सरस्वतीनद्याः पुनरुज्जीवनम्, करतारपुरसाहिब-गलियारा तथा अयोध्यायां श्रीराममन्दिरम् भारतस्य उदयमानसौभाग्यस्य प्रतीकाः : गजेन्द्रसिंहशेखावतः
कपालमोचनतीर्थम् आस्था, आत्मशुद्धेः भारतस्य च साझा-संस्कृतेः धरोहरस्य केन्द्रम् चण्डीगढम्, २० नवम्बरमासः (हि.स.)। केन्द्रीयविरासत-पर्यटनमन्त्री गजेन्द्रसिंहशेखावतः हरियाणायां सरस्वतीनद्याः पुनरुज्जीवनाय क्रिय-माणानां प्रयासानां प्रशंसां कृत्वा उक्त
केंद्रीय मंत्री गजेंद्र शेखावत तथा मुख्यमंत्री नायब सैनी कपाल माेचन मेले के उदघाटन पर सूर्य काे अर्ध्य देते हुए


कपालमोचनतीर्थम् आस्था, आत्मशुद्धेः भारतस्य च साझा-संस्कृतेः धरोहरस्य केन्द्रम्

चण्डीगढम्, २० नवम्बरमासः (हि.स.)। केन्द्रीयविरासत-पर्यटनमन्त्री गजेन्द्रसिंहशेखावतः हरियाणायां सरस्वतीनद्याः पुनरुज्जीवनाय क्रिय-माणानां प्रयासानां प्रशंसां कृत्वा उक्तवान् यत् एतत् देशाय अत्यन्तं महत्त्वपूर्णम् ऐतिहासिकं च कार्यम् अस्ति। सरस्वती-नद्याः पुनरुज्जीवनं देशाय उतना एव महत्त्वपूर्णम् अस्ति, यथा करतार-पुरसाहिब-गलियारस्य उद्घाटनम् तथा अयोध्यायां भगवत: श्रीरामस्य भव्यस्य मन्दिरस्य पुनर्स्थापनम्। एता: तिस्र: घटना: भारतस्य उदयमान-सौभाग्यस्य गौरव-पूर्णस्य पुनर्जागरणस्य च प्रतिबिम्बा: सन्ति।

सः उक्तवान् यत् यस्मिन् दिने सरस्वतीनदी लुप्ता अभवत्, तस्मात् एव दिनात् भारतस्य सौभाग्यस्य सूर्यः अस्ताचलदिशं प्रति गन्तुम् आरब्धवान्। तथैव यस्मिन् दिने भगवत: श्रीरामस्य मन्दिरं ध्वस्तम् अभवत्, सः अपि भारतस्य सांस्कृतिकस्य आध्यात्मिकस्य च गौरवस्य कृते कठिनः कालखण्डः आसीत्। लक्षशः जनानां बलिदानानां शताब्दिनां दीर्घस्य संघर्षस्य च अनन्तरम् अद्य देशः गौरवपूर्णे युगे प्रविष्टः, यस्मिन् अयोध्यायां भगवत: श्रीरामस्य भव्यं मन्दिरं पुनर्स्थापितम् अस्ति तथा भारतस्य सौभाग्यस्य सूर्यः पुनः उदितः भूत्वा सम्पूर्णं विश्वं स्वप्रभया आलोकयति।

केन्द्रीयविरासत-पर्यटनमन्त्री गजेन्द्र-सिंहशेखावतः यमुनानगरजनपदे शुक्र-वासरे आयोजितस्य श्रीकपालमोचन-आदिबद्रीमेलापकस्य उद्घाटनावसरे मुख्यातिथिरूपेण श्रद्धालून् सम्बोधयन् आसीत्। अस्मिन् अवसरे हरियाणायाः मुख्यमन्त्री नायबसिंहसैनी अपि उपस्थितः आसीत्। केन्द्रीयमन्त्री गजेन्द्रसिंहशेखावतः तथा मुख्यमन्त्री नायबसिंहसैनी च गुरुगृहे प्रणामं कृत्वा हवनयज्ञेन श्रीकपालमोचन-श्रीआदिबद्रीमेलापकस्य शुभारम्भं कृतवन्तौ। अस्मिन् अवसरे अतिथिभिः दूरनियन्त्रणयन्त्रस्य बटनं दबित्वा प्रायः १८७ कोटिरूप्यकाणां परियोजनानां उद्घाटनं शिलान्यासश्च कृतः।

एतासु १६ नवीनाः अमृत-औषधालयाः अपि अन्तर्भवन्ति, यत्र सामान्यजनानां कृते जीवनरक्षकौषधानि न्यूनमूल्येषु उपलब्धानि भविष्यन्ति। तदतिरिक्तं ११ जलगृहेषु नवीनजलाशयानां निर्माणस्य तथा जगाधरीनगरे पुरातनस्य मलजल-वाहिनीजालस्य पुनर्वासकार्यस्य शिला-न्यासः अपि कृतः। अस्मात् पूर्वं तेन आरक्षकविभागस्य चल-आरक्षक-केन्द्रस्य उद्घाटनं कृतम् तथा मेलापकपरिसरे आयोजितायाः प्रदर्शिन्या: विभिन्नविभागैः स्थापितानां विक्रयकेन्द्राणां च अवलोकनम् अपि कृतम्।

स्वसम्बोधने गजेन्द्रसिंहशेखावतः कपाल-मोचनतीर्थं प्रणम्य उक्तवान् यत् कपालमोचनतीर्थम् केवलम् आस्थायाः केन्द्रं न, अपितु आत्मशुद्धेः, आत्म-चिन्तनस्य तथा भारतस्य साझा-संस्कृतेः विरासतायाः महत्त्वपूर्णं केन्द्रम् अपि अस्ति। तीर्थयात्रा केवलं कस्मिंश्चित् स्थाने गमनपर्यन्तं सीमिता न भवति, अपितु सा आत्मचिन्तनस्य, आत्मशुद्धेः, मनसि नवीनसंकल्पस्य च स्वीकरणस्य सकारात्मकपरिवर्तनस्य अवसरः अपि भवति। कपालमोचनस्य एषा भूमिः अस्मान् अन्तःस्थितम् अहङ्कारं क्रोधं च त्यक्त्वा श्रेष्ठमनुष्यत्वं प्राप्तुं प्रेरयति।

गजेन्द्रसिंहशेखावतः उक्तवान् यत् हरियाणायाः परिचयः पूर्वं कृष्या तथा अत्रत्यैः सैनिकैः रणवीरैश्च भवति स्म, ये सीमासु स्थित्वा शताब्देभ्यः देशस्य रक्षार्थं स्वजीवनं समर्पितवन्तः। वर्तमानसन्दर्भे हरियाणायाः परिचयः अत्रत्यैः क्रीडकैः, मल्लैः, मुक्केबाजैश्च भवति। तदतिरिक्तं हरियाणाभूमिः प्राचीनकालात् ऋषीणां, साधनायाः, वैदिकज्ञानस्य तथा आध्यात्मिकचिन्तनस्य पवित्रभूमिः अपि अस्ति। सः पुनः उक्तवान् यत् कपाल-मोचनस्य एषा भूमिः अस्मान् अन्तःस्थितम् अहङ्कारं क्रोधं च त्यक्त्वा श्रेष्ठमनुष्यत्वं प्राप्तुं प्रेरयति। एषा पवित्रभूमिः मातापितॄणां, गुरूणां, देशस्य, समाजस्य, प्रकृतेः पर्यावरणस्य च प्रति अस्माकं दायित्वानि सम्यक् निर्वहणस्य स्मरणं कारयति।

Hindusthan Samachar / Divya Ranjan