Enter your Email Address to subscribe to our newsletters

जबलपुरम्, २० नवम्बरमासः (हि.स.)। मुख्यमन्त्री सहायकसूचनानां निराकरणे जबलपुरनगरनिगमेन प्रदेशे प्रथमस्थानं प्राप्तम्। निगमायुक्तस्य अग्रिमकुमारस्य मार्गदर्शने तथा निरन्तरनिरीक्षणस्य फलस्वरूपं नगरनिगमेन अक्टोबर-मासस्य श्रेणीकरणे ९९.१९ प्रतिशतं पूरिताङ्कं प्राप्त्वा प्रदेशस्य सर्वान् नगरनिगमान् अतिक्रान्तम्।
मध्यप्रदेशशासनेन नवम्बरमासस्य २० दिनाङ्के प्रकाशितायां श्रेणीकरणसूच्यां जबलपुरनगरनिगमाय ए-श्रेण्यां प्रथमस्थानं प्राप्तम्। नगरनिगमाय सीएम हेल्पलाइनमाध्यमेन ३१९९ सूचना: प्राप्ताः आसन्। तासु प्रायः ५९.४० प्रतिशत-सूचनानां निराकरणं सूचनाकर्तृभिः सह प्रत्यक्षसंवादं कृत्वा तेषां सन्तुष्ट्याधारेण कृतम्। नगरनिगमस्य विविधदलैः आवेदकैः सह संवादः स्थापितः, तेषां समस्याः अवगत्य समाधानं सुनिश्चितं च कृतम्। अधिकारिणां अनुसारं अधिकांश-प्रकरणानां निराकरणम् आवेदकानां सन्तुष्ट्यनन्तरमेव कृतम्।
निगमायुक्तः अग्रिमकुमारः अवदत् यत् शासनस्तरे प्रतिमासं नगरीयनिकायानां कार्याणां श्रेणीकरणं क्रियते। अक्टोबर-मासस्य प्रकाशितश्रेणीकरणे जबलपुर-नगरनिगमाय ए-श्रेण्यां प्रदेशे प्रथमस्थानं प्राप्तम्। अस्याः उपलब्धेः श्रेयः सः सम्पूर्णदलस्य परिश्रमाय, सक्रियतायै तथा उत्तमसमन्वयाय च अददात्।
Hindusthan Samachar / Divya Ranjan