तुम् अपि अस्ति, येन ते राज्यस्य देशस्य च प्रगतौ योगदानं दातुं शक्नुयुः।”

माइक्रोसॉफ्ट-संस्थायाः वरिष्ठनिदेशिका एलिवेट-सीएसआर, मञ्जु धस्माना उक्तवती यत् एतत् केन्द्रम् उत्तरप्रदेशं कृत्रिमबुद्धेः क्षेत्रे अग्रे नेतुं भविष्यस्य अर्थव्यवस्थायै च सज्जीकर्तुं महत्त्वपूर्णं पदम् अस्ति। एतत् माइक्रोसॉफ्ट-एलिवेट-संस्थायाः ‘कृत्रिमबुद्धिः + रोजगारः’ इति चिन्तनं प्रतिबिम्बयति।

Hindusthan Samachar / Divya Ranjan