पीएम स्वनिधि सम्मान-२०२६ इत्यस्मिन् उत्तरप्रदेशाय अष्ट पुरस्काराः प्राप्ताः
लखनऊ, २० नवम्बरमासः (हि.स.)। पीएम स्वनिधि योजनायाः उत्कृष्टकार्यान्वयनाय उत्तरप्रदेशस्य राष्ट्रस्तरे विशिष्टा मान्यता प्राप्ता अस्ति। भारतसर्वकारस्य आवासनं तथा नगरकार्याणां मन्त्रालयस्य पक्षतः नवदिल्लीनगरे आयोजिते कार्यक्रमे उत्तरप्रदेशः ‘पीएम स्वन
नगर विकास मंत्री अरविंद कुमार शर्मा


लखनऊ, २० नवम्बरमासः (हि.स.)। पीएम स्वनिधि योजनायाः उत्कृष्टकार्यान्वयनाय उत्तरप्रदेशस्य राष्ट्रस्तरे विशिष्टा मान्यता प्राप्ता अस्ति। भारतसर्वकारस्य आवासनं तथा नगरकार्याणां मन्त्रालयस्य पक्षतः नवदिल्लीनगरे आयोजिते कार्यक्रमे उत्तरप्रदेशः ‘पीएम स्वनिधि सम्मान पुरस्कार-२०२६’ इत्यनेन सम्मानितः। राज्यस्तरे तथा नगरनिकायस्तरे प्रदेशाय समग्रतया अष्ट पुरस्काराः प्राप्ताः। एषा उपलब्धिः पथविक्रेतॄणां आर्थिक-स्वावलम्बनाय तथा तान् औपचारिक-धनागारव्यवस्थया सह संयोजयितुं कृतानां प्रयासानां महत्त्वं प्रतिपादयति।

राज्यस्तरे उत्तरप्रदेशेन ‘स्वनिधितः समृद्धिः’ इति श्रेण्यां प्रथमस्थानम्, समग्र-प्रदर्शनश्रेण्यां द्वितीयस्थानम् तथा विशेषाभियानश्रेण्यां द्वितीयस्थानं प्राप्तम्। नगरनिकायस्तरे अलीगढः, गाजियाबादः, मेरठः, प्रयागराजः तथा वाराणसी च विभिन्नश्रेणीषु सम्मानिताः। कार्यक्रमे राज्यनगरीयविकासाभिकरणस्य निदेशकः डॉ. राजागणपति आर. केन्द्रीयः आवासनं तथा नगरकार्याणां मन्त्री मनोहरलाल-खट्टरात् पुरस्कारान् प्राप्तवान्।

मन्त्री एके शर्मा उपलब्धेः श्रेयः दलस्य परिश्रमाय अददात्

अस्यां उपलब्धौ नगरविकासमन्त्री अरविन्दकुमारशर्मा प्रसन्नतां व्यक्तीकृत्य अवदत् यत् पीएम स्वनिधि सम्मान पुरस्कार-२०२६ इत्यस्मिन् उत्तरप्रदेशस्य एषा सफलता सम्पूर्णदलस्य सामूहिक-परिश्रमस्य परिणामः अस्ति। प्रधानमन्त्रिण: नरेन्द्रमोदिनः तथा मुख्यमन्त्रिण: योगी आदित्यनाथस्य मार्गदर्शने प्रदेशस्य रेहडी-पटरीव्यापारिणः स्वावलम्बिनः कर्तुं विभागः निरन्तरं कार्यं करोति इति सः अवदत्। एके शर्मणा उक्तं यत् अस्याः सफलतायाः पृष्ठे पथविक्रेतृणां विश्वासः, नगरनिकायानां अधिकारिणां-कर्मचारिणां, नगरायुक्तानां तथा परियोजनाधिकारिणां समर्पणं, सूडादलस्य च अनवरतं परिश्रमः अस्ति।

मन्त्री एके शर्मा सर्वेभ्यः अभिनन्दनं दत्त्वा अवदत् यत् विभागस्य लक्ष्यं अधिका-धिकान् पात्रपथविक्रेतॄन् योजनया सह संयोजयितुं, तेभ्यः समये ऋणं प्रदातुं तथा डिजिटलव्यवहारान् स्वीकृत्य आर्थिक-दृष्ट्या सशक्तान् कर्तुं च अस्ति। सः विश्वासं व्यक्तवान् यत् उत्तरप्रदेशः भविष्ये अपि एवमेव उत्कृष्टं प्रदर्शनं करिष्यति। एषः सम्मानः उत्तरप्रदेशसर्वकारस्य जन-कल्याणकारीनीतिनां तथा नगरीय-दरिद्राणां पथविक्रेतॄणां च उत्थानं प्रति प्रतिबद्धतायाः परिचायकः अस्ति। भविष्ये अपि अधिकाधिकान् पात्रलाभार्थिनः योजनया सह संयोजयितुं विभागेन निरन्तरं प्रयासाः करिष्यन्ते।

Hindusthan Samachar / Divya Ranjan