झारखण्डे नवम्बरमासस्य २३ दिनाङ्के ३०४४ युवभ्यः नियुक्तिपत्राणि प्रदास्यन्ते
मुख्यमन्त्री हेमन्तसोरेनः मुख्यमन्त्री-कौशल-रोजगारसम्मानसमारोहस्य मुख्यातिथिः भविष्यति राञ्ची, २१ नवम्बरमास: (हि.स.)। झारखण्डे कौशलप्रशिक्षणं प्राप्तान् यून: रोजगारस्य अवसरैः सह संयोजयितुं प्रयत्नस्य अन्तर्गतं नवम्बरमासस्य २३ दिनाङ्के ३०४४ छात्रछा
मुख्यमंत्री सहित अन्य


मुख्यमन्त्री हेमन्तसोरेनः मुख्यमन्त्री-कौशल-रोजगारसम्मानसमारोहस्य मुख्यातिथिः भविष्यति

राञ्ची, २१ नवम्बरमास: (हि.स.)। झारखण्डे कौशलप्रशिक्षणं प्राप्तान् यून: रोजगारस्य अवसरैः सह संयोजयितुं प्रयत्नस्य अन्तर्गतं नवम्बरमासस्य २३ दिनाङ्के ३०४४ छात्रछात्राभ्यः नियुक्तिपत्राणि वितरिष्यन्ते। अस्मिन् अवसरे राञ्चीनगरस्य प्रोजेक्टभवनसभागारे मुख्यमन्त्रीकौशल-रोजगारसम्मानसमारोहः आयोजयिष्यते। मुख्यमन्त्री हेमन्तसोरेनः कार्यक्रमस्य मुख्यातिथिरूपेण उपस्थितः भविष्यति।

समारोहे मुख्यमन्त्रिणः उपस्थितिं सुनिश्चितं कर्तुं शनिवासरे अनुसूचितजनजाति, अनुसूचितजाति, अल्पसंख्यक तथा पिछडावर्गकल्याणविभागस्य सचिवः कृपानन्दझा, अल्पसंख्यककल्याणायुक्तः कुलदीपचौधरी तथा प्रेझाफाउण्डेशनस्य प्रतिनिधयः मुख्यमन्त्रिणा सह मिलित्वा तं कार्यक्रमाय आमन्त्रितवन्तः।

काङ्केरोडस्थिते मुख्यमन्त्रिणः आवासीय-कार्यालये सम्पन्ने अस्मिन् साक्षात्कारे प्रतिनिधिमण्डलेन मुख्यमन्त्रिणं कार्यक्रमस्य रूपरेखायाः सज्जतानां च विषये सूचितम्। तैः कथितं यत् समारोहे कौशलप्रशिक्षणं प्राप्तेभ्यः ३०४४ युवभ्यः नियुक्तिपत्राणि प्रदास्यन्ते।

अस्मिन् अवसरे प्रेझाफाउण्डेशनस्य मुख्यपरियोजनाधिकारी मीनाक्षीकुमारः, राज्यस्तरीयशासकीयसम्पर्कप्रमुखः अमितवाल्मीकि तथा कार्यकारीनिदेशकः चितरञ्जनसामन्तरायः अपि उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan