उज्जयिनी: राजस्वरूपेण विराजितः बाबा महाकालः, भस्मारत्यां शेषनागस्य रजतमुकुटेन, रजतमुण्डमालया तथा रुद्राक्षैः कृतः शृङ्गारः।
उज्जैनम्, 02 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे सोमवासरे प्रातःकाले भगवतः महाकालस्य भस्मारती विशेषपूजया शृङ्गारेण च सह सम्पन्ना। प्रातः चतुर्वादने मन्दिरस्य द्वाराणि उद्घाटितानि। ततः गर्भगृहे
 राजा स्वरूप में सजे बाबा महाकाल


उज्जैनम्, 02 नवंबरमासः (हि.स.)।

मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे सोमवासरे प्रातःकाले भगवतः महाकालस्य भस्मारती विशेषपूजया शृङ्गारेण च सह सम्पन्ना। प्रातः चतुर्वादने मन्दिरस्य द्वाराणि उद्घाटितानि। ततः गर्भगृहे विराजमानानां देवीदेवतानां पूजनं कृतम्। अनन्तरं भगवतः महाकालस्य जलाभिषेकं कृत्वा दुग्धेन, दध्ना, घृतेन, शर्करया, मधुना तथा फलरसैः निर्मितेन पञ्चामृतेन अभिषेकः कृतः। भगवतः भाङ्गेन, चन्दनेन तथा आभूषणैः राजस्वरूपेण मनोहरः शृङ्गारः कृतः।

भस्मारतेः शुभारम्भः प्रथमघण्टानादेन भगवतः स्मरणेन च अभवत्। मन्त्रपाठस्य मध्ये हरिः ओम् इति जलम् अर्पितम्। कर्पूरारतेः अनन्तरं भगवतः मस्तके भाङ्गः, चन्दनं तथा त्रिपुण्ड्रं समर्प्य दिव्यः शृङ्गारः कृतः। ततः ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य महानिर्वाणी अखाडा इत्यस्य पक्षतः भस्म समर्पितम्।

भस्मसमर्पणानन्तरं भगवते महाकालाय शेषनागस्य रजतमुकुटं, रजतमुण्डमालां तथा रुद्राक्षमालां धारितम्। सुगन्धितैः मल्लिकापुष्पैः गुलाबपुष्पैश्च भगवतः विशेषः शृङ्गारः कृतः। आभूषणैः पुष्पमालाभिश्च अलङ्कृतस्य बाबा महाकालस्य राजस्वरूपस्य दर्शनं कृत्वा श्रद्धालवः भावविभोराः अभवन्। भगवते फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि।

धार्मिकमान्यतानुसारं भस्मसमर्पणानन्तरं भगवान् महाकालः निराकारस्वरूपात् साकारस्वरूपेण भक्तेभ्यः दर्शनं ददाति। भस्मारत्यां बहुसङ्ख्याकाः श्रद्धालवः सहभागिनः अभवन्। बाबा महाकालस्य दर्शनानन्तरं श्रद्धालवः नन्दिमहाराजस्य दर्शनं कृत्वा तस्य कर्णे स्वकामनाः निवेदितवन्तः। अस्मिन्नवसरे सम्पूर्णं मन्दिरपरिसरं बाबा महाकालस्य जयघोषैः गुञ्जितम् अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani