Enter your Email Address to subscribe to our newsletters

सीवानम्, २१ नवम्बरमास: (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना शनिवासरे सीवानजनपदाय विकासयोजनानां महदुपहारः प्रदत्तः। वैशालीजनपदस्य बिदुपुरे आयोजितकार्यक्रमे कच्ची दरगाह-बिदुपुर षट्पङ्क्तिमार्गीयस्य नीतीशसेतुः उद्घाटनं कुर्वन् प्रधानमन्त्रिणा दृश्यप्रवाह-माध्यमेन सीवानजनपदस्य अनेकाः महत्त्वपूर्णाः योजनाः अपि प्रारब्धाः। एतासु १९५.२८ कोटिरूप्यकाणां आर्द्रभूमि-समेकितमत्स्यसमूहविकासयोजना तथा ८.३१९८ कोटिरूप्यकाणां सप्तस्वास्थ्य-परियोजनाः अन्तर्भवन्ति। तदतिरिक्तं प्रधानमन्त्रिणः आवास-योजनायाः दश लाभार्थिभ्यः गृहप्रवेशस्य कुंचिका: अपि प्रदत्ताः।
जनपदे मत्स्य उत्पादनं वर्धयितुं मत्स्यपालकानां आयं च वर्धयितुं प्रारब्धायाः १९५.२८ कोटिरूप्यकाणां अस्याः परियोजनायाः वित्तपोषणं मत्स्याधारभूत-संरचनाविकासनिधेः माध्यमेन क्रियते। अस्याः योजनायाः अन्तर्गतं भगवानपुरहाट, गोरेयाकोठी तथा बसन्तपुरप्रखण्डेषु प्रायः ३००० हेक्टेयर आर्द्रभूमेः विकासः क्रियते। योजनायां कुलम् २८ घटकाः समाविष्टाः सन्ति। तदन्तर्गतं निजीमत्स्यतालानां जैवप्रवाह-मत्स्यतालानां च निर्माणम्, पुनःपरि-सञ्चरणीयजलजीवपालनप्रणाली, सौरपम्पसमुच्चयाः तथा अधःस्थापितनल-कूपपम्पसमुच्चयाः च स्थापिताः भविष्यन्ति। अपि च मत्स्यबीजहैचरी, मत्स्याहारनिर्माणशाला, शीतभण्डारः तथा हिमपेटिकानां व्यवस्था भविष्यति। मत्स्यानां विपणनाय त्रिचक्रिकावाहनमाध्यमेन परिवहनव्यवस्था अपि विकसिताः भविष्यन्ति। एतेन मत्स्य उत्पादनं, भण्डारणं, विक्रयव्यवस्था च सुदृढा भविष्यति इति अपेक्षा अस्ति।
प्रधानमन्त्रिणा बिहारचिकित्सासेवाभारा-धारसंरचनानिर्माणनिगमस्य माध्यमेन जनपदे निर्मितानां सप्तस्वास्थ्यपरि-योजनानाम् उद्घाटनम् अपि कृतम्। एतासां कुलव्ययः ८.३१९८ कोटिरूप्यकाणि अस्ति। एतासु महाराजगञ्जस्य सामुदायिक-स्वास्थ्यकेन्द्रम् तथा षट् स्वास्थ्यकल्याण-केन्द्राणि अन्तर्भवन्ति। महाराजगञ्जस्य सामुदायिकस्वास्थ्यकेन्द्रस्य निर्माणे ५.७५ कोटिरूप्यकाणां व्ययः कृतः। बड़हरिया प्रखण्डस्य रछोपाली, भगवानपुरहाट-प्रखण्डस्य महना, बारमस्थान तथा बिथुना, नबीगञ्जप्रखण्डस्य जगतपुर तथा महाराजगञ्जप्रखण्डस्य पिपराखुर्द इत्येतेषु स्थानेषु पूर्वनिर्मितस्वास्थ्य-कल्याण-केन्द्राणि निर्मितानि। प्रत्येकं केन्द्रस्य निर्माणे ४२.८३ लक्षरूप्यकाणां व्ययः अभवत्। एतेषां स्वास्थ्यकेन्द्राणां प्रारम्भेण सम्बन्धितक्षेत्राणां जनानां कृते प्राथमिकस्वास्थ्यसेवाः सामुदायिक-स्वास्थ्यसेवाश्च स्थानीयस्तरे उपलब्धाः भविष्यन्ति। रोगिणां दूरस्थचिकित्सालयेषु उपचारार्थं निर्भरता न्यूनीभविष्यति।
कार्यक्रमे प्रधानमन्त्रिणः आवासयोजनायाः अन्तर्गतं जनपदस्य दश लाभार्थिभ्यः गृहप्रवेशस्य चाभ्यः अपि प्रदत्ताः। एतेषु सीवाननगरपरिषदः षट्, महाराज-गञ्जनगरपञ्चायतस्य द्वौ तथा मैरवानगरपञ्चायतस्य द्वौ लाभार्थिनौ अन्तर्भवन्ति। अस्मिन् अवसरे बड़हरिया-विधायकः इन्द्रदेवसिंहपटेलः, जीरादेई-विधायकः भीष्मप्रतापसिंहः, जनपदपरिषदः अध्यक्षः संगीता देवी, नगरपरिषदः अध्यक्षः शेम्पी देवी, विंशतिसूत्रीयसमितेः उपाध्यक्षः चन्द्रकेतुसिंहः, संजयपाण्डेयः, नगरपरिषदः उपाध्यक्षः किरणगुप्ता, जनपदाधिकारी विजयप्रकाशमीणा, आरक्षकाधीक्षकः भारतसोनी इत्यादयः विभिन्नविभागानां जनपदस्तरीयाधिकारिणः, जनप्रतिनिधयः, शताधिकाः लाभार्थिनः सामान्य-नागरिकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan