Enter your Email Address to subscribe to our newsletters

रेवाडी, २१ नवम्बरमास: (हि.स.)। नगरे आधुनिकसुविधायुक्तस्य नूतननागरिक-चिकित्सालयस्य निर्माणार्थं ३४८ कोटि २८ लक्षरूप्यकाणां राशिः स्वीकृता अस्ति। मुख्यमन्त्री नायबसिंहसैनी अस्य महत्त्वाकांक्षी-परियोजनायाः अनुमोदनं कृतवान्। अनेन रेवाडीजनपदस्य समीपवर्तिनां क्षेत्राणां च जनाः उत्तमाः स्वास्थ्यसेवाः प्राप्तुं शक्नुवन्ति। स्वास्थ्यस्य, चिकित्सा-शिक्षायाः, अनु-सन्धानस्य तथा आयुषविभागस्य मन्त्रिणी आरतीसिंहरावः शनिवासरे मुख्यमन्त्रिणं प्रति कृतज्ञतां व्यक्तवती।
मन्त्रिणी आरतीसिंहरावः उक्तवती यत् आधुनिकसुविधायुक्तस्य नागरिकचिकित्सालयस्य निर्माणेन क्षेत्रस्य जनाः उत्तमम् उपचारं प्राप्तुं शक्नुवन्ति। गम्भीररोगाणां उपचारार्थं रोगिणां बृहन्नगराणां गमनस्य बाध्यता अपि न्यूनीभविष्यति। सर्वकारस्य प्रयासः अस्ति यत् जनानां स्वजनपदे एव उत्तमाः चिकित्सासुविधाः उपलब्धाः भवेयुः।
प्रस्तावितयोजनानुसारं चिकित्सालयस्य नूतनं भवनं द्वयोः भूमिगततलयोः षट्तलानां च निर्माणं भविष्यति। भूमिगततले वाहनस्थानकस्य, प्राणवायु-संयन्त्रस्य, मलजलशोधनसंयन्त्रस्य, रासायनिकशोधनसंयन्त्रस्य तथा अन्येषां तकनीकीसेवानां व्यवस्था भविष्यति। भूतले आपातकालीनचिकित्साविभागः तथा स्त्रीरोगविभागः निर्मीयेताम्।
अन्येषु तलेषु बहिरङ्गरोगिविभागः, प्रयोगशाला, रोगिशय्यागाराः, शल्यक्रिया-गृहाणि तथा प्रशासनिकविभागः भविष्यन्ति। रोगिणां सुविधार्थं बहिरङ्ग-रोगिविभागस्य पृथक्-पृथक् खण्डाः तथा सामान्यप्रतीक्षाक्षेत्रम् अपि निर्मीयते। चिकित्सालयपरिसरे एम्बुलेन्सयानानां सामान्यवाहनानां च आवागमनार्थं द्वौ प्रवेश-निर्गममार्गौ निर्मीयेताम्। आधुनिकपरीक्षणसुविधानां अन्तर्गतं एमआरआई तथा सीटी स्कैनयन्त्राणि स्थापयिष्यन्ति। हृदय-रोगिणां उपचारार्थं कैथलैब-सुविधा अपि उपलब्धा भविष्यति।
मन्त्रिणी उक्तवती यत् नूतन-चिकित्सालयस्य निर्माणेन रेवाडी-जनपदस्य समीपवर्तिनां क्षेत्राणां च जनाः आधुनिकचिकित्सासुविधानां लाभं प्राप्स्यन्ति। अनेन जनपदस्य स्वास्थ्यसेवाः अधिकं सुदृढाः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan