Enter your Email Address to subscribe to our newsletters

जयपुरम्, २१ नवम्बरमास: (हि.स.)। मुख्यमन्त्री भजनलालशर्मा शनिवासरे भाजपायाः प्रदेशमुख्यालयं प्राप्तवान्। अस्मिन् अवसरे सः दलस्य पदाधिकारिभिः कार्यकर्तृभिश्च सह मिलितवान्। मुख्यमन्त्री सर्वैः कार्यकर्तृभिः सह संवादं कुर्वन् तेषाम् उत्साहवर्धनम् अकरोत्। सः कार्यकर्तृभिः सह आत्मीयतया समयं व्यतीतवान्, चायपानम् अपि कृतवान्।
ततः पूर्वं मुख्यमन्त्रिणः प्रदेशमुख्यालये आगमने पदाधिकारिभिः कार्यकर्तृभिश्च तस्य अभिनन्दनं कृतम्। अस्मिन् अवसरे भाजपायाः प्रदेशाध्यक्षः मदनराठौडः, सङ्गठनमहामन्त्री अजयकुमारः, प्रदेशो-पाध्यक्षः मुकेशदाधीचः, प्रदेशमहा-मन्त्री श्रवणसिंहबगडी तथा मिथिलेश-गौतमः इत्यादयः अन्ये पदाधिकारीण: कार्य-कर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan