उत्तराखण्डस्य अराजपत्रितकर्मचारिभ्यः ३० दिवसीयस्य तदर्थबोनस इत्यस्य स्वीकृतिः, अधिकतमं ६,९०८ रूप्यकाणि प्राप्स्यन्ति
देहरादूनम्, ०२ नवम्बरमास: (हि.स.)। उत्तराखण्डसर्वकारेण दीपावल्याः अवसरे राज्यस्य कर्मचारिभ्यः २०२५-२६ वित्तवर्षाय ३० दिवसीयस्य तदर्थबोनसस्य भुगतानाय अनुमतिः प्रदत्ता। अस्य अन्तर्गतं पात्रेभ्यः अराजपत्रितकर्मचारिभ्यः अधिकतमं प्रायः ६,९०८ रूप्यकाणि ब
मुख्यमंत्री पुष्कर सिंह धामी फाइल चित्र।


देहरादूनम्, ०२ नवम्बरमास: (हि.स.)। उत्तराखण्डसर्वकारेण दीपावल्याः अवसरे राज्यस्य कर्मचारिभ्यः २०२५-२६ वित्तवर्षाय ३० दिवसीयस्य तदर्थबोनसस्य भुगतानाय अनुमतिः प्रदत्ता। अस्य अन्तर्गतं पात्रेभ्यः अराजपत्रितकर्मचारिभ्यः अधिकतमं प्रायः ६,९०८ रूप्यकाणि बोनसस्वरूपेण प्राप्स्यन्ति। मुख्यमन्त्री पुष्करसिंहधामी अस्मिन् विषये स्वीकृतिं प्रदत्तवान्।

वित्तविभागेन निर्गतस्य शासनादेशस्य अनुसारं समूह ‘ग’ तथा ‘घ’ इत्येतयोः कर्मचारिभिः सह समूह ‘ख’ इत्यस्य ते अराजपत्रितकर्मचारिणः अपि बोनसस्य लाभं प्राप्स्यन्ति, येषां ग्रेडवेतनं ४,८०० रूप्यकाणि यावत् अस्ति। एषः लाभः तेभ्यः कर्मचारिभ्यः एव प्राप्स्यते, ये उत्पादकतायाः आधारेण सञ्चालितायाः अन्यस्याः बोनसयोजनायाः अन्तर्गतं न आगच्छन्ति।

शासनादेशानुसारं बोनसस्य गणना ३० दिवसानां परिलब्धेः आधारेण भविष्यति। एतदर्थं अधिकतममासिकपरिलब्धेः सीमा ७,००० रूप्यकाणि निर्धारितानि सन्ति। अस्य आधारेण पात्रेभ्यः नियमित-कर्मचारिभ्यः अधिकतमं ६,९०८ रूप्यकाणां प्रदानं करिष्यते।

सर्वकारेण आकस्मिककर्मचारिणः दैनिकवेतनभोगिनः च अस्यां व्यवस्थायाम् अन्तर्भाविताः सन्ति। षड्दिवसीयकार्य-सप्ताहयुक्तेषु कार्यालयेषु विगतेषु त्रिषु वर्षेषु अथवा ततोऽधिकेषु वर्षेषु प्रतिवर्षं न्यूनातिन्यूनं २४० दिवसान् यावत् तथा पञ्चदिवसीयकार्यसप्ताहयुक्तेषु कार्यालयेषु प्रतिवर्षं न्यूनातिन्यूनं २०६ दिवसान् यावत् कार्यं कृतवन्तः पात्रकर्मचारिणः अपि बोनसस्य लाभं प्राप्स्यन्ति। एतेषां कृते गणनायाः मासिकसीमा १,२०० रूप्यकाणि निर्धारितानि सन्ति। अस्य आधारेण ते अधिकतमं प्रायः १,१८४ रूप्यकाणि प्राप्स्यन्ति।

बोनसप्राप्त्यर्थं ते एव कर्मचारिणः पात्राः भविष्यन्ति, ये ३१ मार्च २०२६ दिनाङ्के सेवायां कार्यरताः आसन् तथा तस्मिन् दिनाङ्कपर्यन्तं न्यूनातिन्यूनं षण्मासानां निरन्तरां सन्तोषजनकां च सेवां पूर्णवन्तः आसन्। षण्मासेभ्यः एकवर्षपर्यन्तं सेवां कृतवद्भ्यः कर्मचारिभ्यः नियमानुसारं आनुपातिकरूपेण बोनस इति प्रदास्यते।

शासनादेशे स्थानीयस्वशासनसंस्थानां विकासप्राधिकरणानां च पात्रकर्मचारिणः अपि अन्तर्भाविताः सन्ति। तथापि एताभिः संस्थाभिः बोनस इत्यस्य प्रदानं स्वकीयसंसाधनैः एव करणीयं भविष्यति तथा एषः लाभः ताभिः लाभार्जनस्य स्थितौ एव प्रदास्यते।

मुख्यमन्त्री धामी अवदत् यत् प्रदेशस्य विकासे सर्वकारीययोजनानां कार्यान्वयने च कर्मचारिणां महत्त्वपूर्णा भूमिका अस्ति। सर्वकारः तेषां हितानां कल्याणस्य च ध्यानं कुर्वन् समये समये प्रोत्साहनं सुविधाः च प्रदातुं प्रतिबद्धः अस्ति। दीपावलीपर्वण: अवसरे बोनसप्राप्त्या कर्मचारिणां तेषां परिवारजनानां च उत्सवस्य प्रसन्नता वर्धिष्यते इति सः अवदत्।

Hindusthan Samachar / Divya Ranjan