मध्यप्रदेशस्य स्थापना-दिवससमारोहे अद्य लोकनृत्यानां जनजातीयनृत्यानां च प्रस्तुतयः भविष्यन्ति।
भोपालम्, 02 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य त्रिदिवसीयस्य एकसप्ततितमस्थापनादिवससमारोहस्य अद्य सोमवासरे द्वितीयदिने सायं सार्धषड्वादने मध्यप्रदेशस्य अन्यराज्यानां च लोकनृत्यानां जनजातीयनृत्यानां च प्रस्तुतयः आकर्षणस्य केन्द्रं भविष्यन्ति। तदनन्त
मध्य प्रदेश का 71वां स्थापना दिवस


भोपालम्, 02 नवम्बरमासः (हि.स.)।

मध्यप्रदेशस्य त्रिदिवसीयस्य एकसप्ततितमस्थापनादिवससमारोहस्य अद्य सोमवासरे द्वितीयदिने सायं सार्धषड्वादने मध्यप्रदेशस्य अन्यराज्यानां च लोकनृत्यानां जनजातीयनृत्यानां च प्रस्तुतयः आकर्षणस्य केन्द्रं भविष्यन्ति। तदनन्तरं ‘ब्रीदिंग फिएस्टा’ इति वाद्ययन्त्रकेन्द्रिता प्रस्तुति भविष्यति।

जनसम्पर्काधिकारी अनुराग उइके इत्यनेन उक्तं यत् समारोहे आयोज्यमानाः विकासप्रदर्शन्यः मध्याह्ने द्वादशवादनात् रात्रौ अष्टवादनपर्यन्तं सामान्यनागरिकाणां कृते उद्घाटिताः स्थास्यन्ति। अस्यां ‘कृषिप्रदर्शन्यां’ उन्नतबीजानि, जैविककृष्युपादानानि, आधुनिककृषियन्त्राणि, स्मार्टसिञ्चनप्रौद्योगिकीः, कृषिनवोद्यमाः तथा नवाचाराः इत्येतेषां माध्यमेन आधुनिककृषेः सम्भावनाः प्रदर्श्यन्ते।

तेन उक्तं यत् ‘मध्यप्रदेशे विरासतायाः विकासपर्यन्तम्’, ‘जनकल्याणं विकासश्च’ तथा ‘राजा भोजस्य भोपालम्’ इत्येताः प्रदर्शन्यः प्रदेशस्य ऐतिहासिकसांस्कृतिकवैभवेन, विकासोपलब्धिभिः तथा गौरवशालिनीभिः परम्पराभिः च परिचयं कारयन्ति।

एतदतिरिक्तं ‘स्वाद-देशजव्यञ्जनमेला’ इत्यत्र मध्यप्रदेशस्य विभिन्नाञ्चलानां व्यञ्जनानां स्थानीयभोजनानां च परिचयः प्राप्यते। कृषकविपण्यां महिला उद्यमितामण्डपे च प्रदेशस्य विभिन्नक्षेत्राणां स्थानीयोत्पादाः, हस्तशिल्पवस्तूनि तथा महिलाभिः उद्यमिभिः निर्मितानि उत्पादानि विक्रयार्थम् उपलब्धानि सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani