राहुलस्य वक्तव्यं प्रति कांग्रेसदलम् उद्दिश्य किरेन रिजिजोः प्रत्युत्तरम्, चत्वारः प्रश्नाः पृष्टवान्।
नव दिल्ली, 21 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणो नरेन्द्रमोदिनो विषये राहुलगान्धिनो वक्तव्यं प्रति केन्द्रीयसंसदीयकार्यमन्त्री किरेनरिजिजुः कांग्रेसदलं प्रत्युत्तरम् अददात्। तेन कांग्रेसदलं प्रति १९६२ तमे वर्षे भारत-चीनयुद्धं, देशे विद्यमानं दारिद्
किरेन रिजिजू


नव दिल्ली, 21 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणो नरेन्द्रमोदिनो विषये राहुलगान्धिनो वक्तव्यं प्रति केन्द्रीयसंसदीयकार्यमन्त्री किरेनरिजिजुः कांग्रेसदलं प्रत्युत्तरम् अददात्। तेन कांग्रेसदलं प्रति १९६२ तमे वर्षे भारत-चीनयुद्धं, देशे विद्यमानं दारिद्र्यम्, पूर्वकालिकी आर्थिकस्थितिः तथा अन्तरराष्ट्रीयस्तरे भारतस्य प्रतिमां च अधिकृत्य चत्वारः प्रश्नाः पृष्टाः।

किरेनरिजिजुः शनिवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र प्रकाशितेन सन्देशेन अवदत् यत् राहुलगान्धिनः प्रधानमन्त्रिणः विरोधः अधुना देशविरुद्धवक्तव्यपर्यन्तं प्राप्तः अस्ति। रिजिजुः कांग्रेसदलं १९६२ तमस्य वर्षस्य अपमानार्थं क्षमायाचनां कर्तुं तथा देशस्य तत्कालीनाम् आर्थिकस्थितिं प्रति उत्तरं दातुं च उक्तवान्।

रिजिजुः अपृच्छत् यत् १९६२ तमे वर्षे तस्य ग्रामः चीनदेशस्य आधिपत्ये अगच्छत्, किं कांग्रेसदलं तस्य अपमानस्य कृते क्षमायाचनां करिष्यति? द्वितीयः प्रश्नः आसीत् यत् कांग्रेसदलेन भारतं निर्धनदेशरूपेण किमर्थं स्थापितम्? तृतीयप्रश्ने तेन पृष्टं यत् भारतं कदाचित् सर्पक्रीडकानां देशः इति किमर्थम् उक्तम्? चतुर्थे प्रश्ने तेन पृष्टं यत् भारतीयार्थव्यवस्थायाः ‘हिन्दू ग्रोथ रेट’ इति नाम्ना किमर्थम् अवमानना कृता?

रिजिजोः इदं वक्तव्यं राहुलगान्धिनः तस्याः टिप्पण्याः अनन्तरम् आगतम्, यस्यां तेन प्रधानमन्त्री मोदी ‘समझौतावादी’ इति उक्तः आसीत्। राहुलगान्धिना नवम्बरमासस्य १९ दिनाङ्के एक्स इत्यत्र चीनदेशस्य शेनझेननगरे अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः, चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गः तथा रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिनः इत्येतेषां एकत्र उपस्थितियुक्तं चित्रं प्रकाशितम्। तेन उक्तं यत् यदा कांग्रेसदलं सत्तायाम् आसीत्, तदा भारतस्य प्रधानमन्त्री अपि तेषां नेतॄणां समीपस्थे आसने उपविशति स्म।

उल्लेखनीयं यत् इदं चित्रं नवम्बरमासस्य १९ दिनाङ्के शेनझेननगरे स्थिते काइलिन विला इत्यत्र सम्पन्नायाः त्रयाणां नेतॄणां त्रिपक्षीयगोष्ठ्याः आसीत्। एषा गोष्ठी २०२६ तमस्य वर्षस्य एशिया-प्रशान्त-आर्थिकसहकारस्य (एपेक) शिखरसम्मेलनस्य अवसरे अभवत्। अस्यां गोष्ठ्यां परमाण्वस्त्राणां नियन्त्रणम्, संयुक्तराष्ट्रसुरक्षापरिषदि सुधारः, यूक्रेन-ईरानदेशयोः संघर्षः इत्यादयः विषयाः चर्चिताः। एते त्रयः देशाः विश्वस्य प्रमुखेषु परमाणुशक्तिसम्पन्नदेशेषु अन्तर्भवन्ति तथा च संयुक्तराष्ट्रसुरक्षापरिषदः स्थायिसदस्याः अपि सन्ति। भारतम् एपेक-सङ्घटनस्य सदस्यः नास्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani