राजधान्यां विकासकार्याणि जनकल्याणकार्याणि च जनसामान्यं प्रति प्रेषयितुं सञ्चारमाध्यमानां भूमिका महत्त्वपूर्णा - रेखा गुप्ता
नवदिल्ली, नवम्बरमासः ०२ दिनाङ्कः (हि.स.)। दिल्लीप्रदेशस्य मुख्यमन्त्रिणी रेखा गुप्ता उक्तवती यत् फेब्रुवरीमासस्य २०२५ तमवर्षस्य आरभ्य दिल्लीप्रदेशे विकासस्य जनकल्याणस्य च क्षेत्रयोः अभूतपूर्वकार्याणां क्रमः निरन्तरं प्रचलति। एतेषु परिवर्तनेषु जनसाम
दिल्ली की मुख्यमंत्री रेखा गुप्ता सोमवार को मीडिया संवाद व दीपावली मिलन कार्यक्रम में  मंत्रियों के साथ


दिल्ली की मुख्यमंत्री रेखा गुप्ता पत्रकारों संवाद करते हुए


नवदिल्ली, नवम्बरमासः ०२ दिनाङ्कः (हि.स.)। दिल्लीप्रदेशस्य मुख्यमन्त्रिणी रेखा गुप्ता उक्तवती यत् फेब्रुवरीमासस्य २०२५ तमवर्षस्य आरभ्य दिल्लीप्रदेशे विकासस्य जनकल्याणस्य च क्षेत्रयोः अभूतपूर्वकार्याणां क्रमः निरन्तरं प्रचलति। एतेषु परिवर्तनेषु जनसामान्यं प्रति प्रेषयितुं तथा जनसामान्यस्य अपेक्षाः आकाङ्क्षाश्च सर्वकारं प्रति प्रापयितुं सञ्चारमाध्यमानां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। सोमवासरे चाणक्यपुर्याम् आयोजिते सञ्चारमाध्यमसंवादे दीपावलीमेलनकार्यक्रमे च सा उक्तवती यत् जनहितविषयेषु सञ्चारमाध्यमानां सजगता लोकतन्त्रस्य सशक्तीकरणे तेषां योगदानं च प्रशंसनीयम् अस्ति।

अस्मिन् अवसरे सा पत्रकारैः सह संवादम् अपि अकरोत् तथा दीपावल्याः अग्रिमाः शुभकामनाः प्रदत्तवती।

अस्मिन् अवसरे केन्द्रीयः राज्यमन्त्री तथा दिल्लीभाजपायाः प्रदेशाध्यक्षः हर्षमल्होत्रा, दिल्लीसर्वकारस्य मन्त्रिणः प्रवेशसाहिबसिंहः, मनजिन्दरसिंहसिरसा, पङ्कजकुमारसिंहः, कपिलमिश्रः, रविन्द्रइन्द्राजसिंहः, विधायकः अनिलकुमारशर्मा, हरीशखुराणा इत्यादयः भाजपायाः पदाधिकारिणः तथा सञ्चारमाध्यमजगतः प्रतिनिधयः उपस्थिताः आसन्।

अस्मिन् अवसरे लोकनिर्माणविभागस्य मन्त्री प्रवेशसाहिबसिंहः दीपावलीमङ्गलमिलनकार्यक्रमे पत्रकारैः सह हास्यविनोदपूर्णे प्रसन्नवातावरणे दीपावलीपर्वणः आनन्दं साक्षात् अकरोत्।

पर्यावरणमन्त्री सिरसा अपि सञ्चारमाध्यमजगतः प्रतिनिधिभिः सह दिल्लीप्रदेशस्य विकासस्य जनहितविषयाणां च विषये मुक्ततया, आत्मीयतया, सकारात्मकतया च चर्चाम् अकरोत् तथा सर्वेभ्यः दीपावलीपर्वणः अग्रिमाः शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् दीपावली सर्वेषां जीवने सुखं, समृद्धिं, उत्तमस्वास्थ्यं, नवीनशक्तिं च आनयतु।

स्वास्थ्यमन्त्री डॉ. पङ्कजकुमारसिंहेन उक्तं यत् अद्य पत्रकारैः सह संवादं कुर्वन् सः दीपावल्याः पवित्रपर्वणि शुभकामनाः प्रेषितवान्। तेन उक्तं यत् लोकतन्त्रस्य चतुर्थस्तम्भरूपेण सञ्चारमाध्यमानां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति।

ईश्वरं प्रार्थयामि यत् प्रकाशस्य, उल्लासस्य, उत्साहस्य च एतत् महापर्व सर्वेषां जीवने सुखस्य, समृद्धेः, उत्तमस्वास्थ्यस्य, नवीनशक्तेश्च सञ्चारं करोतु।

पर्यटनमन्त्रिणा कपिलमिश्रेण उक्तं यत् अद्य मुख्यमन्त्रिणः नेतृत्वे दिल्लीसर्वकारस्य मन्त्रिमण्डलस्य सर्वैः सहकारिभिः सह सञ्चारमाध्यमजगतः वरिष्ठप्रतिनिधिभिः आत्मीयं मिलनम् अभवत्। अनेन संवादेन सर्वकारस्य सञ्चारमाध्यमानां च मध्ये समन्वयः विश्वासश्च अधिकं सुदृढः अभवताम्।

समाजकल्याणमन्त्री रविन्द्र-इन्द्राजः अपि दीपावलीपर्वणः शुभकामनाः प्रदाय उक्तवान् यत् अयं दीपोत्सवः सर्वेषां जीवने सुखस्य, समृद्धेः, स्वास्थ्यस्य, नवीनशक्तेश्च सञ्चारं करोतु।

Hindusthan Samachar / Divya Ranjan