मातु: बहादुरकलारिण्याः सहस्रबाहोः अर्जुनस्य च इतिहासः गौरवशाली - ओंकारसाहुः
धमतरी, २२ नवम्बरमास: (हि.स.)। छत्तीसगढ़कलारसमाजस्य धमतरी-शाखायाः तत्वावधाने रविवासरे देमार-ग्रामस्य बाजारचत्वरे वार्षिक-दीपावली-मिलनसमारोहः भगवत: सहस्र-बाहोः अर्जुनस्य जयन्ती च हर्षो-ल्लासेन आयोजिता। आयोजने सामाजि-कैकतायाः, परस्परप्रेम्णः, भ्रातृत्
ग्राम देमार में आयोजित सहस्दत्र बाहू जयंती कार्यक्रम में उपस्थित समाजजजन।


समूहमें खड़े हुए समाजजन।


महिलाआंे ने  कलश यात्रा निकाली।


कार्यक्रम को संबोधित करते हुए विधायक ओंकार साहू।


धमतरी, २२ नवम्बरमास: (हि.स.)। छत्तीसगढ़कलारसमाजस्य धमतरी-शाखायाः तत्वावधाने रविवासरे देमार-ग्रामस्य बाजारचत्वरे वार्षिक-दीपावली-मिलनसमारोहः भगवत: सहस्र-बाहोः अर्जुनस्य जयन्ती च हर्षो-ल्लासेन आयोजिता। आयोजने सामाजि-कैकतायाः, परस्परप्रेम्णः, भ्रातृत्वस्य सांस्कृतिक-परम्परायाः संरक्षणस्य च सन्देशः प्रदत्तः।

कार्यक्रमस्य मुख्यातिथिः धमतरीविधायकः ओंकारसाहुः अवदत् यत् माता बहादुरकलारिण्याः सहस्रबाहोः अर्जुनस्य च इतिहासः गौरवशाली अस्ति, यः सम्पूर्णस्य कलारसमाजस्य गौरवस्य विषयः अस्ति। जनपदे माता बहादुरकलारिणी देवीरूपेण पूज्यते। सा छत्तीसगढ़स्य सांस्कृतिकायाः पौराणिकायाः च परम्परायाः महत्त्वपूर्णः भागः अस्ति। माता बहादुरकलारिणी महिलानाम् उत्थानाय सम्मानाय च कार्यं कृतवती। कार्यक्रमस्य अध्यक्षतां कुर्वन् कलारसमाजस्य छत्तीसगढ़प्रदेशाध्यक्षः युवराजसिंहः अवदत् यत् सामाजिकैकता एव समाजस्य सर्वश्रेष्ठं बलम् अस्ति। समाजस्य प्रत्येकं सदस्यं एतादृशेषु आयोजनेषु सक्रियसहभागितां निर्वहेत्। मण्डलेश्वरः सन्तोषसिंहः अवदत् यत् समाजस्य सर्वाङ्गीणविकासाय नशामुक्तेः बालानां शिक्षायाश्च विशेषं ध्यानं दातुम् आवश्यकम् अस्ति। समाजे जागरूकतायाः परस्परसम्बन्धस्य च वृद्ध्यर्थम् एतादृशाः कार्यक्रमाः विभिन्नेषु ग्रामेषु आयोज्यन्ते।

कार्यक्रमस्य आरम्भः प्रातः १० वादने भगवत: सहस्रबाहोः अर्जुनस्य पूजार्चनया आरार्तिक्या च अभवत्। ततः प्रातः ११ वादने भव्यकलशयात्रा निष्कासिता, यस्यां समाजस्य मातृभिः भगिनीभिः च उत्साहपूर्वकं सहभागिता कृता। अपराह्णे एकवादने अतिथीनां स्वागतं सम्माननं च कृतम्। अस्मिन् समये अतिथिभिः सामाजिकविषयेषु स्वविचाराः प्रस्तुताः। अपराह्णे द्विवादने सामूहिकस्नेहभोजनम् अभवत्, त्रिवादने सामाजिकप्रकरणेषु विविधविषयेषु च विचारविमर्शः कृतः। समारोहस्य विशेषाकर्षणं द्रोपतीसिंहया मातु: बहादुरकलारिण्याः शौर्यगाथायाः सङ्गीतमयी प्रस्तुति: आसीत्, या उपस्थितान् भावविभोरान् अकरोत्।

आयोजने प्रदेशकोषाध्यक्षः डॉ. बिशम्भरसिंहः, जनपदपञ्चायतसदस्यः योगेशकविताबाबरः, सचिवः सुरेशसिंहः, कोषाध्यक्षः हेमशङ्करसिंहः, देमारग्राम-पञ्चायतस्य सरपञ्चः विमलेशमीनपालः, जनपदसदस्यः योगेशमारकण्डेः, प्रदेश-कोषनिरीक्षकः शशिकान्तसिंहः, जनपद-संरक्षकः कालिदाससिंहः, जनपदाध्यक्षः चन्द्रहाससिंहः, पूर्वप्रान्तीयमहामन्त्री अभिमन्युसिंहः, सोहनसिंहः, निखिल-कुमारसिंहः इत्येतै: सह देमारग्रामस्य सामाजिकप्रमुखाः, जनपदात् समीपस्थ-क्षेत्रेभ्यः च बहुसंख्यकाः समाजबन्धवः, मातरः भगिन्यः च उपस्थिताः आसन्। कार्यक्रमस्य आयोजनं कलारसमाजस्य देमारशाखया कृतम्। कार्यक्रमस्य सञ्चालनं सीतारामसिंहः कृतवान्।

Hindusthan Samachar / Divya Ranjan