प्रदेशे द्वितीया महिला-आरक्षक-वाहिनी स्थापिता भविष्यति : मुख्यमन्त्री
धर्मशाला, २१ नवम्बरमास: (हि.स.)। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः धर्मशालायां हिमाचलप्रदेशस्य उच्च-न्यायालयस्य स्थायीपीठस्थापनस्य दिशि केन्द्रसर्वकाराय प्रस्तावं प्रेषयितुं घोषणां कृतवान्। विधानसभासत्रस्य अन्तिमदिने प्रश्नकालस्य अनन्तरं सदने मुख्य
विधानसभा की ओर जाते हुए सदस्य।


धर्मशाला, २१ नवम्बरमास: (हि.स.)। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः धर्मशालायां हिमाचलप्रदेशस्य उच्च-न्यायालयस्य स्थायीपीठस्थापनस्य दिशि केन्द्रसर्वकाराय प्रस्तावं प्रेषयितुं घोषणां कृतवान्। विधानसभासत्रस्य अन्तिमदिने प्रश्नकालस्य अनन्तरं सदने मुख्यमन्त्री उक्तवान् यत् प्रदेशस्य भौगोलिक-परिस्थितीन् दृष्ट्वा जनानां समीपे न्यायस्य उपलब्धिः सर्वकारस्य प्राथमिकता अस्ति। एतदुद्देश्येन धर्मशालायां उच्चन्यायालयस्य स्थायीपीठ-स्थापनार्थं समुचितानि पदानि स्वीक्रियन्ते। मुख्यमन्त्री उक्तवान् यत् अस्मिन् विषये राज्यस्य उच्चन्यायालयेन सह विचारविमर्शं कृत्वा संकल्पः निर्मीयते, ततः केन्द्रसर्वकाराय प्रेष्यते। स्थायीपीठ-स्थापनार्थम् आवश्यकस्य भवनस्य, भूमेः तथा अन्येषां आधार-भूतसुविधानां व्यवस्थायाः दायित्वम् अपि राज्यसर्वकारः निर्वक्ष्यति। प्रदेशस्य दूरस्थक्षेत्रेषु निवसतां जनानां न्यायिक-प्रक्रियायां सुविधा भवेत्, एतदर्थं सर्वकारः आवश्यकाः कार्यवाही: करिष्यति।

अन्यतः मुख्यमन्त्री प्रदेशे एकस्याः अन्यस्याः महिलापुलिसवाहिन्याः स्थापनायाः घोषणाम् अपि कृतवान्। हिमाचलप्रदेश-आरक्षकविभागस्य महिलाबिगुल-वादकदलस्य उपलब्धिं उल्लेखयन् सः अवदत् यत् सप्तविंशतितमे राष्ट्रियबन्दप्रतियोगितायां दलं प्रथमस्थानं प्राप्त्वा प्रदेशस्य गौरवं वर्धितवान्। अस्यां उपलब्ध्यां दलस्य सदस्याः अभिनन्दयन् मुख्यमन्त्री घोषणां कृतवान् यत् दलस्य प्रत्येकं सदस्यं ५०,००० रूप्यकाणां प्रोत्साहनराशिः प्रदास्यते।

Hindusthan Samachar / Divya Ranjan