Enter your Email Address to subscribe to our newsletters


नवदिल्ली, २० नवम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः उक्तवती यत् युवा चिकित्सकैः व्यावसायिकनैतिकतायाः उच्चतममानकानां पालनं करणीयम् तथा चिकित्सासेवासु करुणायाः, संवेदन-शीलतायाः मानवसेवायाश्च सर्वोच्चं स्थानं दातव्यम्।
विज्ञानभवने अटल-बिहारी-वाजपेयी-आयुर्विज्ञानसंस्थायाः (एबीवीआईएमएस) तथा डॉ. राममनोहरलोहिया-चिकित्सा-लयस्य द्वादशे दीक्षान्तसमारोहे सम्बोधनं कुर्वती राष्ट्रपतिः चिकित्सा-शिक्षायां छात्राणां उल्लेखनीयसहभागितां प्रशंसित-वती। सा उक्तवती यत् कन्याणां उपलब्धयः चिकित्साशिक्षायां स्वास्थ्यसेवाक्षेत्रे च महिलानां वर्धमानसहभागितां प्रति-बिम्बयन्ति। अस्मिन् अवसरे केन्द्रीय-स्वास्थ्यपरिवारकल्याणमन्त्री जेपी नड्डा अपि उपस्थितः आसीत्।
राष्ट्रपतिः उक्तवती यत् गुणवत्तापूर्णाः स्वास्थ्यसेवाः केवलं नगरीयेषु सम्पन्नवर्गेषु च सीमिताः न भवितव्याः, अपितु दूरस्थेषु वञ्चितक्षेत्रेषु निवसतां जनानां कृते अपि सुलभाः भवितव्याः। राष्ट्रपतिः डॉ. राममनोहरलोहिया-चिकित्सालयस्य रोगिभ्यः उत्तमसेवाप्रदाने भूमिकामपि प्रशंसितवती। सा अवदत् यत् २०२५ तमवर्षे चिकित्सालयस्य बाह्यरोगिविभागे १९ लक्षाधिकाः रोगिणः आगतवन्तः। एतेन अत्र अध्ययनरतानां चिकित्साशिक्षार्थिनां व्यावहारिकानुभव-प्राप्तये चिकित्सकीय-ज्ञानवृद्धये च महत्त्वपूर्णः अवसरः प्राप्तः।
मुर्मुः उक्तवती यत् विगतदशकस्य भारतस्य स्वास्थ्यसेवासु व्यापकः परिवर्तनः अभवत्। सर्वकारस्य निरन्तरप्रयत्नैः प्राथमिक-स्वास्थ्यसेवाभ्यः उन्नतचिकित्सा-सुविधाभ्यः च विस्तारः अभवत्। देशभरं प्रायः १.७५ लक्षाणि आयुष्मान् आरोग्यमन्दिराणि सञ्चालितानि सन्ति। एतदतिरिक्तं द्वितीयस्तरीयेषु तृतीयस्तरीयेषु च नगरेषु चिकित्साशिक्षायाः अतिविशिष्ट-स्वास्थ्यसेवानां च विस्तारः अभवत्। एतेन ग्रामीणदूरस्थक्षेत्रेषु निवसतां जनानां गृहसमीपे एव उत्तमचिकित्साप्राप्तिः सम्भवा जाता। सा दूरचिकित्सासेवामपि महत्त्वपूर्णां मन्यमाना उक्तवती यत् एतया भौगोलिकदूरत्वं न्यूनीकृत्य दूरस्थक्षेत्रेषु निवसतां जनानां कृते विशेषज्ञचिकित्सकानां परामर्शः प्रदातुं शक्यते।
राष्ट्रपतिः उक्तवती यत् भारतस्य स्वास्थ्यनीतिः अधुना केवलं रोगोपचारपर्यन्तं सीमिता नास्ति, अपितु रोगनिवारणस्य समये रोगपरिचयस्य च उपरि अपि बलं दीयते। मधुमेहः, मानसिकस्वास्थ्यसम्बद्धाः समस्याः तथा कर्करोगः इत्यादीनां असंक्रामकरोगाणां प्रारम्भिकपरीक्षणं उपचारश्च अत्यावश्यकः। सा आयुष्मानभारत-प्रधानमन्त्री जन-आरोग्ययोजनायाः उल्लेखं कुर्वती उक्तवती यत् अस्याः योजनायाः अन्तर्गतं पात्रपरिवारेभ्यः प्रतिवर्षं पञ्चलक्ष-रूप्यकाणां पर्यन्तं स्वास्थ्यविमा उपलब्धः भवति। आयुष्मान् वयवन्दनायोजनायाः माध्यमेन ७० वर्षाणि तदधिकं च आयुः प्राप्तेभ्यः सर्वेभ्यः वरिष्ठनागरिकेभ्यः सामाजिक-आर्थिकस्थितिं निरपेक्ष्य पञ्चलक्ष-रूप्यकाणां पर्यन्तं स्वास्थ्यविमा प्रदीयते।
राष्ट्रपतिः आधुनिकचिकित्सापद्धतीभिः सह आयुर्वेदस्य योगस्य च पारम्परिक-चिकित्सापद्धतीनां समन्वयस्य महत्त्वं प्रतिपादितवती। सा उक्तवती यत् स्वास्थ्यसेवासु एतासां पद्धतीनां समावेशेन तथा वैज्ञानिकानुसन्धानस्य प्रोत्साहनेन समग्रस्वास्थ्यव्यवस्था सुदृढा भविष्यति। चिकित्साक्षेत्रे कृत्रिमबुद्धिमत्ता इत्यादीनां नवीनप्रौद्योगिकीनां भूमिकाम् उल्लिख्य सा उक्तवती यत् एतासां प्रयोगेण स्वास्थ्यसेवाः अधिकाः सुलभाः, किफायत्यः प्रभावशीलाश्च भवितुम् अर्हन्ति। कोविड्-महामार्या प्राप्तानां शिक्षाणां उल्लेखं कुर्वती सा चिकित्सकान् परिवर्तमानपरिस्थितीनां प्रौद्योगिकीप्रगत्यानां च अनुरूपं स्वं सज्जीकर्तुं प्रेरितवती।
राष्ट्रपतिः ‘एकस्वास्थ्य’ दृष्टिकोणमपि महत्त्वपूर्णं प्रतिपादितवती। सा उक्तवती यत् मानवस्वास्थ्यस्य पशूनां, वनस्पतीनां पर्यावरणस्य च स्वास्थ्येन सह गहनः सम्बन्धः अस्ति। पशुजन्यरोगाणां, पर्यावरणप्रदूषणस्य जलवायुपरिवर्तनस्य च कारणेन उत्पन्नानां समस्यानां निवारणाय चिकित्सकानां, पशुचिकित्स-कानां पर्यावरणवैज्ञानिकानां च मध्ये उत्तमसमन्वयः आवश्यकः।
अस्मिन् अवसरे स्वास्थ्य मन्त्री जेपी नड्डा एबीवीआईएमएस तथा डॉ. राममनोहर-लोहियाचिकित्सालयं चिकित्साशिक्षायाः स्वास्थ्यसेवानां च क्षेत्रे उत्कृष्टतायाः प्रतीकं प्रतिपादितवान्। सः उक्तवान् यत् एतत् संस्थानं चिकित्सानुसन्धानस्य, आधु-निकमूलभूत-संरचनायाः विशेषज्ञ-चिकित्सासेवायाः च क्षेत्रेषु महत्त्वपूर्णं योगदानं ददाति।
नड्डा उक्तवान् यत् चिकित्साशिक्षाप्राप्तिः केवलं व्यक्तिगत उपलब्धिः नास्ति, अपितु समाजस्य प्रति महती दायित्वम् अपि अस्ति। अस्यां उपलब्धौ सर्वकारस्य निवेशः, संस्थागतसंसाधनानि समाजस्य सहयोगश्च अन्तर्भवन्ति। प्रधानमन्त्रिण: नरेन्द्रमोदीन: नेतृत्वे चिकित्साशिक्षायाः विस्ताराय सर्वकारेण १५,००० कोटिरूप्यकाणां निवेशेन १०,००० नवीनस्नातक-स्नातकोत्तरचिकित्सासनानि वर्धयितुं प्रारब्धस्य उपक्रमस्य उल्लेखं सः कृतवान्। सः युवचिकित्सकान् एतस्य निवेशस्य प्रतिदानं समाजसेवायाः माध्यमेन कर्तुं आहूतवान्।
स्वास्थ्य मन्त्री उक्तवान् यत् चिकित्सकैः स्वस्य उपलब्धिषु शिक्षकाणां मार्गदर्शनं तथा मातापितृणां त्यागं सहयोगं च स्मर्तव्यम्। विगतदशके देशे चिकित्सा-शिक्षायाः मूलभूतसंरचनायाः विस्तारस्य उल्लेखं कुर्वन् सः उक्तवान् यत् २३ अखिलभारतीयायुर्विज्ञानसंस्थानानां स्थापनया संचालनया च देशे आधुनिकचिकित्सासुविधानां विशेषज्ञस्वास्थ्यसेवानां च क्षमता वर्धिता।
दीक्षान्तसमारोहे विभिन्नपाठ्यक्रमाणां कुलम् ३२४ चिकित्साशिक्षार्थिभ्यः उपाधयः प्रदत्ताः। एतेषु एमबीबीएस-पाठ्यक्रमस्य १०० शिक्षार्थिणः, एमडी/एमएस-पाठ्य-क्रमस्य १७७ शिक्षार्थिणः तथा अतिविशिष्टचिकित्सापाठ्यक्रमाणां ४७ शिक्षार्थिणः अन्तर्भवन्ति। उत्कृष्ट-शैक्षणिकप्रदर्शनाय चिकित्सकीयदक्षतायै च ५८ शिक्षार्थिभ्यः स्वर्णपदकैः सम्मानः प्रदत्तः। एमबीबीएस-पाठ्यक्रमस्य १०० शिक्षार्थिषु ७९ छात्राः २१ छात्राश्च सन्ति। एमडी/एमएस-पाठ्यक्रमस्य १७७ शिक्षार्थिषु ११५ छात्राः ६२ छात्राश्च अन्तर्भवन्ति। डीएम, एमसीएच तथा डीआरएनबी इत्यादीनां अतिविशिष्टपाठ्यक्रमाणां ४७ शिक्षार्थिषु ३५ छात्राः १२ छात्राश्च सन्ति।
समारोहस्य अवसरे चिकित्सालयस्य मूलभूतसुविधानां चिकित्सासेवासु च प्रगतिः अपि प्रस्तुताः। चिकित्सालये ६६६ शय्यायुक्तस्य नूतनस्य अतिविशिष्ट-चिकित्साखण्डस्य शुभारम्भः कृतः। अस्मिन् विकिरणचिकित्सा, परमाणुचिकित्सा, शल्यकर्करोगचिकित्सा तथा जठरान्त्र-शल्यचिकित्सा इत्यादयः विशिष्टविभागाः अन्तर्भवन्ति।
एतदतिरिक्तं डॉ. राममनोहरलोहिया-चिकित्सालयेन २०२५ तमवर्षे चिकित्सा-लयानां स्वास्थ्यसेवाप्रदातृणां च कृते राष्ट्रियमान्यतापरिषदः पूर्णमान्यता प्राप्ता। एतां उपलब्धिं प्राप्तः अयं देशस्य प्रथमः केन्द्रसर्वकारीयचिकित्सालयः अभवत्।
अस्मिन् अवसरे केन्द्रीयस्वास्थ्य मन्त्रिणा संस्थानस्य वार्षिकप्रतिवेदनं २०२५-२६ तथा एबीवीआईएमएस-पत्रिकायाः अपि विमोचनं कृतम्। समारोहे केन्द्रीय-स्वास्थ्यसचिवा पुण्यसलिला श्रीवास्तवः, राष्ट्रियचिकित्सा-आयोगस्य अध्यक्षः डॉ. अभिजातसेठः, आरएमएलचिकित्सालयस्य निदेशकः डॉ. अखिलेश्वरीप्रसादः, मन्त्रा-लयस्य वरिष्ठाधिकारिणः, अध्या-पकाः, चिकित्साविशेषज्ञाः, शिक्षार्थिणः तेषां परिजनाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan