संघस्य अखिलभारतीयकार्यकारीमण्डलस्य सभायां त्रयाणां प्रेरणादायकव्यक्तित्वानां विषये सरकार्यवाहः वक्तव्यं प्रस्तोष्यति
इन्दौरम्, ०२ नवम्बर (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षे अधुना यावत् आयोजितानां कार्यक्रमाणाम् अनुभवान् भविष्यस्य कार्ययोजनायां परिणमयितुं, पञ्चपरिवर्तनं समाजस्य व्यवहारस्य भागं कर्तुं तथा च देशे सर्वत्र शाखानां विस्तारं गतिमानं कर्तुम् उ
अभा आरएसएस बैठक इंदाैर में आरंभ, राष्ट्रीय सह प्रचार प्रमुख नरेंद्र ठाकुर ने मीडिया से की बात


इन्दौरम्, ०२ नवम्बर (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षे अधुना यावत् आयोजितानां कार्यक्रमाणाम् अनुभवान् भविष्यस्य कार्ययोजनायां परिणमयितुं, पञ्चपरिवर्तनं समाजस्य व्यवहारस्य भागं कर्तुं तथा च देशे सर्वत्र शाखानां विस्तारं गतिमानं कर्तुम् उद्दिश्य संघस्य शीर्षसङ्गठनस्य वार्षिकं मन्थनं सोमवासरे मध्यप्रदेशस्य इन्दौरनगरे प्रारब्धम्।

डेली-कॉलेज इत्रस्य सन्तश्रीरविदास-महाराजसभागारे प्रारब्धायाम् अखिल-भारतीयकार्यकारीमण्डलस्य वार्षिक-सभायां देशस्य विभिन्नभागेभ्यः प्रायः ४०० तः अधिकाः प्रतिनिधयः समागताः सन्ति। सरसंघचालकः डॉ. मोहनभागवतः तथा सरकार्यवाहः दत्तात्रेयहोसबाले इत्येतयोः उपस्थितौ प्रारब्धायाम् अस्यां सभायां विजयादशमी २०२५ तः विजयादशमी २०२६ पर्यन्तं शताब्दीवर्षस्य अन्तर्गतं आयोजितानां कार्यक्रमाणां समीक्षा क्रियते। तेषाम् अग्रिमचरणस्य कार्ययोजनायाः विषये अपि विचारः भवति। सभा नवम्बरमासस्य चतुर्थदिनस्य सायङ्कालपर्यन्तं प्रचलिष्यति।

शताब्दीवर्षस्य कार्यक्रमाणां समीक्षा, अग्रिमरणनीतेः निर्धारणम्

सभायाः प्रदर्शन्याश्च विषये सूचनां प्रददन् राष्ट्रियस्वयंसेवकसंघस्य अखिलभारतीय-सहप्रचारप्रमुखः नरेन्द्रकुमारः सञ्चार-माध्यमप्रतिनिधीन् अवदत् यत् संघस्य अस्याः सभायाः महत्त्वं शताब्दीवर्षे आयोजितानां कार्यक्रमाणां समीक्षायामेव सीमितं नास्ति। एतया सभया कार्यक्रमाणां प्रभावः, समाजस्य विभिन्नवर्गेषु तेषां प्राप्तिः तथा च भविष्ये करणीयानां कार्याणां दिशा इत्येतेषाम् अपि विषये विचारः क्रियते। शताब्दीवर्षे स्वयंसेवकैः समाजे प्रसारितानां विचाराणां गतिविधीनां च निरन्तरता कथं स्थापनीया इति विषये सभायां विशेषं ध्यानं दास्यते। कार्यक्रमाणाम् अनुवर्तनम्, तेषां सामाजिकप्रभावः तथा विभिन्नवर्गेभ्यः यावत् प्रभावीरूपेण प्रापणीयम्, तदर्थं कार्यपद्धतेः विकासः इत्येतेषु विषयेषु चर्चा भविष्यति।

शाखाविस्तारानन्तरम् अधुना तासां सुदृढीकरणस्य विषये चर्चा

शताब्दीवर्षे स्वयंसेवकैः कृतस्य शाखाविस्तारस्य समीक्षा अपि सभायाः अन्यः प्रमुखः विषयः अस्ति। संघस्य सङ्गठनात्मककार्यपद्धत्यां शाखायाः महत्त्वपूर्णं स्थानम् अस्ति। अतः नूतनेषु स्थानेषु शाखानाम् आरम्भेण सह पूर्वतः सञ्चालितानां तथा च अधुना विस्तारितानां शाखानां अधिकनियमिताः, सक्रियाः प्रभाविण्यश्च करणम् अपि विचारविमर्शस्य केन्द्रे भविष्यति।

