Enter your Email Address to subscribe to our newsletters

बक्सरम्, २० नवम्बरमासः (हि.स.)।
देवोत्थानैकादश्याः पावनावसरे शुक्रवासरे श्रीवामनभगवतः प्राङ्गणे भक्तेः श्रद्धायाश्च अद्भुतं दृश्यं दृष्टम्। अस्मिन् अवसरे वामनचेतनामञ्चस्य तथा वामनग्लोबल इत्यस्य पक्षतः एकादशशतदीपानां भव्यः प्रज्वलनकार्यक्रमः आयोजितः। दीपानां प्रकाशेन सम्पूर्णं प्राङ्गणम् आलोकितम्, वातावरणं च भक्तिमयं जातम्।
कार्यक्रमे समितेः सदस्यैः सामूहिकरूपेण दीपाः प्रज्वलिताः तथा भगवतः प्रति स्वश्रद्धा समर्पिता। अस्मिन् अवसरे नगरस्य अनेकाः समाजसेविनः, आयोजनसमित्या सम्बद्धाः सदस्याः तथा गणमान्यजनाः उपस्थिताः आसन्। महिलाः अपि उत्साहपूर्वकं दीपप्रज्वलनकार्यक्रमे भागं गृहीत्वा आयोजनस्य आध्यात्मिक-गरिमां वर्धितवन्तः।
अस्मिन् अवसरे देवोत्थानैकादश्याः धार्मिकमहत्त्वस्य विषये अपि प्रकाशः पातितः। धार्मिकमान्यतानुसारं अस्मिन् दिने भगवान् विष्णुः चतुर्मासीय-योगनिद्रायाः जागरति तथा तेन सह मांगलिककार्याणां प्रारम्भः भवति। अस्मिन् पावनतिथौ भगवान् शालिग्रामस्य तथा तुलसीमातुः विशेषपूजार्चना क्रियते। गृहेषु अपि महिलाः घृतदीपान् प्रज्वाल्य सुखस्य, समृद्धेः तथा मंगलमयजीवनस्य कामनां कुर्वन्ति। एकादशशतदीपानां सामूहिक-प्रज्वलनेन न केवलं धार्मिकश्रद्धा अभिव्यक्ता, अपितु समाजे एकता, सद्भावः तथा सांस्कृतिक-परम्पराणां संरक्षणस्य सन्देशः अपि प्रसारितः।
Hindusthan Samachar / Divya Ranjan