Enter your Email Address to subscribe to our newsletters

भोपालम्, 02 नवंबरमासः (हि.स.)।
भारतीयजनतापक्षद्वारा अद्य सोमवासरे जबलपुरनगरे ‘लोकतन्त्रं रक्षतु-अराजकतां दूरीकरोतु’ इति सङ्कल्पं स्वीकृत्य आयोज्यमानायां विशालपदयात्रायां मुख्यमन्त्री डॉ. मोहनयादवः, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः हेमन्तखण्डेलवालः, केन्द्रीयमन्त्री अर्जुनराममेघवालः, प्रदेशशासनस्य उपमुख्यमन्त्री जगदीशदेवडा तथा कैबिनेटमन्त्री राकेशसिंहः सहभागितां करिष्यन्ति।
भाजपायाः प्रदेशमीडियाप्रभारी बृजगोपाललोया इत्यनेन सूचना प्रदत्ता यत् ‘लोकतन्त्रं रक्षतु-अराजकतां दूरीकरोतु’ इति विशालपदयात्रा सोमवासरे अपराह्णे त्रिवादने जबलपुरनगरस्य शहीदस्मारक-गोलबाजारतः प्रारभ्य मालवीयचौकः, लॉर्डगञ्जः, बडाफुहारा, तुलारामचौकः, करमचन्दचौकः, मालवीयचौकः इत्येतेषु मार्गेषु गमिष्यति। अनन्तरं पुनः शहीदस्मारक-गोलबाजारं प्राप्स्यति।
पदयात्रायां पक्षस्य प्रदेशोपाध्यक्षः डॉ. निशान्तखरे, प्रदेशमहामन्त्री तथा सम्भागप्रभारी राहुलकोठारी, प्रदेशकोषाध्यक्षः अखिलेशजैनः, सांसदः आशीषदुबे, राज्यसभासांसदा सुमित्रा वाल्मीकि, जिलाप्रभारी पूर्वसांसदः आलोकसञ्जरः, महापौरः जगतबहादुरसिंह अन्नू, विधायकाः अजयविश्नोई, अशोकरोहाणी, सुशीलतिवारी इन्दुः, अभिलाषपाण्डेयः, मेला एवं तीर्थप्राधिकरणस्य अध्यक्षः विनोदगोटिया, जबलपुरनगरस्य जिलाध्यक्षः रत्नेशसोनकरः, जबलपुरग्रामीणस्य जिलाध्यक्षः राजकुमारपटेलः, पक्षस्य प्रदेशपदाधिकारिणः, जिलापदाधिकारिणः, जनप्रतिनिधयः, विविधसमाजानां प्रतिनिधयः, व्यापारिसङ्घटनानां पदाधिकारिणः, क्रीडासङ्घटनानां प्रमुखाः, नगरस्य गणमान्यजनाः, महिलाश्च सहिताः प्रायः एकलक्षं जनाः सहभागितां करिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani