Enter your Email Address to subscribe to our newsletters

* वैशाल्याः जन्दाहा-राजापाकर-औद्योगिकक्षेत्रात् २२७ परियोजनानाम् उद्घाटनं, शिलान्यासः राष्ट्राय समर्पणं च
* नीतीशसेतुः, मार्गाः, विद्युत्, जलापूर्तिः, मलजलनिकासी, शिक्षा स्वास्थ्यक्षेत्रसम्बद्धाः परियोजनाश्च समाविष्टाः
वैशाली, २१ नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे विश्वस्य प्रथमगणराज्यस्य भूमौ वैशाल्याः जन्दाहा-राजापाकर-औद्योगिकक्षेत्रस्थितात् जाफरपट्टीस्थानात् बिहारराज्याय ३४,४७० कोटिरूप्यकाणां विविधविकासपरियोजनानां शुभारम्भम् अकरोत्। तेन २२७ आधारभूतसंरचनासम्बद्धानां विकासपरियोजनानाम् उद्घाटनं, शिलान्यासः राष्ट्राय समर्पणं च कृतम्।
प्रधानमन्त्रिणा यासां परियोजनानां शुभारम्भः कृतः, तासु मार्गनिर्माणम्, रेलसेवा, विद्युत्, जलापूर्तिः, मलजलनिकासी, शिक्षा, स्वास्थ्यसेवा, आवासः नगरीयविकासश्च सम्बद्धाः योजनाः समाविष्टाः सन्ति। गङ्गानद्यां निर्मितस्य कच्ची दरगाह-बिदुपुर-सेतोः (नीतीशसेतोः) सहितानां अनेकमहत्त्वपूर्णपरियोजनानाम् अपि लोकार्पणं कृतम्।
प्रधानमन्त्रिणा प्रमुखमार्गपरियोजनानाम् उद्घाटनं कृतम्। तासु राष्ट्रिय-राजमार्गस्य १९ इत्यस्य औरंगाबाद-चरदाहा-खण्डस्य षड्भिः मार्गैः निर्माणम्, राष्ट्रिय-राजमार्गस्य २२७ एफ इत्यस्य चोरमा-बैरागनिया-खण्डसम्बद्धाः परियोजनाः तथा राष्ट्रिय-राजमार्गस्य ३२७ इत्यस्य उमगाँव-सहरसा-खण्डसम्बद्धाः परियोजनाः च समाविष्टाः सन्ति।
तेन १३२० मेगावाट् क्षमतायाः बक्सर-तापविद्युत्परियोजनायाः द्वितीयस्य एककस्य (६६० मेगावाट्) उद्घाटनम् अपि कृतम्। एतदतिरिक्तं विद्युत्वितरणस्य पारेषणस्य च आधारभूतसंरचनासम्बद्धाः परियोजनाः अपि प्रारब्धाः। नवादायाः फुलवरिया-बन्धे निर्मिता उत्प्लवमान-सौरऊर्जापरियोजना इत्यादयः ऊर्जाक्षेत्रसम्बद्धाः अन्याः योजनाः अपि अत्र समाविष्टाः सन्ति।
प्रधानमन्त्रिणा राष्ट्रिय-राजमार्गस्य १३९ डब्ल्यू इत्यस्य साहेबगञ्ज-अरेराज-बेतिया-खण्डस्य चतुर्भिः मार्गैः निर्माणपरियोजनायाः आधारशिला स्थापिता। अस्यां परियोजनायां ३८०० कोटिरूप्यकेभ्यः अधिकं व्ययः सम्भाव्यते। एतदतिरिक्तं पीरपैंती-महातापविद्युत्परियोजनायाः (३×८०० मेगावाट्) विद्युत्निर्गमनसम्बद्धाधारभूतसंरचनायाः आधारशिला अपि स्थापिता, यस्याः अनुमानितव्ययः प्रायः ३३५० कोटिरूप्यकाणि अस्ति।
प्रधानमन्त्रिणा बेगूसराय, बिहारशरीफ, पूर्णिया, हाजीपुर, मोतिहारी, दानापुर, खगड़िया, समस्तीपुर, बोधगया, सीतामढी, सहरसा इत्यादिषु विभिन्ननगरीयक्षेत्रेषु मलजलनिकासी-जलापूर्तिपरियोजनानाम् आधारशिला स्थापिता। एतासु परियोजनासु नहरप्रणालीनाम् आधुनिकीकरणम्, नगरीयजलनिकासी, स्वच्छता, नागरिकसुविधासम्बद्धाः योजनाश्च अन्तर्भवन्ति। कहलगाँवे प्रायः १७.४७ कोटिरूप्यकाणां व्ययेन निर्मितायाः मलजलनिकासी-आधारभूतसंरचनापरियोजनायाः उद्घाटनम् अपि कृतम्।
तेन डॉ. भीमराव आंबेडकर-आवासीयविद्यालयानाम्, आईआईटी-पटनायाः अनुसन्धानोपवनस्य, अभियान्त्रिकी-महाविद्यालयानां, पॉलिटेक्निक-संस्थानानां स्वास्थ्यसेवासम्बद्धाधारभूतसंरचनानां च उद्घाटनं शिलान्यासश्च कृतः। आपत्कालीनप्रतिक्रियाप्रणाली तथा आरक्षिदत्तांशकेन्द्रसम्बद्धाः परियोजनाः अपि अस्य कार्यक्रमस्य भागः आसन्।
प्रधानमन्त्रिणा शतं पीएम-ई-बसयानानि हरितध्वजं प्रदर्श्य प्रेषितानि। अनेन राज्ये स्वच्छसार्वजनिकपरिवहनव्यवस्थायाः प्रोत्साहनं भविष्यति। प्रधानमन्त्रिणः आवासयोजनायाः (नगरीय) अन्तर्गतं २६,९०० अधिकलाभार्थिनां कृते गृहप्रवेशकार्यक्रमः अपि आयोजितः। नगरीयपरिवारेभ्यः आवाससुविधां प्रदातुं एषा महत्त्वपूर्णा पहलः अस्ति।
गङ्गानद्यां निर्मितस्य कच्ची दरगाह-बिदुपुर-केबलाधारितसेतोः (नीतीशसेतोः) लोकार्पणम् अपि कृतम्। एताभिः परियोजनाभिः बिहारराज्ये मार्गसम्पर्कव्यवस्थायाः, ऊर्जोत्पादनस्य, नगरीयसुविधानाम्, शिक्षायाः, स्वास्थ्यसेवायाः, आवासीयाधारभूतसंरचनायाश्च सुदृढीकरणाय प्रयासः कृतः।
Hindusthan Samachar / Dheeraj Maithani