आङ्गनवाडिकार्यकर्तॄणां सहायिकानां च मानदेयं वर्धितं सर्वकारेण
लखनऊ, ०२ नवम्बरमास: (हि.स.)। उत्तरप्रदेशसर्वकारेण दीपावल्याः पूर्वम् आङ्गनवाडिकार्यकर्तॄणां सहायिकानां च मानदेयं वर्धयित्वा लक्षशः परिवाराणां कृते उपहारः प्रदत्तः। कार्यकर्तॄणां मानदेयं ८ सहस्ररूप्यकेभ्यः १२ सहस्ररूप्यकाणि यावत्, सहायिकानां मानदेयं
योगी आदित्यनाथ


लखनऊ, ०२ नवम्बरमास: (हि.स.)। उत्तरप्रदेशसर्वकारेण दीपावल्याः पूर्वम् आङ्गनवाडिकार्यकर्तॄणां सहायिकानां च मानदेयं वर्धयित्वा लक्षशः परिवाराणां कृते उपहारः प्रदत्तः। कार्यकर्तॄणां मानदेयं ८ सहस्ररूप्यकेभ्यः १२ सहस्ररूप्यकाणि यावत्, सहायिकानां मानदेयं च ४ सहस्ररूप्यकेभ्यः ६ सहस्ररूप्यकाणि यावत् प्रतिमासं वर्धितम्। अनेन कार्यकर्तॄभ्यः प्रतिमासं ४ सहस्ररूप्यकाणि, सहायिकाभ्यः च २ सहस्ररूप्यकाणि अतिरिक्ततया प्राप्यन्ते।

परिवाराय ५ लक्षरूप्यकाणां यावत् नगदरहितचिकित्सासुविधा

योगिसर्वकारेण प्रायः ३.३५ लक्षम् आङ्गनवाडिकार्यकर्तॄणां सहायिकानां तासां परिवारजनानां च स्वास्थ्यसुरक्षायाः अपि प्राथमिकता प्रदत्ता। अधुना ताभ्यः स्वपरिवारजनैः सह प्रतिवर्षं ५ लक्षरूप्यकाणां यावत् नगदरहित-चिकित्सायाः सुविधा प्रदत्ता अस्ति। एतदतिरिक्तं पूर्वं दीयमानानां द्वयोः शाटिकयोः स्थाने अधुना तिस्रः शाटिकाः प्रदास्यन्ते। एतदर्थं ५०० रूप्यकाणाम् अतिरिक्तधनराशिः प्रदातुं व्यवस्था कृता अस्ति।

स्मार्टचलदूरवाणिभिः स्वकीयभवनैश्च आधुनिकानि भविष्यन्ति आङ्गन-वाडिकेन्द्राणि

आङ्गनवाडिव्यवस्थायाः आधुनिकी-करणाय सर्वकारः प्रौद्योगिकीसुविधानाम् अपि विस्तारं कुर्वन् अस्ति। प्रथमचरणे १,२३,३९८ स्मार्टचलदूरवाण्यः प्रदत्ताः। ततः प्रतिस्थापननीत्याः अन्तर्गतं ६९,८०३ अन्याः स्मार्टचलदूरवाण्यः अपि प्रदत्ताः। अनेन बालकानां पोषणसम्बन्धिनीः सूचनाः, सर्वकारीययोजनाभिः सम्बद्धाः विवरणानि च तत्क्षणं लेखबद्धानि कर्तुं सरलम् अभवत्।

प्रतिमासं प्राप्यते आर्थिकसम्बलम्

महिलाबालविकासविभागस्य अपरमुख्यसचिवा लीना जौहरी अवदत् यत् मुख्यमन्त्रिणः योगी आदित्यनाथस्य मार्गदर्शने प्रदेशसर्वकारः १,७५,९८२ आङ्गनवाडिकार्यकर्तॄणां तथा १,७०,६५६ सहायिकानाम् आर्थिकसशक्तीकरणाय सामाजिकसुरक्षायै च प्रतिबद्धतया कार्यं कुर्वन् अस्ति। बालकानां पोषणस्य परिचर्यायाश्च महत्त्वपूर्णां भूमिकां निर्वहन्तीभ्यः एताभ्यः कर्मकराभ्यः उत्तमाः सुविधाः सम्मानं च प्रदातुम् सर्वकारस्य प्रयासः अस्ति।

Hindusthan Samachar / Divya Ranjan