‘किङ्ग’ चलचित्रे शाहरुखस्य प्रेमपूर्णः अभिनयः दृश्यते, जन्मदिने गीतं प्रकाशितम्
मुम्बई, ०२ नवम्बरमास: (हि.स.)। बॉलिवुड इत्यस्य प्रसिद्धः अभिनेता शाहरुखखानः स्वस्य ६१ तमजन्मदिने प्रशंसकेभ्यः विशेषम् उपहारं प्रदत्तवान्। तस्य बहुप्रतीक्षितायाः ‘किङ्ग’ चलचित्रस्य प्रथमं प्रेमगीतं ‘तू मिल जाए’ प्रकाशितम्। अस्मिन् गीते शाहरुखखानेन स
शाहरुख खान, दीपिका पादुकोण - फोटो सोर्स एक्स


मुम्बई, ०२ नवम्बरमास: (हि.स.)। बॉलिवुड इत्यस्य प्रसिद्धः अभिनेता शाहरुखखानः स्वस्य ६१ तमजन्मदिने प्रशंसकेभ्यः विशेषम् उपहारं प्रदत्तवान्। तस्य बहुप्रतीक्षितायाः ‘किङ्ग’ चलचित्रस्य प्रथमं प्रेमगीतं ‘तू मिल जाए’ प्रकाशितम्। अस्मिन् गीते शाहरुखखानेन सह दीपिकापादुकोणः अपि दृश्यते। गीतस्य दृश्यस्य आरम्भः शाहरुखस्य संवादेन भवति, यस्मिन् सः वदति—“अहं हत्याकारी न, प्रेमिकः अस्मि, मम लक्ष्यं च मम प्रेयसी अस्ति।” अनन्तरं दीपिकायाः प्रवेशः भवति तथा च उभयोः प्रेमपूर्णा रसायनात्मकता दृश्यते। गीतस्य प्रकाशनानन्तरं सामाजिकमाध्यमेषु प्रशंसकानां प्रतिक्रियाः आगन्तुं प्रारब्धाः।

‘तू मिल जाए’ इति गीतं अरिजीतसिंहेन तथा मधुबन्तीबागचिना स्वरबद्धम् अस्ति। अन्ताराष्ट्रियगायकः एडशीरनः अपि अस्मिन् गीतं स्वस्वरेण समृद्धवान्। गीतस्य सङ्गीतं सचिन-जिगरेण रचितम् अस्ति तथा च कुमारः अस्य गीतस्य शब्दान् लिखितवान्। प्रेमपूर्णायाः सङ्गीतध्वन्या सह चलचित्रस्य दृश्येषु शाहरुखस्य साहसिकः अभिनयः अपि द्रष्टुं शक्यते। एवं गीते प्रेम्णः साहसिकदृश्यानां च रोचकः समन्वयः प्रस्तुतः अस्ति।

सिद्धार्थआनन्दस्य निर्देशननिर्मितं ‘किङ्ग’ चलचित्रं प्रति पूर्वमेव दर्शकेषु महती उत्सुकता वर्तते। चलचित्रे शाहरुख-दीपिकयोः अतिरिक्तम् अभिषेकबच्चनः तथा सुहानाखानः अपि प्रमुखभूमिकासु दृश्यन्ते। शाहरुख-दीपिकयोः युगलं पूर्वमपि अनेकेषु चलचित्रेषु दर्शकान् मनोरञ्जितवत्। अधुना ‘तू मिल जाए’ इति गीतस्य माध्यमेन तयोः युगलं पुनः चर्चायाम् आगतम्। चलचित्रम् अग्रिमे २४ डिसेम्बरमासे, २०२६ तमे दिनाङ्के चलचित्रगृहेषु प्रदर्शितं भविष्यति।

Hindusthan Samachar / Divya Ranjan