सभायां विस्तारितशाखानां सुदृढीकरणम्, तासां नियमितता तथा कार्यस्य गुणवत्तावर्धनम् इत्येतेषु विषये चर्चा भविष्यति। एतदतिरिक्तं देशस्य अधिकाधिकेषु स्थानेषु शाखानाम् आरम्भस्य सम्भावनानां तथा तदर्थम् आवश्यकानाम् सङ्गठनात्मकप्रयासानां विषये अपि विचारः करिष्यते। अपि च, संघः शताब्दीवर्षे समाजस्य विभिन्नवर्गेभ्यः सम्पर्कं कृत्वा सामाजिकजीवने सकारात्मकपरिवर्तनस्य प्रक्रियां अग्रे नेतुम् प्रयतते। अतः सामाजिक-सहभागितायाः माध्यमेन पञ्चपरिवर्तन-सम्बद्धाः विषयाः व्यापकस्तरे कथम् अग्रे नेतव्याः इति विषये सभायां विचारः भविष्यति। एतेषां प्रयासानां निरन्तरतायै अनुवर्तनव्यवस्थायाः विषये अपि चर्चा भविष्यति।

विजयादशमीसम्बोधनस्य राष्ट्रीय-सामाजिकविषयेषु अपि विचारविमर्शः

सरसंघचालकस्य डॉ. मोहनभागवतस्य विजयादशमीसम्बोधने प्रस्तुतानां सम-सामयिकराष्ट्रीयसामाजिकविषयाणाम् अपि अखिलभारतीयकार्यकारीमण्डले विचारविमर्शः भविष्यति। एते विषयाः समाजे प्रभावीरूपेण कथं प्रसारयितव्याः तथा तदनुसारम् आगामीकार्यक्रमाणां योजना कथं करणीया इति विषये चर्चा भविष्यति। संघस्य दृष्ट्या विजयादशमी-सम्बोधनम् सङ्गठनस्य विचाराणां, सामाजिकप्राथमिकतानां तथा सम-सामयिकविषयेषु तस्य दृष्टिकोणस्य प्रस्तुत्यर्थम् एकः महत्त्वपूर्णः अवसरः भवति। कार्यकारीमण्डलस्य सभायां सम्बोधने उत्थापितानां विषयाणां सामाजिकसन्दर्भस्य तथा तदनुसारं भविष्ये करणीयानां कार्याणां विषये चर्चा भविष्यति।

देशस्य सर्वेषु ४६ प्रान्तेषु प्रतिनिधिनां सहभागिता

सभायां संघस्य देशव्यापिसङ्गठनात्मक-संरचनायाः प्रतिनिधयः सम्मिलिताः सन्ति। तेषु सरसंघचालकः डॉ. मोहनभागवतः, सरकार्यवाहः दत्तात्रेयहोसबाले, सर्वे सहसरकार्यवाहाः तथा अखिलभारतीय-पदाधिकारिणः उपस्थिताः सन्ति। संघस्य सर्वेषां ११ क्षेत्राणां क्षेत्रसंघचालकाः, क्षेत्रकार्यवाहाः तथा क्षेत्रप्रचारकाः अपि सभायां भागं गृह्णन्ति। एतदतिरिक्तं सर्वेषां ४६ प्रान्तानां प्रान्तसंघचालकाः, प्रान्तकार्यवाहाः, प्रान्त-प्रचारकाः तथा तेषां सहयोगिकार्यकर्तारः सभायां सम्मिलिताः सन्ति। संघप्रेरितानां कतिपयानां विविधसङ्गठनानाम् अखिल-भारतीयसङ्गठनमन्त्रिणः सहसङ्गठन-मन्त्रिणश्च अपि आमन्त्रिताः सन्ति।

सभायाः व्यापकप्रतिनिधित्वेन संघस्य राष्ट्रीयस्तरीयाः, क्षेत्रीयस्तरीयाः तथा प्रान्तीयस्तरीयाः पदाधिकारिणः सङ्गठनात्मकगतिविधीनां समीक्षायै अग्रिमकार्ययोजनायाश्च विचारविमर्शाय एकं सहभाग-मञ्चं प्राप्तवन्तः। सभायाः शुभारम्भः सरसंघचालकेन डॉ. मोहन-भागवतेन सरकार्यवाहेन दत्तात्रेय-होसबाले इत्यनेन च भारतमातुः चित्रे पुष्पार्चनं कृत्वा कृतः।

त्रयाणां ऐतिहासिकप्रेरणादायकव्यक्ति-त्वानां विषये सरकार्यवाहस्य वक्तव्यानि

अखिलभारतीयकार्यकारीमण्डलस्य सभायाः अवसरे सरकार्यवाहः दत्तात्रेय-होसबाले त्रयाणाम् ऐतिहासिकानां प्रेरणादायकव्यक्तित्वानां जीवनविषये योगदानविषये च वक्तव्यानि प्रस्तोष्यति। एतेषु राष्ट्रीयचेतनायाः पुरोधा राज-नारायणबोसः, शुद्धिकरणान्दोलनस्य प्रमुखव्यक्तित्वं स्वामीश्रद्धानन्दः तथा ओडिशायाः कन्धमालक्षेत्रे जनजातीय-समाजस्य मध्ये कार्यं कृतवान् वेदान्तकेसरी स्वामीलक्ष्मणानन्दसरस्वती च सन्ति।

