समरसतासंकल्पयात्रा नवम्बरमासस्य २३, २४ दिनाङ्कयोः हिमाचलप्रदेशं प्रवेक्ष्यति
शिमला, २१ नवम्बरमासः (हि.स.)। सामाजिकैकतायाः, भ्रातृत्वस्य तथा राष्ट्रियैकतायाः सन्देशं प्रसारयन्ती समरसतासंकल्पयात्रा नवम्बरमासस्य २३, २४ दिनाङ्कयोः हिमाचलप्रदेशस्य सोलन-सिरमौरजनपदयोः मार्गेण गमिष्यति। भाजपायाः राज्यसभासदः, प्रदेशमहामन्त्री च डॉ.
सिकंदर कुमार


शिमला, २१ नवम्बरमासः (हि.स.)। सामाजिकैकतायाः, भ्रातृत्वस्य तथा राष्ट्रियैकतायाः सन्देशं प्रसारयन्ती समरसतासंकल्पयात्रा नवम्बरमासस्य २३, २४ दिनाङ्कयोः हिमाचलप्रदेशस्य सोलन-सिरमौरजनपदयोः मार्गेण गमिष्यति। भाजपायाः राज्यसभासदः, प्रदेशमहामन्त्री च डॉ. सिकन्दरकुमारः शनिवासरे एतत् विवरणं दत्तवान्। सः उक्तवान् यत् यात्रायाः उद्देश्यं समाजस्य विभिन्नवर्गान् एकतासूत्रे संयोजयितुं तथा परस्परसौहार्दं सुदृढं कर्तुम् अस्ति।

डॉ. सिकन्दरकुमारः अवदत् यत् यात्रा नवम्बरमासस्य २३ दिनाङ्के चण्डीगढतः हिमाचलप्रदेशं प्रवेक्ष्यति। ततः परवाणू-सोलननगरयोः गमिष्यति। तदनन्तरं यात्रा सिरमौरजनपदस्य नाहनं पांवटासाहिबं च प्रति प्रस्थानं करिष्यति। नवम्बरमासस्य २४ दिनाङ्के पांवटासाहिबतः यात्रा उत्तराखण्डस्य देहरादूननगरं प्रति प्रस्थानं करिष्यति। सः उक्तवान् यत् सोलन-सिरमौरजनपदयोः भाजपाकार्यकर्तारः यात्रायाः स्वागतं करिष्यन्ति।

सामाजिकसौहार्दस्य सन्देशं प्रसारयिष्यति यात्रा

डॉ. सिकन्दरकुमारः उक्तवान् यत् हिमाचलप्रदेशे सामाजिकसौहार्दस्य, परस्परसहयोगस्य तथा भ्रातृत्वस्य समृद्धा परम्परा अस्ति। यात्रायाः माध्यमेन एतेषां मूल्यानां सुदृढीकरणस्य सन्देशः प्रसारितः भविष्यति। अस्मिन् समता, परस्पर सम्मानः तथा राष्ट्रहितस्य भावना प्रमुखतया प्रतिपादिता अस्ति।

विविधतायां एकतायाः महत्त्वं प्रतिपादितम्

सः उक्तवान् यत् भारतस्य सर्वाधिकं बलं विविधतायाम् एकता अस्ति। देशे विभिन्नभाषाणां, संस्कृतिनां तथा परम्पराणां विद्यमानत्वेऽपि राष्ट्रियैकता अखण्डता च सर्वोपरि अस्ति। प्रधानमन्त्रिण: नरेन्द्रमोदीन: नेतृत्वे अग्रे गच्छतः ‘सर्वेषां सहयोगः, सर्वेषां विकासः, सर्वेषां विश्वासः, सर्वेषां प्रयासः’ इति संकल्पस्य उल्लेखं कुर्वन् सः सामाजिकसमरसतायाः महत्त्वं प्रतिपादितवान्।

सः भाजपाकार्यकर्तृभ्यः, सामाजिक-सङ्गठनेभ्यः, युवभ्यः तथा समाजस्य सर्वेभ्यः वर्गेभ्यः यात्रायाः स्वागतं कर्तुं तथा तस्याः सन्देशं जनानां पर्यन्तं प्रसारयितुं च आह्वानं कृतवान्।

Hindusthan Samachar / Divya Ranjan