ब्रिक्सः कस्यापि राष्ट्रस्य कृते आह्वानम्, अपितु सहकारीसमृद्धेः मञ्चः अस्ति : ओम बिरला
टोंकम् (राजस्थानम्), 21 नवंबरमासः (हि.स.)। लोकसभाध्यक्षः ओम बिरला अवदत् यत् ब्रिक्सः कस्यापि राष्ट्रस्य कृते आह्वानं नास्ति, अपितु भारतस्य ‘वसुधैव कुटुम्बकम्’ इति भावनायाः अनुरूपं सर्वेषां राष्ट्राणां साझा-समृद्धेः कल्याणस्य च मञ्चः अस्ति। लोकसभाध
लोकसभा अध्यक्ष ओम बिरला समेत अन्य लोग मौजूद।


टोंकम् (राजस्थानम्), 21 नवंबरमासः (हि.स.)। लोकसभाध्यक्षः ओम बिरला अवदत् यत् ब्रिक्सः कस्यापि राष्ट्रस्य कृते आह्वानं नास्ति, अपितु भारतस्य ‘वसुधैव कुटुम्बकम्’ इति भावनायाः अनुरूपं सर्वेषां राष्ट्राणां साझा-समृद्धेः कल्याणस्य च मञ्चः अस्ति।

लोकसभाध्यक्षः ओम बिरला शनिवासरे राजस्थानस्य टोंक-नगरे वनस्थलीविद्यापीठे आयोजितस्य ‘ब्रिक्स महिला नेतृत्वशिखरसम्मेलनस्य’ उद्घाटनावसरे एतद् उक्तवान्। भारतस्य ‘वसुधैव कुटुम्बकम्’ अर्थात् सम्पूर्णं विश्वम् एकः परिवारः इति अवधारणायाः उल्लेखं कुर्वन् सः अवदत्, “ब्रिक्सः कस्यापि राष्ट्रस्य कृते आव्हानं नास्ति, न च अस्य उद्देश्यं कमपि आव्हानं दातुम् अस्ति। अपितु अस्य मार्गदर्शकं दर्शनं सर्वेषां राष्ट्राणां साझा-समृद्धौ कल्याणे च निहितम् अस्ति। ब्रिक्स-तः अपि भारतस्य दृष्टिकोणः व्यापकः अस्ति तथा वैश्विककल्याणस्य सहकारितायाः च प्रयासेषु प्रत्येकस्य राष्ट्रस्य विशिष्टं महत्त्वम् अस्ति।”

सः अवदत् यत् भौगोलिक-आर्थिक-राजनैतिकपरिस्थितिषु भिन्नतायाः सत्त्वेऽपि सर्वाणि राष्ट्राणि अनेकेषां समानानां चुनौतीनां सम्मुखीकरणं कुर्वन्ति, यासां समाधानाय सामूहिकप्रयत्नाः आवश्यकाः सन्ति। ब्रिक्सः संवादाय, सहकारितायै, विचाराणां श्रेष्ठप्रथानां च आदानप्रदानाय महत्त्वपूर्णं मञ्चं प्रददाति। अनेन राष्ट्राणां समानहितानां सर्वसम्मतसमाधानानां च दिशि कार्यं कर्तुं सहायता भवति।

बिरला ब्रिक्सदेशेभ्यः आगताभ्यः महिलाप्रतिनिधिभ्यः सुझावम् अददात् यत् ताः वैश्विकचुनौत्यनां सम्मुखीकरणाय तथा अधिकशान्तिपूर्णस्य, स्थिरस्य, समृद्धस्य च विश्वस्य निर्माणाय स्वकीयस्य सामूहिकनेतृत्वस्य, अनुभवस्य, नवाचारसामर्थ्यस्य च उपयोगं कुर्युः। महिलानाम् आत्मविश्वासः, सकारात्मकदृष्टिकोणः, नवाचारक्षमता च राष्ट्राणां मानवतायाश्च पुरतः उपस्थितानां जटिलसमस्यानां समाधानाय नवीनान् मार्गान् प्रशस्तुं शक्नुवन्ति। स्वास्थ्यसेवायाम्, शिक्षायाम्, कृषिक्षेत्रे, रक्षाक्षेत्रे, साइबरसुरक्षायां महिला-उद्यमितायां च कृत्रिमबुद्धेः उत्तरदायिप्रयोगाय सः आह्वानम् अकरोत्।

लोकसभाध्यक्षः स्वयंसेवीसहायतासमूहानां ‘लखपति दीदी’, ‘ड्रोन दीदी’ इत्यादीनाम् उपक्रमाणां उल्लेखम् अकरोत्। पञ्चायतेभ्यः आरभ्य संसदपर्यन्तं महिलानां सहभागितां वर्धयन्तं ‘नारीशक्तिवन्दनाधिनियमम्’ ऐतिहासिकं सोपानम् इति सः अभिहितवान्। अधुना ‘महिलासशक्तीकरणात्’ अग्रे गत्वा ‘महिलानेतृत्वाधारितविकासस्य’ साकाररूपप्रदानस्य समयः अस्ति, येन महिलाः विकासस्य केवलं सहभागिन्यः न तिष्ठेयुः, अपितु तस्य दिशानिर्धारणेऽपि निर्णायकां भूमिकां निर्वहेयुः।

बिरला अवदत् यत् प्रौद्योगिकीयप्रगतिः मानवकेन्द्रितदृष्टिकोणेन, नैतिकमूल्यैः, करुणया उत्तरदायित्वेन च निर्देशिता भवेत्। कृत्रिमबुद्धिः मानवतायाः सेवां कुर्यात् तथा सामान्यनागरिकाणां जीवनं अधिकं सुरक्षितं श्रेष्ठं च कुर्यात् इति सुनिश्चितीकरणं वयं सर्वेषां सामूहिकं दायित्वम् अस्ति। जलवायुपरिवर्तनम्, आतंकवादः, साइबरापराधाः, मादकद्रव्याणां तस्करी इत्यादीनां संकटानां सम्मुखीकरणाय परस्परसहकारितां अधिकं सुदृढां कर्तुं आवश्यकता अस्ति इत्यपि सः बलम् अददात्।

लोकसभाध्यक्षः अवदत् यत् विभिन्नराष्ट्राणां मध्ये नवाचाराणाम्, अनुभवानां, सफलप्रथानां च आदानप्रदानेन नवीनदृष्टिकोणाः विकसिताः भवितुम् अर्हन्ति तथा ब्रिक्सदेशाः उद्भवतीनां वैश्विकचिन्तानां अधिकप्रभाविणा प्रकारेण समाधानं कर्तुं शक्नुवन्ति।

लोकसभाध्यक्षः वनस्थलीविद्यापीठस्य संस्थापकाभ्यां पण्डितहीरालालशास्त्रिणे रतनशास्त्रिणे च श्रद्धाञ्जलिम् अर्पितवान्। सः अवदत् यत् केवलाभिः पञ्च छात्राभिः आरब्धम् इदं संस्थानम् अधुना प्रायः अष्टादशसहस्रछात्राभिः सह महिला-शिक्षायाः प्रतिष्ठितं केन्द्रं जातम्। अस्य संस्थानस्य छात्राः प्रौद्योगिक्यां, विमानचालने, अश्वारोहणे, विज्ञानक्षेत्रे, सशस्त्रसेनासु च नेतृत्वपूर्णां भूमिकां निर्वहन्ति।

नवम्बरमासस्य २१ दिनाङ्कतः २३ दिनाङ्कपर्यन्तम् आयोजिते अस्मिन् अन्तरराष्ट्रीयशिखरसम्मेलने ब्रिक्सदेशेभ्यः साझेदारेभ्यश्च आगताः महिलासांसदाः, नीतिनिर्मातारः, शिक्षाविदः, उद्यमिन्यश्च भागं गृह्णन्ति। सम्मेलनस्य अवधौ महिलानेतृत्वम्, राजनीतिकसहभागिता, क्षमतानिर्माणम्, अङ्कीयसुरक्षा, साइबरसुरक्षा इत्यादिषु प्रमुखविषयेषु अनुभवानां श्रेष्ठप्रथानां च आदानप्रदानं क्रियते।

---------------

Hindusthan Samachar / Dheeraj Maithani