पश्चिमवङ्गस्य शुभङ्करनन्दी गोपालरत्नपुरस्कारं २०२६ प्राप्स्यति।
कोलकाता, 20 नवंबरमासः (हि. स.)। हुगलीमण्डलस्य गोघाट-द्वितीयखण्डस्य कृत्रिमगर्भाधानकार्यकर्ता शुभंकरनन्दी प्रतिष्ठितायै गोपालरत्नपुरस्काराय २०२६ कृते चयनितः। असौ सम्पूर्णे देशे प्रथमं स्थानं प्राप्य श्रेष्ठकृत्रिमगर्भाधानकार्यकर्तुः सम्मानं प्राप्त
गोपाल रत्न पुरस्कार के लिए चयनित शुभंकर नंदी।


गोपाल रत्न पुरस्कार के लिए चयनित शुभंकर नंदी।


कोलकाता, 20 नवंबरमासः (हि. स.)। हुगलीमण्डलस्य गोघाट-द्वितीयखण्डस्य कृत्रिमगर्भाधानकार्यकर्ता शुभंकरनन्दी प्रतिष्ठितायै गोपालरत्नपुरस्काराय २०२६ कृते चयनितः।

असौ सम्पूर्णे देशे प्रथमं स्थानं प्राप्य श्रेष्ठकृत्रिमगर्भाधानकार्यकर्तुः सम्मानं प्राप्तवान्। पश्चिमबङ्गराज्यस्य कश्चन कृत्रिमगर्भाधानकार्यकर्ता अस्य प्रतिष्ठितपुरस्कारस्य कृते प्रथमवारं चयनितः इति विशेषः।

पश्चिमबङ्गसर्वकारस्य पशुसंसाधनविकासमत्स्यपालनविभागस्य राज्यमन्त्री (स्वतन्त्रप्रभारः) राजेशमहतो शुक्रवासरस्य रात्रौ सामाजिकमाध्यमे सन्देशं प्रकाशित्य एतां सूचनां दत्तवान्। अस्याः उपलब्धेः विषये प्रसन्नतां प्रकटयन् सः शुभंकरनन्दिनं वर्धापितवान्।

शुभंकरनन्दिने अयं पुरस्कारः २०२६ तमस्य वर्षस्य नवम्बरमासस्य २६ दिनाङ्के राष्ट्रियदुग्धदिवसस्य अवसरे बिहारराज्यस्य राजधानीपटने मुरादपुरस्थे बापूसभागारे आयोज्यमाने समारोहे प्रदास्यते। केन्द्रीयमत्स्यपालनपशुपालनदुग्धमन्त्री राजीवरञ्जनसिंहः उर्फ ललनसिंहः तस्मै पुरस्कारं प्रदास्यति। अस्मिन्नवसरे केन्द्रीय राज्यमन्त्री प्रो. एस्. पी. सिंहबघेलः अपि उपस्थितः भविष्यति।

शुभंकरनन्दी पश्चिमबङ्गसर्वकारस्य पशुसंसाधनविकासविभागस्य अधीनस्थेन पश्चिमबङ्गपशुधनविकासनिगमेन (पीबीजीएसबीएस) सह सम्बद्धः अस्ति। सः ग्रामीणक्षेत्रेषु पशूनां कृत्रिमगर्भाधानसेवां प्रदातुं सह पशुस्वास्थ्यसम्बद्धेषु टीकाकरणादिकार्येष्वपि योगदानं ददाति।

उल्लेखनीयं यत् पश्चिमबङ्गपशुधनविकासनिगमेन सह राज्यस्य त्रयोदशसहस्रपञ्चशताधिकाः कृत्रिमगर्भाधानकार्यकर्तारः अर्थात् प्राणिमित्राः सम्बद्धाः सन्ति। एते कार्यकर्तारः ग्रामीणक्षेत्रेषु पशुपालनस्य प्रोत्साहने पशूनां कृते स्वास्थ्यसेवाप्रदाने च महत्त्वपूर्णां भूमिकां निर्वहन्ति। राज्यसर्वकारेण २०२६ तमस्य वर्षस्य अगस्तमासात् एतेषां कार्यकर्तॄणां मासिकप्रोत्साहनराशिः वर्धयित्वा सप्तसहस्रपञ्चशतरूप्यकाणि कृता अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani