मुख्यमन्त्री सम्राट् चौधरी श्यामामन्दिरे पूजार्चनां करिष्यति
दरभङ्गा, २१ नवम्बरमास: (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राट् चौधरी नवम्बरमासस्य २२ दिनाङ्के दरभङ्गास्थिते प्रसिद्धे श्यामामन्दिरे आगत्य पूजार्चनां करिष्यति। न्यासस्य गठनानन्तरं २००७ तः अद्यावधि मुख्यमन्त्रीरूपेण मन्दिरम् आगच्छन्तः सः द्वितीयः मुख्
दरभंगा:मुख्यमंत्री के आगमन को लेकर सज-धज रहा मां श्यामा  मंदिर परिसर।


दरभङ्गा, २१ नवम्बरमास: (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राट् चौधरी नवम्बरमासस्य २२ दिनाङ्के दरभङ्गास्थिते प्रसिद्धे श्यामामन्दिरे आगत्य पूजार्चनां करिष्यति। न्यासस्य गठनानन्तरं २००७ तः अद्यावधि मुख्यमन्त्रीरूपेण मन्दिरम् आगच्छन्तः सः द्वितीयः मुख्यमन्त्री भविष्यति। तस्मात् पूर्वं २०१२ तमस्य वर्षस्य दिसम्बरमासस्य १६ दिनाङ्के तत्कालीनमुख्यमन्त्री नीतीश-कुमारः मन्दिरम् आगत्य श्यामाजानकी-भवनस्य उद्घाटनं कृतवान् आसीत्।

मुख्यमन्त्रिणः आगमनं प्रति श्यामा-मन्दिरन्याससमित्या सज्जताः तीव्रतया क्रियन्ते। मन्दिरपरिसरे स्वच्छताकार्यं, वर्णलेपनं, स्वागतव्यवस्थाः अन्य-व्यवस्थाश्च अन्तिमरूपं प्राप्नुवन्ति। न्याससमितेः अध्यक्षः पूर्वकुलपतिः प्रो. एसएम झा, सचिवः जनपदाधिकारी कौशलकुमारः तथा प्रभारीकोषाध्यक्षः डॉ. रविरञ्जनः सज्जतानां निरन्तरं निरीक्षणं कुर्वन्ति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री हेलिकॉप्टरद्वारा आगमनानन्तरं मन्दिरे प्रायः दश निमेषपर्यन्तं पूजामर्चनां करिष्यति। प्रधानपूजारी तस्य विधिवत् पूजां कारयिष्यति। अस्मिन् समये न्याससमितेः संरक्षकः नगरविधायकः संजयसरावगी मुख्यमन्त्रिणः स्वागतं करिष्यति। अपि च सः मुख्यमन्त्रिणं मन्दिरस्य ऐतिहासिकमहत्त्वेन तथा नेपालसहितं मिथिलाञ्चलस्य श्रद्धालूनां गहनश्रद्धया अवगतं करिष्यति।

अस्मिन् अवसरे न्याससमितेः सचिवः जनपदाधिकारी च मन्दिरस्य प्रस्तावित-विकासकार्याणां मानचित्रम् अपरमुख्य-मन्त्रिणः समक्षं प्रस्तुतं करिष्यति। तेन मन्दिरपरिसरस्य भाविविकासयोजनानां विषये सूचना प्रदास्यते। पूजार्चनायाः मन्दिरसम्बद्धकार्यक्रमाणां च अनन्तरं मुख्यमन्त्री विद्यापतिपर्वसमारोहस्य सह-भागितार्थं प्रस्थानं करिष्यति।

Hindusthan Samachar / Divya Ranjan