Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० नवम्बरमासः (हि.स.)। उपराष्ट्रपतिः सीपी राधाकृष्णनः नवम्बर-मासस्य २१ तथा २२ दिनाङ्कयोः महाराष्ट्रस्य तमिलनाडोः च भ्रमणं करिष्यति। अस्मिन् भ्रमणकाले सः पुणेनगरे सिम्बायोसिस् अन्ताराष्ट्रिय दीक्षान्तसमारोहे भागं ग्रहीष्यति। ततः चेन्नैनगरे नेल्लै नादर मेट्रिकुलेशन उच्चतरमाध्यमिकविद्यालयस्य ४२तमस्य वार्षिकोत्सवस्य कार्यक्रमे भागं ग्रहीष्यति।
उपराष्ट्रपतिसचिवालयेन प्रदत्तसूचनानुसारं सीपी राधाकृष्णनः नवम्बरमासस्य २१ दिनाङ्के महाराष्ट्रस्य पुणेनगरे आयोजिते सिम्बायोसिस् अन्ताराष्ट्रियविश्व-विद्यालयस्य दीक्षान्तसमारोहे भागं ग्रहीष्यति। अस्मिन् कार्यक्रमे सः मुख्यातिथिरूपेण उपस्थितः भविष्यति।
ततः सः चेन्नईनगरं गमिष्यति। तत्र नवम्बरमासस्य २२ दिनाङ्के नेल्लै नादर मेट्रिकुलेशन उच्चतरमाध्यमिक-विद्यालयस्य ४२तमस्य वार्षिकोत्सव-समारोहे भागं ग्रहीष्यति।
Hindusthan Samachar / Divya Ranjan