राजनारायणबोसस्य द्विशततमं जयन्ती-वर्षम् : राष्ट्रीयचेतनायाः पिता-महत्वेन स्मर्यमाणस्य राजनारायणबोसस्य द्वि-शततमजयन्त्यवसरे तस्य जीवनस्य योगदानस्य च विषये वक्तव्यं प्रस्तोष्यते। अस्मिन् अवसरे तस्य विचाराः तथा राष्ट्रीयचेतनायाः क्षेत्रे तेन कृतानि कार्याणि विशेषतया प्रकाशयिष्यन्ते।

स्वामीश्रद्धानन्दस्य बलिदानस्य शततमं वर्षम् : शुद्धीकरणान्दोलनस्य पुरोधा स्वामीश्रद्धानन्दस्य बलिदानस्य शततम-वर्षस्य अवसरे तस्य जीवनस्य, कार्यस्य योगदानस्य च विषये वक्तव्यं प्रस्तोष्यते। तस्य सामाजिकधार्मिककार्यैः सम्बद्धाः विविधाः पक्षाः प्रकाशं नीताः भविष्यन्ति।

स्वामीलक्ष्मणानन्दसरस्वत्याः जन्मशताब्दीवर्षम् : ओडिशायाः कन्ध-मालस्य जनजातीयक्षेत्रे स्वाभिमानस्य, स्वावलम्बनस्य तथा स्वधर्मस्य जागरणाय स्वजीवनं समर्पितवतः वेदान्तकेसरी-स्वामी-लक्ष्मणानन्दसरस्वत्याः जन्मशताब्दीवर्षस्य अवसरे अपि सरकार्यवाहस्य वक्तव्यं प्रस्तोष्यते। संघस्य पक्षतः एतेषां त्रयाणां वक्तव्यानां विषये सञ्चारमाध्यमप्रतिनिधिभ्यः समये समये विस्तृतसूचनाः प्रदास्यन्ते।

दिवङ्गतेभ्यः समाजसेविभ्यः, कला-काराभ्यः कार्यकर्तृभ्यश्च श्रद्धाञ्जलिः

सभायाः प्रारम्भे सरकार्यवाहः दत्तात्रेय-होसबाले विगतेषु कतिपयेषु मासेषु दिवङ्गतेभ्यः समाजस्य प्रमुखव्यक्तिभ्यः कार्यकर्तृभ्यश्च श्रद्धाञ्जलिम् अर्पितवान्। तेषु चलचित्राभिनेता नानापाटेकरः, गायिका आशाभोंसले, पूज्यसन्तः पद्मश्री रमेशबाबा, विवेकानन्दकेन्द्रस्य पूर्वाध्यक्षः बालकृष्णः तथा बलवीरपुञ्जः च सन्ति। एतदतिरिक्तं चेन्नईनगरस्य एस्. वेदान्तम्, पत्रकारः विरागपाचपोरः, मुम्बईनगरस्य परागवेदिकः, भूतपूर्वकुलपतिः देवेन्द्र-प्रतापसिंहः, सच्चिदानन्दमहन्ती, प्रसिद्ध-गायिका एस्. जानकी, सुमनकल्याण-पुरीकरः तथा संघस्य वरिष्ठप्रचारकः विनोदकुमारः इत्यादिभ्यः दिवङ्गतेभ्यः व्यक्तिभ्यः अपि श्रद्धाञ्जलिः अर्पिता।

संघस्य शतवर्षीययात्रायाः विशेषप्रदर्शिनी

सभास्थले राष्ट्रियस्वयंसेवकसंघस्य शतवर्षीययात्रायाः तथा मालवाक्षेत्रे संघकार्यस्य क्रमिकविकासस्य प्रदर्शनं कुर्वती विशेषप्रदर्शिनी आयोजिता अस्ति। अस्यां प्रदर्शिन्यां संघस्य शताब्दीयरात्रायाः तथा क्षेत्रे सङ्गठनात्मकगतिविधीनां विकाससम्बद्धाः सामग्रीः प्रदर्शिताः सन्ति। सरकार्यवाहः दत्तात्रेयहोसबाले अक्टोबर-मासस्य ३१ दिनाङ्के अस्याः प्रदर्शीन्याः उद्घाटनम् अकरोत्। सोमवासरात् प्रदर्शिनी सञ्चारमाध्यम-प्रतिनिधीनाम् अवलोकनार्थम् अपि उद्घाटिता अस्ति। अस्याः माध्यमेन संघस्य ऐतिहासिक-यात्रायाः तथा मालवाक्षेत्रे तस्य कार्यस्य विकासस्य च विषये अवगन्तुम् अवसरः प्राप्स्यते।

/ अंशु गुप्ता