Enter your Email Address to subscribe to our newsletters

ईटानगरम्, २२ नवम्बरमास: (हि.स.)। केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाह: उक्तवान् यत् अरुणाचलप्रदेशः ग्रामीणसमृद्धेः नूतनयुगं प्रति अग्रसरः अस्ति। सहकारिताक्षेत्रस्य सुदृढीकरणेन राज्यस्य कृषकाणां, यूनां तथा महिलानां कृते आर्थिकविकासस्य रोजगारस्य च नवीनाः अवसराः उत्पद्यन्ते। सहकारीसंस्थाः ग्रामीणार्थव्यवस्थां सुदृढीकर्तुं स्थानीयस्तरे आत्मनिर्भरता वर्धयितुं च महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुवन्ति इति सः अवदत्।
अमितशाहः रविवासरे ईटानगरस्थिते दोर्जीखाण्डू-सम्मेलनभवने आयोजिते ‘सहकारितासमारोहे’ सम्बोधितवान्। अस्मिन् अवसरे सः अरुणाचलप्रदेशस्य ‘सहकारितादृष्टिपत्रम् २०४७’ विमो-चितवान्। राज्ये ५,६१० कोटिरूप्यकाणां विविधविकासपरियोजनानां शुभारम्भम् अपि कृतवान्। एतानि उपक्रमाणि राज्यस्य ग्रामीणक्षेत्राणां, शिक्षायाः, विद्युत्-व्यवस्थायाः, मार्गाणां तथा सीमावर्ती-क्षेत्राणां विकासस्य दिशि महत्त्वपूर्णानि पदानि मन्यन्ते।
कार्यक्रमे केन्द्रीयगृहमन्त्री उक्तवान् यत् सहकारितामाध्यमेन ग्रामीणक्षेत्रेषु उपलब्धानां संसाधनानां समुचितः उपयोगः कर्तुं शक्यते। एतेन कृषकाः स्वोत्पादानां श्रेष्ठं मूल्यं प्राप्तुं, युवानः स्वावलम्बनार्थं रोजगारस्य अवसरान् प्राप्तुं तथा महिलाः आर्थिकक्रियाकलापैः सह सम्बद्धाः भवितुं च शक्नुवन्ति। सहकारीसंस्थानां विस्तारेण ग्रामेषु आर्थिकक्रियाकलापानां प्रोत्साहनं भविष्यति तथा विकासस्य लाभः समाजस्य अन्तिमव्यक्तिपर्यन्तं प्राप्स्यति।
समारोहे अमितशाहः राज्यस्य कृते घोषितानां ५,६१० कोटिरूप्यकाणां विकासपरियोजनानां शुभारम्भं कृतवान्। एतासु ‘मिशन शिक्षित अरुणाचल-द्वितीयचरणम्’, विद्युत्क्षेत्रस्य विकासः, ग्रामीणमार्गसम्पर्कस्य सुदृढीकरणं तथा सीमावर्तीक्षेत्राणां विकाससम्बद्धाः योजनाः अन्तर्भवन्ति। तदतिरिक्तं राज्यस्य ११ सीमावर्तीजनपदेषु ‘वाइब्रेन्ट विलेज प्रोग्राम’ अन्तर्गतं १९९ परियोजनानाम् अपि शुभारम्भः कृतः।
एतासां परियोजनानां उद्देश्यं सीमावर्ती-ग्रामेषु आधारभूतसुविधानां विस्तारः तथा तत्र निवसतां जनानां जीवनस्तरस्य सुधारः अस्ति। ग्रामीणमार्गाणां विद्युत्सुविधानां च विकासेन दूरस्थक्षेत्राणि मुख्यधारया संयोजयितुं अपि सहायता भविष्यति।
‘मिशन शिक्षित अरुणाचल-द्वितीयचरणम्’ माध्यमेन राज्यस्य शिक्षाव्यवस्थां सुदृढीकर्तुं प्रयासाः क्रियन्ते। विद्युत्विकास-परियोजनाभिः ऊर्जासुविधानां विस्तारः तथा ग्रामीणक्षेत्रेषु आधारभूतसंरचनायाः सुधारः भविष्यति इति अपेक्षा अस्ति।
कार्यक्रमे अमितशाहः उत्कृष्टकार्यं कुर्वतीः चतस्रः सहकारीसमितीः पुरस्कारैः सम्मानितवान्। एतासु नामसाई-दुग्धसहकारीसमितिः, लोअर-सुबनसिरी-मत्स्यपालकसहकारीसमितिः, केमली-लैम्प्स्-हस्तकरघा-वस्त्र-कुविन्द-सहकारीसमितिः तथा तवाङ्गस्य जाङ्ग-लैम्प्स् च अन्तर्भवन्ति। एतासां समितीनां कार्याणि दुग्धोत्पादनं, मत्स्यपालनं, हस्तकरघा तथा वस्त्रनिर्माणम् इत्यादिभिः क्षेत्रैः सम्बद्धानि सन्ति। एतासां समितीनां प्रयासाः राज्ये सहकारीगतिविधीनां माध्यमेन स्थानीयजीविकायाः ग्रामीणो-द्यमशीलतायाः च प्रोत्साहनस्य उदाहरणानि सन्ति।
अरुणाचलप्रदेशे दुग्धोत्पादनस्य मत्स्य-पालनस्य च क्षेत्रेषु सहकारीसंस्थानां भूमिका कृषकाणां लघुउत्पादकानां च कृते विशेषमहत्त्वं धारयति। तथैव हस्तकरघा-बुनकरसमितयः स्थानीयकलां, पारम्परिककौशलं तथा हस्तशिल्पं विपणेन सह संयोजयितुं साहाय्यं कुर्वन्ति। एतादृशैः प्रयासैः ग्रामीणसमुदायानां आयवृद्धेः तथा स्थानीयोत्पादानां नूतन-परिचयप्राप्तेः सम्भावनाः वर्धन्ते।
केन्द्रीयगृहमन्त्री अमितशाहः गतशुक्रवासरे अरुणाचलप्रदेशस्य राजधानीम् ईटानगरम् आगतवान्। तस्य यात्रा त्रिदिवसीया आसीत्। नवम्बरमासस्य २१ दिनाङ्के सः राज्ये सञ्चालितानां विविधविकास-योजनानां तथा सुरक्षासम्बद्धानां विषयाणां समीक्षां कृतवान्। ततः रविवासरे सहकारितासमारोहे भागं गृहीत्वा राज्यस्य विकासपरियोजनानां शुभारम्भं कृतवान् तथा सहकारिताक्षेत्रस्य भविष्यत्-कार्ययोजनां प्रस्तुतवान्।
अस्मिन् अवसरे अरुणाचलप्रदेशस्य मुख्यमन्त्री पेमा खाण्डू, केन्द्रीयमन्त्री किरेन रिजिजू, उपमुख्यमन्त्री चौना मेन, सांसदः तापिर गाओ, ताई तागाकः, राज्यस्य मन्त्रिमण्डलस्य सदस्याः, वरिष्ठाः शासकीयाधिकारिणः तथा अन्ये गणमान्यजनाः उपस्थिताः आसन्।
केन्द्रीयगृहमन्त्रिणः सहकारितामन्त्रिणः च एषा यात्रा अरुणाचलप्रदेशे विकासस्य, ग्रामीणार्थव्यवस्थायाः तथा सीमावर्ती-क्षेत्राणां सशक्तीकरणस्य दृष्ट्या महत्त्वपूर्णा मन्यते। ‘सहकारितादृष्टिपत्रम् २०४७’ माध्यमेन राज्ये सहकारीसंस्थाः भविष्यस्य आवश्यकतानुसारं विकसिताः भवेयुः तथा कृषकाणां, महिलानां यूनां च सहभागिता वर्धेत इति लक्ष्यं निर्धारितम् अस्ति।
Hindusthan Samachar / Divya Ranjan