भारतस्य शौकिया गोल्फ-क्रीडायाः प्रतियोगितायां विजेतुः उपविजेतुश्च कृते नगदराशिपुरस्काराणाम् उद्घोषणा।
भारतीयगोल्फसङ्घेन विजेतुः कृते पञ्चसप्ततिसहस्रं, उपविजेतुः कृते पञ्चाशत्सहस्रं रूप्यकाणि प्रदातुं घोषणा कृता नवदेहली, २० नवम्बर (हि.स.)। भारतीये गोल्फक्रीडाक्षेत्रे वृत्तिरूपेण प्रवेशाय अधिकाधिकान् बालकान् युवजनान् च प्रोत्साहयितुं भारतीयगोल्फसङ्घ
एमेच्योर गोल्फ चैंपियनशिप के विजेता और उपविजेता के लिए नकद पुरस्कारों की घोषणा  (फोटो-द इंडियन गोल्फ यूनियन इंस्टाग्राम)


भारतीयगोल्फसङ्घेन विजेतुः कृते पञ्चसप्ततिसहस्रं, उपविजेतुः कृते पञ्चाशत्सहस्रं रूप्यकाणि प्रदातुं घोषणा कृता

नवदेहली, २० नवम्बर (हि.स.)। भारतीये गोल्फक्रीडाक्षेत्रे वृत्तिरूपेण प्रवेशाय अधिकाधिकान् बालकान् युवजनान् च प्रोत्साहयितुं भारतीयगोल्फसङ्घेन १२५ तमस्य भारतीयस्य एमेच्योर् गोल्फचैम्पियनशिप इति क्रीडास्पर्धायाः विजेतुः उपविजेतुः च कृते नगदपुरस्काराणां घोषणा कृता अस्ति। गुरुवासरे कृते घोषणानुसारं स्पर्धायाः विजेतुः कृते पञ्चसप्ततिसहस्रं रूप्यकाणि, उपविजेतुः कृते च पञ्चाशत्सहस्रं रूप्यकाणि प्रदास्यन्ते।

ऑल् इण्डिया एमेच्योर् इति नाम्ना अपि प्रसिद्धा एषा प्रतिष्ठिता क्रीडास्पर्धा २०२६ तमस्य वर्षस्य दिसम्बरमासस्य ७ दिनाङ्कतः १३ दिनाङ्कपर्यन्तं मुम्बईनगरे स्थिते बॉम्बे प्रेसिडेन्सी गोल्फक्लब इत्यत्र आयोजयिष्यते। एषा स्पर्धा विश्वस्य सर्वाधिककालात् आयोज्यमाना एमेच्योर् मैचप्ले गोल्फक्रीडास्पर्धा अस्ति। अस्याः आयोजनं १८९२ तमवर्षात् प्रचलति।

अस्यां स्पर्धायां देशस्य प्रायः १०० तः ११० पर्यन्ताः श्रेष्ठाः एमेच्योर् गोल्फक्रीडकाः भागं ग्रहीष्यन्ति। तेषु आईजीयू ऑर्डर् ऑफ् मेरिट् इत्यस्य शीर्षस्थाः ६० क्रीडकाः अवशिष्टाश्च राष्ट्रिययोग्यतास्पर्धायाः माध्यमेन चयनिताः क्रीडकाः भविष्यन्ति। सर्वे क्रीडकाः प्रतिष्ठितस्य उपाधेः प्राप्तये प्रतिस्पर्धिष्यन्ते।

गतवर्षे १२४ तमस्य भारतीयस्य एमेच्योर् गोल्फचैम्पियनशिप इति स्पर्धायाः उपाधिं सुखमनसिंहः प्राप्तवान् आसीत्। सः कोलकातानगरे स्थिते टॉलीगञ्जक्लब इत्यत्र आयोजिते ३६ होल् इति स्पर्धायाः अन्तिमचक्रे हरमनसचदेवं पराजित्य उपाधिं स्वनाम्ना कृतवान् आसीत्।

नगदपुरस्काराणां घोषणां कुर्वन् भारतीयगोल्फसङ्घस्य अध्यक्षः बृजिन्दरसिंहः अवदत् यत् भारतीयामेच्योर् गोल्फचैम्पियनशिप विश्वस्य सर्वाधिकप्रतिष्ठिता एमेच्योर् मैचप्ले स्पर्धा अस्ति तथा च अस्याः गौरवशाली इतिहासः अस्ति। सङ्घः अधिकाधिकान् बालकान् गोल्फक्रीडां वृत्तिरूपेण स्वीकर्तुं प्रोत्साहयितुम् इच्छति। विजेतुः उपविजेतुः च कृते नगदपुरस्कारप्रदानेन क्रीडकाः सम्पूर्णे वर्षे निरन्तरं श्रेष्ठं प्रदर्शनं कर्तुं प्रेरणां प्राप्स्यन्ति। अपि च ते भारतस्य प्रतिनिधित्वं कुर्वन्तः कतिपयासु श्रेष्ठासु अन्ताराष्ट्रियस्पर्धासु भागं ग्रहीतुं अवसरं प्राप्स्यन्ति।

स्वकार्यकालस्य अवधौ भारतीयगोल्फसङ्घेन स्वीकृतानां पदक्षेपाणां विषये सूचयन् बृजिन्दरसिंहः अवदत् यत् विगतेषु चतुर्षु वर्षेषु सङ्घेन गोल्फक्रीडायाः प्रचारः केवलं प्रथमस्तरीयेषु द्वितीयस्तरीयेषु च नगरेषु सीमितः न भवेत्, अपि तु मूलस्तरेऽपि अस्याः क्रीडायाः विकासः भवेदिति उद्दिश्य बहवः प्रयासाः कृताः।

तेन सूचितं यत् सङ्घेन पूर्वोत्तरभारतेऽपि अस्याः क्रीडायाः विस्तारः कृतः, राष्ट्रियदलस्य क्रीडकानां कृते प्रशिक्षणशिबिराणि आयोजितानि तथा च आर् एण्ड् ए लेवल् ३ टीएआरएस् कार्यक्रमः सञ्चालितः। एतदतिरिक्तं भारतीयदलानि पञ्चाशदधिकासु अन्ताराष्ट्रीयस्पर्धासु भागग्रहणाय प्रेषितानि। सङ्घेन राष्ट्रियक्रीडाप्रशासनविधेः २०२५ इत्यस्य अनुरूपं स्वस्य ज्ञापनपत्रे तथा उपनियमेषु अपि परिवर्तनानि कृतानि।

Hindusthan Samachar / Dheeraj Maithani