Enter your Email Address to subscribe to our newsletters

भोपालम्, 02 नवंबरमासः (हि.स.)।
मध्यप्रदेशपुलिसायां कार्यरतानाम् अधिकारिणां कर्मचारिणां च कल्याणस्य, सेवासम्बद्धसुविधानां तथा कार्यपरिस्थितीनां निरन्तरसुधारस्य उद्देश्येन राज्यस्तरीयसंयुक्तपुलिसपरामर्शदातृसमित्याः तथा पुलिसकल्याणसमित्याः वार्षिकोपवेशनं पुलिसमहानिदेशकस्य कैलाशमकवाणस्य अध्यक्षतायां अद्य सोमवासरे प्रातः दशवादने भोपालनगरे स्थितायाः आर.सी.व्ही.पी. नरोन्हा प्रशासन एवं प्रबन्धकीय अकादम्याः स्वर्णजयन्तीसभागारे आयोजयिष्यते।
पुलिसमुख्यालयेन प्रदत्तसूचनानुसारम् अस्य उपवेशनस्य उद्देश्यं पुलिसबलस्य विभिन्नस्तरेषु कार्यरतानाम् अधिकारिणां कर्मचारिणां च मध्ये संवादं प्रभावशालिनं कर्तुं तथा पुलिसकर्मिणां सेवासम्बद्धानाम् आवश्यकतानां, कल्याणकारीसुविधानां व्यावहारिकसमस्यानां च विषये संस्थागतस्तरे विचारविमर्शं प्रोत्साहयितुम् अस्ति।
उपवेशने पुलिसमुख्यालयस्य वरिष्ठाधिकारिभिः सह विभिन्नपुलिसैककानां वाहिनीनां च प्रतिनिधयः सहभागितां करिष्यन्ति। उपवेशने पुलिसबलस्य विभिन्नस्तरेषु कार्यरतानाम् अधिकारिणां कर्मचारिणां च सेवासम्बद्धविषयेषु, तेषाम् आवश्यकतासु, समस्यासु तथा कल्याणकारीव्यवस्थासु विस्तरेण विचारविमर्शः भविष्यति।
राज्यस्तरीयसंयुक्तपुलिसपरामर्शदातृसमितिः तथा पुलिसकल्याणसमितिः पुलिसनेतृत्वस्य क्षेत्रस्तरे कार्यरतानां पुलिसाधिकारिणां कर्मचारिणां च मध्ये संवादस्य महत्त्वपूर्णं मञ्चम् अस्ति। अस्य माध्यमेन पुलिसकर्मिणां कार्यपरिस्थितीनां सुधारः, कर्तव्यपालनस्य अवकाशव्यवस्था, स्वास्थ्यचिकित्सासुविधाः, आवासः, शिक्षा, आर्थिकसाहाय्यम्, आकस्मिकसाहाय्यं तथा परिवारकल्याणसम्बद्धविषयेषु सुझावाः प्राप्य आवश्यकाः पहलाः क्रियन्ते।
एतदतिरिक्तं पुलिसकर्मिणां मानसिकस्वास्थ्यं, तनावप्रबन्धनम्, क्रीडायाः शारीरिकक्रियाकलापानां च प्रोत्साहनम्, सेवानिवृत्तपुलिसकर्मिणां कल्याणम् तथा पुलिसपरिवाराणां कृते उपलब्धानां सुविधानां अधिकसुधारः इत्यादयः विषयाः अपि उपवेशनस्य प्रमुखचर्चाविषयाः भविष्यन्ति।
पुलिसबलस्य कार्यक्षमतायाः मनोबलस्य च उन्नयनाय आवश्यकम् अस्ति यत् क्षेत्रस्तरे कार्यरतानां पुलिसकर्मिणाम् आवश्यकतानां अनुभवानां च नीतिनिर्धारणस्तरे समुचितं महत्त्वं दीयेत। अस्यां दृष्टौ परामर्शदात्रीसमितिः पुलिसनेतृत्वस्य पुलिसकर्मिणां च मध्ये संवादस्य महत्त्वपूर्णं माध्यमम् अस्ति। अस्याः माध्यमेन प्राप्तानां सुझावानाम् आवश्यकतानां च आधारेण कल्याणकारीव्यवस्थाः अधिकोपयोगिन्यः, व्यावहारिकाः प्रभावशालिन्यश्च कर्तुं प्रयासाः
क्रियन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani