Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 21 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रिणः गोरक्षपीठाधीश्वरस्य च योगिनः आदित्यनाथस्य मातुः सावित्रीदेव्याः निधनस्य शोकावसरे श्रीपञ्चदशनामजूना-अखाडेन त्रिदिनपर्यन्तं देशव्यापिनः स्वकीयेषु सर्वेषु प्रमुखमठेषु, मन्दिरेषु आश्रमेषु च आयोज्यमानानि धार्मिकानुष्ठानानि अन्यकार्यक्रमाश्च स्थगितानि।
अखाडायाः अन्ताराष्ट्रियसंरक्षकस्य श्रीमहन्तहरिगिरिमहाराजस्य निर्देशानुसारं एतेषु त्रिषु दिवसेषु सावित्रीदेव्याः आत्मनः शान्त्यर्थं शान्तिपाठः, विशेषपूजा-अर्चना, हवनं च आयोजयिष्यते।
अस्यैव क्रमे शनिवासरे हरिद्वारस्य अधिष्ठात्रीदेव्याः मातुः मायादेव्याः मन्दिरे विशेषपूजा-अर्चना कृता। वरिष्ठसभापतिः श्रीमहन्तप्रेमगिरिः, वरिष्ठोपाध्यक्षः श्रीमहन्तमहेशपुरीः, सचिवः श्रीमहन्तकञ्चनगिरिः, महासचिवः श्रीमहन्तशैलेन्द्रगिरिः इत्यादयः नागासंन्यासिनश्च आनन्दभैरवघट्टे गङ्गानद्याः पूजनम् अर्चनं च कृत्वा सावित्रीदेव्याः आत्मनः शान्त्यर्थं प्रार्थनाम् अकुर्वन्।
अखाडायाः अन्तरराष्ट्रीयप्रवक्ता श्रीमहन्तनारायणगिरिमहाराजः अवदत् यत् वाराणसी, मुरादाबाद, उज्जयिनी, नासिक, जूनागढ, पिथौरागढ, बरेली, बिहारम् इत्यादिषु सर्वेषु आश्रमेषु श्रद्धाञ्जलिसभाः आयोजयिष्यन्ते।
तेन कथितं यत् कुम्भस्य २०२७ तमवर्षस्य शुभारम्भार्थं नवम्बरमासस्य २१ दिनाङ्के आयोजनीयः रमतेपञ्चानां नगरप्रवेशकार्यक्रमः अपि स्थगितः। अधुना रमतेपञ्चाः नवम्बरमासस्य २४ दिनाङ्के नगरप्रवेशं करिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani