Enter your Email Address to subscribe to our newsletters

सुपौलम्, २० नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे, २१ नवम्बरदिनाङ्के सुपौलजनपदाय विकासयोजनानां अनेकानि महत्त्वपूर्णानि उपहाराणि प्रदास्यति। प्रधानमन्त्रिणः करकमलैः विभिन्नविकासपरियोजनानां शिलान्यासः उद्घाटनं च भविष्यति। अस्य कार्यक्रमस्य सजीवप्रसारणं सुपौल-नगरस्य टाउन हॉल इत्यत्र आयोजितं भविष्यति। जनपदप्रशासनस्य निर्गतप्रेस-विज्ञप्त्यनुसारम्, अस्मिन् अवसरे मार्गनिर्माणम्, दुग्धविकासः, शिक्षाक्षेत्र-सम्बद्धानां महत्त्वपूर्णपरियोजनानां उद्घाटनं शिलान्यासः च भविष्यति। एताभिः योजनाभिः जनपदे आधारभूतसंरचनायाः विकासः, आवागमनम्, रोजगारः, शिक्षा-सुविधाः च सुदृढाः भविष्यन्ति इति अपेक्षा अस्ति।
कार्यक्रमस्य अन्तर्गतं राष्ट्रियमहामार्ग-संख्या ३२७ एडी इत्यस्मिन् सरायगढतः लालगञ्ज-गणपतगञ्ज-मार्गेण राष्ट्रिय-महामार्गसंख्या १०६ (नवीनः एनएच-१३१) पर्यन्तं मार्गपरियोजनायाः उद्घाटनं भविष्यति। प्रायः १०.६७२ किलोमीटर-दीर्घस्य अस्य मार्गस्य द्विमार्गीयमार्गरूपेण पक्कीकृत-पार्श्वमार्गैः सह उन्नयनं निर्माणं च कृतम्। अस्य मार्गस्य प्रारम्भेण क्षेत्रे आवागमनं सुगमं भविष्यति, मार्गसम्पर्कः यातायात-व्यवस्था च उत्तमा भविष्यति इति अपेक्षा अस्ति।
दुग्धविकासक्षेत्रे अपि जनपदाय महत् उपहारं प्राप्तुं गच्छति। बिहारस्य दुग्धम्, मत्स्यम्, पशुसंसाधनविभागस्य तथा बिहारराज्यदुग्धसहकारीसंघस्य अन्तर्गतं कोसी दुग्धोत्पादनसहकारीसंघे, सुपौले १२६.०७ कोटिरूप्यकाणां विभिन्नदुग्ध-विकासपरियोजनानां शिलान्यासः भविष्यति। एताभिः परियोजनाभिः दुग्धोत्पादनस्य प्रसंस्करणस्य च क्षमता वर्धयितुं सहकारीदुग्धव्यवस्था च सुदृढा भवितुं साहाय्यं भविष्यति। एतेन जनपदस्य पशुपालकाः दुग्धोत्पादकाः च लाभान्विताः भविष्यन्ति इति अपेक्षा अस्ति।
शिक्षाक्षेत्रे सुपौलप्रखण्डस्य हरदी-पञ्चायतस्य देवेन्द्रनगर-चौघारा इत्यत्र स्थितस्य डॉ. भीमराव अम्बेडकर आवासीयविद्यालयस्य नवनिर्मितभवनस्य उद्घाटनं भविष्यति। अनुसूचितजाति-अनुसूचितजनजातिकल्याणविभागस्य अन्तर्गतं निर्मितस्य अस्य विद्यालय-भवनस्य क्षमता ७२० विद्यार्थिनां अस्ति। अस्य निर्माणे ४६०७.९७ लक्षरूप्यकाणि व्ययितानि। विद्यालयस्य प्रारम्भेण विद्यार्थिभ्यः उत्तमाः शैक्षणिकाः आवासीयाश्च सुविधाः उपलब्धाः भविष्यन्ति।
एतदतिरिक्तं बिहारराज्यशैक्षणिकाधारभूत-संरचनाविकासनिगमलिमिटेड इत्यस्य सुपौलसम्बद्धानां परियोजनानाम् उद्घा-टनम् अपि भविष्यति।
जनपदप्रशासनस्य पक्षतः कार्यक्रमस्य सज्जता प्रचलति। शनिवासरे सुपौल-नगरस्य नगरभवने आयोजिते कार्यक्रमे प्रधानमन्त्रिणः कार्यक्रमस्य सजीवप्रसारणं भविष्यति।
Hindusthan Samachar / Divya Ranjan