Enter your Email Address to subscribe to our newsletters

- यूनानीचिकित्सायां शोधकार्याणि अनुसन्धानकार्याणि च प्रोत्साहनं प्राप्नुयुः – डॉ. भार्गवः।
इन्दौरम्, ०१ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे आयुष्चिकित्सापद्धतेः अन्तर्गतं यूनानीचिकित्सायाः प्रचारप्रसारस्य तथा शोधानुसन्धानकार्याणां प्रोत्साहनस्य उद्देश्येन रविवासरे होटल सयाजी इत्यत्र चतुर्था यूनानी राष्ट्रियकार्यशाला आयोजिता। यूनानी मेडिकल प्रैक्टिशनर वेलफेयर एसोसिएशन तथा यूनि हर्बल हेल्थ केयर इत्यनयोः सहकारेण आयोजिता अस्यां कार्यशालायां पञ्चभ्यः राज्येभ्यः मध्यप्रदेशः, तमिलनाडुः, कर्नाटकः, राजस्थानम् तथा उत्तरप्रदेशः इत्येतेभ्यः प्रायः २१० चिकित्सकाः सहभागितां कृतवन्तः।
कार्यशालायां मुख्यवक्तारः अष्टाङ्ग आयुर्वेदमहाविद्यालयस्य इन्दौरस्य आयुर्वेदकर्कटरोगचिकित्साविभागस्य सञ्चालकः प्रोफेसरः अखिलेशभार्गवः, नेशनल इन्स्टिट्यूट ऑफ यूनानी मेडिसिन, बेङ्गलूरु इत्यस्याः प्रोफेसरः अर्शिया सुल्ताना, जुपिटर चिकित्सालयस्य हृदयरोगविशेषज्ञः डॉ. मोहम्मद अली, भोपालनगरस्य डॉ. मोहम्मद शाहिद खान तथा चेन्नईनगरस्य डॉ. यासीन बानो च स्वविचारान् प्रस्तुतवन्तः।
अस्मिन् अवसरे प्रोफेसरः अखिलेशभार्गवः यूनानीचिकित्सापद्धतौ शोधानुसन्धानकार्याणां प्रोत्साहनस्य आवश्यकतायाः विषये बलं दत्तवान्। तेन उक्तं यत् चिकित्सापद्धतीनां विकासाय तासां उपयोगितायाः च व्यापकस्तरे स्थापनाय वैज्ञानिकशोधः, प्रमाणिकदत्तांशसङ्कलनम् तथा अनुसन्धानाधारितकार्याणां प्रोत्साहनम् आवश्यकम् अस्ति।
कार्यशालायां यूनानीचिकित्सापद्धतेः प्रचारप्रसारः, चिकित्सासम्बद्धदत्तांशसङ्कलनम्, शोधकार्याणां विस्तारः तथा चिकित्साक्षेत्रे नवीनानुसन्धानानां प्रोत्साहनम् इत्यादिषु महत्त्वपूर्णविषयेषु विचारविमर्शः अभवत्। तेन सह चिकित्सकानां मध्ये अनुभवानां विचाराणां च आदानप्रदानम् अपि अभवत्।
कार्यक्रमस्य आयोजकौ डॉ. खालिदखानः तथा डॉ. एस.एच. जैदी इत्येताभ्यां सह विभिन्नराज्येभ्यः आगताः चिकित्सकाः विशेषज्ञाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani