सामाजिकमाध्यमैः जनसामान्यं प्रति प्रसारयन्तु भाजपायाः विचारधारां सर्वकारस्य उपलब्धीश्च
जयपुरम्, ०२ नवम्बर (हि.स.)। भाजपायाः सामाजिकमाध्यमविभागस्य प्रदेशस्तरीया कार्यशाला सोमवासरे जयपुरे सम्पन्ना। अस्यां दलस्य विचारधारायाः, केन्द्रस्य राज्यसर्वकारयोः योजनानां विकास-कार्याणां च डिजिटलमाध्यमैः जनसामान्यं प्रति प्रसारणस्य रणनीतिविषये चर्
सोशल मीडिया से जन-जन तक पहुंचाएं भाजपा की विचारधारा और सरकार की उपलब्धियां


जयपुरम्, ०२ नवम्बर (हि.स.)। भाजपायाः सामाजिकमाध्यमविभागस्य प्रदेशस्तरीया कार्यशाला सोमवासरे जयपुरे सम्पन्ना। अस्यां दलस्य विचारधारायाः, केन्द्रस्य राज्यसर्वकारयोः योजनानां विकास-कार्याणां च डिजिटलमाध्यमैः जनसामान्यं प्रति प्रसारणस्य रणनीतिविषये चर्चा कृता। कार्यशालायां सम्पूर्णप्रदेशे सामाजिक-माध्यमानां सङ्घटनात्मकसंरचनां मतदानकेन्द्रस्तरपर्यन्तं सुदृढां कर्तुं तथा कार्यकर्तॄन् डिजिटलमाध्यमेषु सक्रिय-भूमिकां निर्वोढुम् आह्वानं कृतम्।

भाजपायाः प्रदेशाध्यक्षः मदनराठौडः अवदत् यत् सामाजिकमाध्यमानि जनसम्पर्कस्य प्रभावशाली माध्यमानि अभवन्। कार्यकर्तारः केन्द्रस्य प्रदेशस्य च सर्वकारयोः जनकल्याणकारीयोजनाः, विकासकार्याणि तथा सङ्घटनस्य विचारधारां च तथ्यैः सह समाजस्य प्रत्येकं वर्गं प्रति प्रापयेयुः। तेन सामाजिकमाध्यमेषु सकारात्मकतायाः, सक्रियतायाः विश्वसनीयतायाश्च निर्वाहणे बलं प्रदत्तम्।

सामाजिकमाध्यमविभागस्य राष्ट्रियम् संयोजकः दीपकम्हस्के अवदत् यत् डिजिटलयुगे सामाजिकमाध्यमानि सङ्घटनस्य शक्तेः जनसम्पर्कस्य च महत्त्वपूर्णं माध्यमम् अस्ति। प्रत्येकं कार्यकर्ता डिजिटलयोद्धारूपेण स्वदायित्वं निर्वहेत् तथा आधुनिकप्रौद्योगिक्याः, नवीनमञ्चानां प्रभावशालिसामग्रीणां च माध्यमेन दलस्य विचारधारां जनसामान्यं प्रति प्रापयेत्। प्रदेशतः मतदानकेन्द्र-स्तरपर्यन्तं सामाजिकमाध्यमदलस्य सुदृढीकरणस्य आवश्यकता अपि तेन प्रतिपादिता।

प्रदेशसङ्घटनमहामन्त्री अजेयकुमारः अवदत् यत् सङ्घटनस्य सुदृढीकरणाय अनुशासनं, समन्वयः सामूहिकप्रयासश्च आवश्यकाः सन्ति। सामाजिकमाध्यम-विभागस्य कार्यकर्तारः पूर्णतया सज्जाः भूत्वा उत्तरदायित्वेन स्वदायित्वानि निर्वहेयुः। प्रदेशसहप्रभारी कुलजीत-सिंहचहलः समयबद्धस्य प्रभावशालिनः च डिजिटलसंवादस्य महत्त्वं प्रतिपादयन् अवदत् यत् कार्यकर्तारः स्थानीयविषयान्, जनभावनाः सर्वकारस्य उपलब्धीश्च अवगत्य योजनाबद्धरीत्या कार्यं कुर्युः।

कार्यशालायां डिजिटलसामग्रीनिर्माणस्य, सामाजिकमाध्यममञ्चेषु सक्रियतायाः, सर्वकारीययोजनानां विकासकार्याणां च प्रचारस्य तथा सम्पूर्णप्रदेशे सङ्घटना-त्मकसंरचनायाः सुदृढीकरणस्य रणनीति-विषये विस्तरेण चर्चा अभवत्।

अस्मिन् अवसरे सामाजिकमाध्यम-विभागस्य प्रदेशसंयोजकः हीरेन्द्रकौशिकः, सूचनाप्रौद्योगिकीविभागस्य प्रदेशसंयोजकः अविनाशजोशी, माध्यमविभागस्य प्रदेश-प्रभारी प्रमोदवशिष्ठः, सहसंयोजकः अजय-विजयवर्गीयः, गिरिलभाटिया, मोहित-सनाढ्यः विकासशर्मा इत्येतै: सह विभागस्य पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan